Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600085/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ POUNDSAUNE RANIANARIANAANANANNAPNARNAANAANANANAANAANAN श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्कः ११. श्रीमद्रत्नशेखरसूरीन्द्रशिष्याणु-श्रीरत्नमण्डनकृता श्रीजल्पकल्पलता. विख्यातिकारकः-नगीनभाई घेलाभाई-जव्हेरी,-अस्यैकः कार्यवाहक इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई-जव्हेरीबाजार इत्यनेन निर्णयसागरमुद्रणमन्दिरे कोलभाटवीथ्या २३ तमे महे बा. रा. घाणेकरारा मुद्रयित्वा प्रकाशितः । प्रति ५०० वीराब्द २४३८. विक्रमाब्द १९६८. विस्ताब्द १९१२. वेतनम् ३ आणकाः DANUNUNUNUNUNAMUMUNUNUNUNG Page #2 -------------------------------------------------------------------------- ________________ Sheth Devachand Lalbhai Jain Pustakoddhár Fund Series. No. 11. PREFACE. CE This work known as Jalpa-Kalpa-Lata is written by Shriman Ratna mandan of Tapagachha' who was the disciple of Shree Nandiratna, the disciple of Shriman Ratna Shekharsuri. It embodies the discussions held between Shree Manikya Muni, the disciple of Shree Vadidev suri the learned contemporary of Shree Kalikala Sarvagna Shree Hemchandracharya, and one Shankara Naiyáyika, a native of Benares. They are questions and answers in the form of verse. The subject matter of this volume will be of great help to the students of Grammar, Poetry and Logic, - Vyakarana, Kavya and Nyaya. The highly technical character of the terminology (FHENT) employed in these dialogues has made it impossible for the publishers to give any explanations of their own. Page #3 -------------------------------------------------------------------------- ________________ This is the "Eleventh volume" of the series published by this Fund. We are indebted to Shree Chaturvijaya, the disciple of Pravartaka Shree Kantivijaya the disciple of Shred Vijayananda Suri alias Atmaramji, and Panyas Shree Anandsagar for going through the proof sheets. We are also thankful to Panyas Shree Siddhivijaya and Anandsagar and Pravartaka Shree Kantivijaya for having furnished the original manuscripts. August 1912. NAGINBHÂI GHELABHÂI JAVERI 325, JAVERI BIZIR, A Trustee for himself and Co. trustees. BOMBAY. 6 Page #4 -------------------------------------------------------------------------- ________________ जल्प ॥१॥ श्रीजल्पकल्पलता - प्रस्तावना. श्रीगणधरेन्द्राय नतिततिः प्रपोस्फोरीतु 000000000 विदित पूर्वमेतद्विदुषां समेषामपेतद्वेषपुषां हृद्गुहाहितधर्म धैर्य के सरि किशोरपोषाणां यद्वैक्रमीये त्रयोदशे शतके निखिल - खिलस्खलनास्खलितबलप्राग्भारपुण्यसंभार भ्राजिष्णुभूषनहतमारविकारसंचारविधिवद्विधूतराज्यादिसमस्तसारनिकरानादिकालीन कर्म त तिनिहतिप्रभुप्रभावलब्धरमारामादिसङ्गव्यासक्तपारगतपुरुषोत्तमपशुपतिप्रभृतिलौकिकगणार्य देवसंदोहावितर्क्य परमयोगिवेद्य केवलावलोकनलम्पट केवलविच्छ्रीमज्जिनेन्द्रशासनानुसारिशासनश्रीपत्यास्थाने दिवाकरायितं श्रीमद्भिराशाम्बरपराभूतिसमर्पणप्रवणैर्यथार्थाभिधानैः श्रीदेवसूरिभिः । स्पष्टं चैतत्स्पष्टितगुर्वावलीगुर्वावलीबोधजातस्वान्तपरिकर्मणां “श्रीदेवसूरिरपरश्च जगत्प्रसिद्धो, वादीश्वरोऽस्तगुणचन्द्रमदोऽपि बाल्ये ॥ १३ ॥ येनार्दितश्चतुरशीति सुवादिवेला- लब्धोल्लसज्जयरमामदकेलिशाली । वादाहवे कुमुदचन्द्रदिगम्बरेन्द्रः, श्रीसिद्धभूमिपतिसंसदि पत्तनेऽस्मिन् ॥ १४ ॥ " इत्यादिविलोककानामखिलविन्मतजोषकाणाम् । समजायन्त च श्रीसिद्धाधिपहृदरविन्दावासपद्मापरिवृढा वादाद्यगण्यलब्धिनिधानभूता लोके समस्तसारेतरनिरीक्षणचणे वन्द्यतम चरणकमलाः श्रीमन्तोऽनेकवाद विजयलब्धकीर्त्तिमुखरितदिचक्रवालवादिगजघटाविशरणनदीष्णशा क० ल० प्रस्ता० ॥ १ ॥ Page #5 -------------------------------------------------------------------------- ________________ दलशौर्यशरणशिष्यश्रेणिविस्फारितयशोनिचयाः अनेके शिष्या भुजिष्याः । प्रादुर्भूतश्चाभाग्यवाप्रवाहपोषितसतद्धिकस्तूरिपरिमलानां “ब्राह्मणश्रमणं" इतिन्यायसत्यापनसादराणां दिवसनाथालोकप्रसर इवोलूकानां द्विजातीनां मत्सरोऽनूनो विवेकेक्षणक्षोदकः । तोरमुष्मादेव श्रीमतां परमपुण्यपाथेयपुष्टात्मश्रीमद्वर्णनीयपादानामागमनोत्सवेऽकाण्ड एवारब्धं विवादलास्यं वाराणसीवासवासितानिवत्तेनीयासममोहनीयमलमुषितान्तःकरणनिलयज्योतिरालयाविवेकालयेन शङ्करग्रामण्या, पर्यनुयुक्ताः परमगुरवः शैशवयौवनवार्धक्यरूपावस्थात्रितयविहितानेकदुर्दमवादि वृन्दजागर्जद्गजघटाकुम्भकषणकण्ठीरवायमाणा वाद्युपाध्यलङ्कृताः स्वाभाविकसौभाग्यभङ्गीपरिवृतकरणाः प्रतिभाप्राग्भारशपिराभूतपीयूषपायिप्रणयार्चितचरणदेवाचार्याः श्रीमदाराध्यपादाः श्रीमद्देवाचार्याः कान्तासम्मिततया शब्दार्थप्राधान्यं प्रोज्झ्य केवलरसप्राधान्यावगाढानेकस्वरूपे काव्यविषयेऽर्थप्राधान्यमनुसृत्य साधनीयार्थसिद्धिसाधनसाधनसावधानायामान्वीक्षिक्यां चौष्ठगोष्ठीमिषेण । तादृशे चावसरेऽवसरवेदवेधसामन्तिषदामुपस्थानं नासमञ्जसं प्रत्युतोभयपक्षनिप्पक्षपातप्रशंसाप्रबन्धास्पदम्, अन्तर्भाषणादिप्रतिबन्धकापत्तिस्त्वापाद्यमानास्थानधर्माख्यानकुशलवा वृत्तान्तप्रख्येष्वन्तेवास्यधिकारबहिर्भूतेषु, श्रीमतां च चौलुक्यचन्द्रश्रीसिद्धराजमौलिमुकुटद्योतिचरणचरणरहामनेके अभूवन् श्रीमन्तो रत्नप्रभमाणिक्यमुनिमहेन्द्रसिंहाद्याः गुरुप्रवरपरिचर्यापर्याप्त्याप्तपरमार्षादिप्रचुरतरराद्धान्तसिद्धान्ता वादविजयाहवाहूतजयश्रियः सिद्धान्ततत्त्वनदीष्णताकनकनिकषपट्टा विदिता जगतीतले जगजन्तुजातजीवितत्राणक्षमक्षमादिगुणगणाङ्गीभूताः, समापतितश्च मल्लप्रतिमल्लन्यायेन वादसमरो जगज्जनयितृविषयस्तत्र मुनिमाणिक्येन माणिक्यदृढताति Page #6 -------------------------------------------------------------------------- ________________ जल्प ॥२॥ | शायिना माणिक्येन महात्मना, एष एव महात्माऽपरेष्वप्येतादृशेषु शेषेषु प्रयोजनेषु दिनकर इव दिने स्वप्रभावं प्रादुरभावयदेव । प्रभावकचरितेऽपि श्रीमद्देवसूरीयप्रबन्धे तत्प्रभावः परमो बोबुध्यत एव यतस्तत्र कुमुद - चन्द्रवादप्रकरणे " अथाह देवसूरीणां, माणिक्याख्यो विनेयराट् । कः कण्ठीरवकण्ठकेसरसटाभारं स्पृशत्यङ्क्षिणा, कः कुन्तेन शितेन नेत्रकुहरे कण्डूयनं काङ्क्षति । कः सन्नह्यति पन्नगेश्वरशिरोरत्नावतंसश्रिये, यः श्वेताम्बरदर्शनस्य कुरुते वन्द्यस्य निन्दामिमाम् ॥ ९४ । - अथ चोवाच माणिक्यं, विज्ञप्तिं लिख मामिकाम् । श्रीमत्पत्तनसङ्घाय, | विनयातिशयस्पृशम् ॥ १११ ॥ " एष एव च महात्मा महो हातुमशक्त इहापीति कुशलोदन्तानुयोगमासूत्र्य भट्टभणितिततिमनतिक्रम्याततवानास्थानं वादस्य जगत्कर्त्तृत्वसद्भावेतरद्रूपं, न चात्र नोद्यमनोद्यधिषणाधिगतधर्माधारागमधारैर्यदुत न तावच्छङ्करोऽनुमन्यते जगत्कर्तृतां यतोऽद्वैतवादरसिको हि सः, स्पष्टं चैतत्तदीयशारीरकमीमांसायां पदे पदे, यतस्तदितिहानुशीलनशालिभिः प्रतिभाभारिभिर्भगवद्गीताभाष्यवाक्यत्रजममरुकमहीपतिमहिषीसमाजिगमिषाविषयक पद्मपादान्तेवासि व्यक्तवचनवीथिविनोदनानुन्नहरिप्रभवानुकरणाख्यानं चावष्टम्भयद्भिः कथमेकान्तो ब्रह्मैकान्तिकः कान्तस्तेषा| मित्येकान्तयितुमेकान्तःकरणीभवितुमाभाव्येत । नैवाथवास्ति तस्य स्ववचननियन्त्रितस्यान्योऽध्वा, यतः प्राक् प्रकटितवान् यदुत सर्वास्तिकवर्गवर्णितप्राप्तिकमनीय कैलासवासासाधारणकारणकाशी विकाशावकाशादागममत्रेति, तेन लब्धापूर्वलाभक्षयकृत्क्रियाकारिताविष्कारादनन्तरं किमन्यद्देयं स्यादनुत्तरमुत्तरमनुत्तममनीषिणामिति तदेवोत्तरितवान् । भवतु वाऽस|म्मतं वेदानुसारिसमस्त सृष्टिस्पृगनुसरणायाश्रितं, परं तत्रोपन्यस्तोऽनेक सभ्य स्तेतराश्रितो हेतुः कार्यत्वाख्यः कार्यसाधकतया | क०ल० प्रस्ता० ॥ २ ॥ Page #7 -------------------------------------------------------------------------- ________________ पिष्टश्चासौ तिलपेष पुष्टप्रतिभेन मुनिमाणिक्येन श्रीमता माणिक्येन सावयवत्वसंस्थानवत्त्वविकारित्वकृतमितिप्रतिभोत्पाद-IN कत्वविकल्पशिलासूनुना तमसिद्धं विदधता, आविर्भावितमेतद्विततेन श्रीमता ग्रन्थकृतायेन गुणवाद्येन स्तबकेन, तत्रान्तरान्तरार्थक्रियाघटनापद्धतिप्रकटनकूटस्थनित्यतानिराचरीकरणाकाशीयकाष्ठाक्रमवावदितिनभोद्रव्यावस्थानिबन्धनव्यापकतासहगत्वरसप्रदेशत्वादि संपादितं लक्षणसमीक्षणविचक्षणेक्षणीय स्वरूपवृन्दम् । विचाखण्डितं चाचेतनोपादानाभूतभाविप्रागसतः स्वकारणसत्तासमवायेत्यादिकं कार्यरूपं प्रकल्पितं तच्चिदुत्पादवियदुत्पादापवर्गावस्थावस्थानादिना यथायथं मतिमन्मनश्चकोरचन्द्रायमाणप्रबन्धेन । द्वितीये तु तस्मिन्विस्मितिविधायि यद् गृहीतमुक्ताक्षरासमस्तपदाष्टादशाक्षरनियतानुप्रासगुप्तश्लोकश्लेषश्लिष्टकरपल्लवीवाक्यान्तवर्णैक्यकृग्धातुकचेक्रीयितक्रियानामधातुगम्यास्तिकाद्यं न्यगादि निगदितमहिम्ना महानुभावेन ततमाततकाव्यकोविदतानुयोगानुयुक्तये, आन्वीक्षिक्यां त्वाद्यस्तबककृत्तहेतुविशेषविशेषकर्त्तनाय दूषणमुदघोषि घुष्टामरयशसा, तत्र विरुद्धत्वमवरुद्धत्वात्सशरीरत्वेन कर्ततायाः स्वाभाविकोत्पादुकतासकलितमूर्तीनां तरुगुल्मतृणादीनामकलितधीमद्धेतुकानामबाधमुद्बोधबोधनादकान्ताऽकामविरक्तानामनेकान्तिकता, विकल्पितं च विरुद्धबुद्धिकृदबुद्धिककुबोधविततध्वान्ततमोऽरातिना मुनिपतिपादपद्मपरागपानपीनमधुपायिनाऽगोचरे गणेशजनयितुर्विद्या-1 दिप्रभावाननु चतुर्द्धा, चराचरोद्भवचरीकृतिचर्यायामार्यतमप्रेक्ष्य प्रयोजनवत्ताकरितिस्वभावतादृश्याभिधमभिहितं |भिदां त्रितयं त्रिपुरासुरपुरत्रितयमिव । तथाच नचेद्वाधा कार्यप्रत्यक्षेऽप्यप्रत्यक्षत्वे कर्तुः क एवापरः कालात्ययापदिष्टः कालत्रयेऽपीत्यभिप्रायात् । अशरीरत्वेन नैवासौ विश्वविधाता विश्वीयेऽर्थनिचये ततः सत्प्रतिपक्षता ।। चतुर्द्धा, चराचरोद्भवचरा तथाच नचेद्वाधा कार्यमा विश्वीयेऽर्थनिचये । Page #8 -------------------------------------------------------------------------- ________________ P जल्प क. ल. प्रस्ता० नदर्शिता उपाधिभेदा अपि । स्तबके चास्तोकयुक्तिस्तबके तृतीयस्मिन्नुदीराम्बभूवे महाप्रभावेण यत्स्रष्टुः सृष्टेरैक्यमि- तरद्वा, व्यापकत्वे तस्य वपुषाऽशुचिपदार्थपतिपरीतता, ज्ञानरूपेण तु तथात्वे न विधायिता विश्वस्य, असार्वश्याविनाभूता यथार्थोदितिनोदनपटिष्ठता पशुपतेरिव द्रव्यादिनवानवार्थतावादिनः, तमश्छाययोरप्यपराभवनीयच्छाययोरबाधबोधविषयत्वात् । पर्यन्ते प्रस्पष्टं स्पष्टितं च धर्माधर्माकाशकालपुद्गलादीनां यथायथं रूपं संक्षेपेणातितमेनावगम्य चागमेशितृशयवासपवित्रपवित्राङ्गे यथार्थमवगमं सोऽबीभणदर्भकभारत्यभिधया यतिवर्यम् । सर्व चैतच्छ्रीमद्रत्नमण्डनसिद्धान्ततत्त्वरत्नमण्डितात्मान आविर्भावितवन्तः श्रीमन्तो रत्नमण्डनाः। श्रीमन्तश्च श्रीमद्रनशेखरसूरिवर्येषु भासमानेषु श्रीमजिनशासननभोभागभानुमालिषु श्रीमन्नन्दिरत्नपादमकरन्दमुग्धमनोमधुपाः । सूरिवराणां भूमण्डलभामिनीमण्डनकालश्च षोडशशतीयो वैक्रम इति श्रीहीरसौभाग्यसोमसौभाग्यविजयप्रशस्तिप्रभृतिग्रन्थतत्यवलोकनतो निश्चेचीयते निर्णयचणैर्मनीषिभिरिति श्रीप्रभूणामपि स एवानेहा, नचोपलब्धिमृतिमायाता इतरे श्रीमतीया ग्रन्थाः, भविष्यन्ति परमष्टमपत्रेऽवोचाम चेत्युपलब्धेरनुमितेः, परं स्युश्चेदवगता निपुणैर्जापनीयोऽहमिति प्रार्थये सुध्यनघकृपावृष्टिमभिलाषुकःx x x x x x ॥ वीरात् २४३८ तम वर्षे भाद्रपद-पूर्णिमायां लिखितम् ॥ Page #9 -------------------------------------------------------------------------- ________________ ॥ अहं॥ श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारग्रन्थाङ्के श्रीमद्रत्ननन्दीकृता जल्पकल्पलता। जिनवर ! वरद ! त्वं सेवके देव ! केली-ममृतलहरिकल्पां कारयेह स्वदृष्टिम् । रचय मयि च वाचां देवि! चेतः कृपालु, त्रिभुवनभवभावाभासने भानुभानः ॥१॥ जल्पकल्पलतामेतामस्तोकस्तबकत्रयाम् । कुर्वे सर्वेप्सितां मुग्धभृङ्गवाचालतावहाम् ॥२॥ इह हि पुरा पुरारिसरित्तरङ्गायमाणभणितिभङ्गीभत्सितोत्सर्पदीालुवादीन्द्राहकारकालुष्याः शिष्या Page #10 -------------------------------------------------------------------------- ________________ जल्प ॥ १॥ वलिव्याजबहुरूपकल्पनपुरस्सर सतत सेवासक्त सुरसूरयः श्रीदेवसूरथः खदारविन्दविन्यासपचितविश्वभर विहरमाणाः प्राफु प्रमाणापेतकेतक श्वेतकेवलव्यवहारिनिकेतकेतनपटकपदपाणिचालना कार्यमामाष्टकाष्ठाकमलाकमलाकमणहिल्लपाटकपुरम् । तत्र च प्रवेशोत्सवे शोभासम्भारभासुरे भवति सति कलिन्दिकाकादम्बिनीबिन्दुनिकुरुम्बसम्बसम्पर्कोल्लसदभिनिवेशाङ्कुरः शङ्करनामा प्रामाणिकग्रामणीर्वाणारसीवासी रत्नाकरस्तुहिनकरमिव गुरुवरं वीक्ष्य विस्तारयामास तास्ता वचो वीचीः, तथाहि - ननु भोः सहृदय ! हृदयालवालोद्गतायाः कुशलतात्रिदशलतायाः सकलकामितपदार्थप्रदानैकपटुकले मुनय आमनन्ति द्वे फले । यदुक्तम्- " वक्तृत्वं च कवित्वं च, विद्वत्तायाः फलं विदुः । न कवित्वं न वक्तृत्वं, सोऽधीतोऽपि नरः खरः ॥ १ ॥” तद्यदि भवतां मत्याः सरखत्या इव हृदरविन्दे वसन्त्याः साहित्यामृतनित्याखादतः सौहित्यावाप्तिस्तदा काप्योष्ठगोष्ठी नव्यश्रव्यकाव्या क्रियतां, व्याक्रियतां वा सप्रपञ्चं काव्यादिगतं किंचिदेकं कवित्वम् । यदि च निबिडजडिमकदलीकाननकर्त्तनकर्कशास्त्रे तर्कशास्त्रे कुशकोटिनिशिततां शेश्रीयते श्रीमतां मतिः । तदा सर्वदुर्वादिकगपूर्वपर्वतख (ख) र्वणधामायमानं विधीयतां किंचिदनुमानम् । अथ पृथुबुद्धितया द्वितयमप्यदो वेविद्यते वस्तदा भो वाग्देवतासुताः ! सुतरां भव्यमभवत् । यक्तः-- "वाग्मित्वं कवित्तान्वितं यदि तदा गङ्गाम्बुना दक्षिणावर्त्तः कम्बुरपूर मञ्जरितवानुर्वीरुहः स्वर्गिणाम् । जातः शीतकरः कलङ्करहितः सौभाग्यवत्याः शिरस्याबद्धं मुकुटं स्फुरत्सुरभितालब्धाञ्चनं काञ्चनम् || २ ||” सम्भवति चैवं, न खलु शारदापद्मयोरिव साहित्यान्वीक्षिकीवि क० ल० स्त० १ ॥ १ ॥ Page #11 -------------------------------------------------------------------------- ________________ धयोर्विद्यते विरोधः। यतः-"येषां कोमलकाव्यकौशलकलालीलावती भारती, तेषां कर्कशतर्कवक्रवचनोद्वारेऽपि किं हीयते?। यैः कान्ताकुचमण्डले कररूहाः सानन्दमारोपिलास्तैः किंमतकरीन्द्रकुम्भशिखरे नारोपणीया नखा? ॥३॥" श्रूयते हि पङ्गुलेतिगुरुबिरुदजयन्तचन्द्रकाशीन्द्रसदसि कविप्रामाणिकतया विष्टरद्वयं ताम्बूलयुगलं चाससाद सादरं श्रीहर्षनामा विदुरपुरन्दरः। स एव च विरचयामासैवं सौवस्तवम्-"साहित्ये | सुकुमारवस्तुनि दृढन्यायग्रहग्रन्थिले, तर्के वा मयि संविधातरि समं लीलायते भारती । शय्या वास्तु मृदूत्तरच्छदवती दर्भाकरैरास्तृता, भूमिर्वा हृदयङ्गमो यदि पतिस्तुल्या रतियोषिताम् ॥४॥” तस्मात्प्रतिपदयमकानुप्रासा(दा)दिसन्दर्भहृदयङ्गमगद्यपद्यसन्दोहसुन्दरं किमप्युच्यतां सिच्यतां सुधासारैःसुधीजनघटाकर्णघण्टा|पथः । अथेदमभिमानिनो भट्टभद्दारकस्य भणितमाकर्ण्य कर्णान्तक इव श्रीगुरुकरुणयाऽमात्रशास्त्रोपनिषदां पारङ्गतः सङ्गतः सुर इब श्रीदेवसूरिसादरपादारविन्दपरिचर्यया मुनिमाणिक्यं माणिक्यनामा व्यतरदनुत्तरं तत्कालमुत्तरं दत्सरङ्गं विद्वत्तराणाम् । यथा-"साम्यं पिप्पलपारिजातकरभक्ष्माभृहषयोमणी-खद्योतद्युतिमालिसागरसरःखारकूटादिवत् । षट्तर्कोपनिषनिषण्णमतिना तल्लेशलब्धोष्मणामेतेन प्रभुणा भणामि भवतां जाघहि महाः कथम् ?॥५॥" परमुररीकृतबहुलबालभावयोरावयोरेव रेवाप्रवाहान्तरे वारणयोरिवान्तर्वाणिविसरे वाक्तरङ्गैः क्रीडितुं समः समायोगः, तद्वदन्तु हिरावृत्या कुतः श्रीमतामिहागमनमासीदसीमानन्दकृत् । निरुपमाऽपवर्गरमाङ्गनापाङ्गमार्गप्रेमनिर्गच्छदनर्गलदृग्धारासुभगरङ्गत्तरङ्गशृङ्गायमाणोदकाभोग Page #12 -------------------------------------------------------------------------- ________________ जल्प ॥ २ ॥ भागीरथीसङ्गमगलत्पातकपङ्कपूरपौरपदपातुकनाक्लोकश्रियस्तन्मस्तकासीनमुक्तिपुर्याश्च कासीनगर्याः । इति चेत्तदा - " त्वत्तीरे तरुकोटरान्तरगतो गङ्गे ! विहङ्गो वरं, त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासङ्घघण्टारणत्कारत्रस्तसमस्त भूपललनालब्धस्तुतिर्भूपतिः ॥६॥" इत्यादिवाक्यव्रजव्यञ्जितात्यन्तरतिभिरपि युष्मादृशैः किमिति पर्यहारि दूरेण दूरणसमीरणनिभागीयमाना भागीरथी । हन्त भोस्तपोधनकिशोर ! - "पीयूषद्रवकुण्डनिर्गतबृहज्जम्बालपिण्डोजवलं, भुञ्जानो दधि माहिषं किमगमस्त्वं जाड्यमुद्रामरम् ? । किंवा तावकहृन्निकेतनमिदं वस्त्रप्रक्लृप्तानन-द्वारा बन्धनशङ्किताऽपशकुना विद्या विवेशैव न ? ॥७॥” येनैतावदप्यविश्रान्तश्रुतश्रेणिकठिनपाठकुण्ठितरसनः सेवितसंविदाकरोऽपि न विदाङ्करोतु भवान् यदुत-सर्ववस्तुनः स्वीकारपरिहारयोः कारयिता स एव स्वेच्छाकारी परमेश्वरो, येन जघटे जगज्जङ्गमस्थावरम् । ननु अस्मदस्मयमनोमनोरथपूरणदिविजघटे येन जघटे जगदितिवाक्ये वादिगजघटे भारिभिर्युष्माभिः कर्णगोचरीकारिते चिरचरिकरिष्यमाणायाः प्रामाणिकाचार केलेः प्रस्तावनेयमासीदिति दितिजंगुरुणाप्यवर्णनीयां मुदं वयमनुबोभूयामहे । ततः कथयत यं कञ्चिद्विष्टपसृष्टिपरसूर्यकाष्र्ष्ट परमेश्वरं स किं वृद्धपरम्परोपदिष्टः प्रमाणपथपथिकतां प्रापितो वेति ? पक्षयुगलोज्ज्वलो जल्पकेलीमरालो विमलमवगाहते मानसं सुमनसाम् । तत्र प्राचीनो मनोविनोदाय नो जायते, वृद्धानां रागाद्यपगुणागारतया सम्यगुपदेशदानासम्भवेन तदुपदिष्टार्थस्य १ कामघटे २ सुरगुरुणा क० उ० स्त० १ ॥२॥ Page #13 -------------------------------------------------------------------------- ________________ सर्वथा प्रत्येतुमनर्हत्वात्, दृश्यन्त एव हि परप्रतारणप्रवणान्तःकरणाः पुमांसोऽनेकेऽप्यन्यथा विचिन्त्य अन्यथापि प्ररूपयन्तो, यथा तरङ्गिणीतीरे गुडशकटं विपर्यस्तं धावत धावत भो डिम्भकाः! इत्यादिवादिनः। नाद्येतरोऽपि रोपितप्रीतिवल्लीकस्तर्कविल्लोकहृदयालवालान्तराले, यतस्तत्किमस्ति प्रमाणं ? येन जगन्निर्माणकृदुपलम्भोऽवाबोभोत् । न तावत्प्रत्यक्षं, तस्येन्द्रियार्थसंनिकर्षोत्पादुकतयातीन्द्रियविश्वविधातृग्रहणासमर्थत्वात् । ननु जागर्ति जगतीजनुःसृजोऽनुमापकमनुमानम्-"यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाम्भोज भो! जगदीशदर्शितमतव्योमान्तविद्योतकम् । विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषचेत:कैरवभैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि ॥ ८॥” तच्चेदम्-भूधरधरायो, बुद्धिमहेतुकाः, कार्यत्वात्, यद्य-| तत्तहुद्धिमद्धेतुकं, यथा घटः । कार्याश्च भूधरधरादयस्तस्माहुद्धिमद्धेतुकाः । यश्च तेषामुदयमाने बुद्धिमान् हेतुः स भगवान् परमेश्वर इति । न तावद्धतुमुद्धतासिद्धतादन्दशूकी दुष्टापि दंष्टुमीष्टे । माद्यवाद्यनिलाऽनोद्यास्मदनुमानोद्यानमध्यस्थपक्षवानीरावनीरुहविहितविश्रामत्वात् १। नाप्यसौ निष्पनकलमकेदारवद्धत्ते दुर्द्धरविरुद्धता, सबलसपक्षवृत्तिप्रगुणगोफणोल्ललद्युक्तिकल्लोलगोलकदुराकलनीयत्वात्२। नच व्यभिचारपिशाचेन च्छलयितुं कचिच्छक्या, सच्छायेऽनुमानवनेऽस्मिन्नस्माकमाकासितसाध्यसाधनायोत्तरसाधकतया विपक्षासम्बन्धशिखाबन्धबन्धुरितत्वात् ३ नापि कालात्ययापदिष्टतादुष्टताताडकया ताडयामासानः, बाधकाभावबाणात्तदुच्छेदनच्छेदकतानुकृतजानकीजानिकत्वात् ४। नापि दुरुद्धर-1 Page #14 -------------------------------------------------------------------------- ________________ जल्प ॥३॥ विरुद्धाव्यभिचारितावारितावकाशः, प्रतिज्ञाताधेवैपरीत्यप्रत्यायनप्रत्य लप्रत्यनु मानाभावात् ५। तस्मात् -- “मृत्सौरभ्यमिवाम्बुसेचनमनोनेम्पोरिव प्रखमः, पत्रिस्तोम इवाञ्जनं घनमिव श्लिष्टं लडिद्विभ्रमाः । दीपाक|म्पमतेब मारुतलयं धूम्येव धूमध्वजं, हेतुः सैष तमम्वमीमपत नः शुद्धः सुधीसाक्षिकम् ॥ ९ ॥" अत्र प्रतिविधीयते - मोः षण्मतोपनिषण्णनिदूषणभिषणाभूषणाः ! यौष्माकीणेऽमुष्मिन्नवयवसुन्दरेऽनुमानोदारकेदारे केऽप्यस्माभिरुदीरिता दुरन्ताऽसिद्धसादिदोषतुरङ्गाः खैरं चरन्तः केन शक्या निवारयितुम् । तथाहिहेतुस्ताबदयमनिर्द्धार्यमाणस्वरूपतया सिद्धताबन्धकी सम्बन्धलब्धापकीर्त्तिः । कार्यत्वं हि किंलक्षणं विचक्षण ! विवक्षितवानसि क्षित्यादौ ? किं सावयवत्वं संस्थामवत्त्वं विकारित्वं कृतमेतदितिप्रति भोत्पादकत्वं वेति चतुर्भेदी वेदीव दीव्यति व्यतिकरे बादिविजयश्रियः परिणयस्य । तत्र न प्रथमः पृथुमतीनां मनोरथरथे सारधितां प्रथयति प्रकार:- "यस्मास्वदाशयकुशेशयशे (श) त्स्यते तत्, कार्यत्वलक्षणबलक्षशकुन्त्यपत्यम् । भूभूधरमभृतिषु प्रथितप्रतीप-भावेषु चाभ्रककुभादिषु वम्भ्रमीति ॥१०॥” ननु कथं नभःप्रभृत्य (तिष्व)भिप्रेतकार्यत्वप्रचारो येन युष्माकं हेत्वनैकान्तिकत्वेहा फलेग्रहिस्तस्य निरवयवत्वादिति चेदिम्भमिदं भवानवादीत्, परमम्बुजवन्धुबिम्बमम्बरादौ किं समझे सम्बद्धमुत तत्प्रदेशे ? नाग्रिमस्तरणिमण्डलतावत्परिणामतापत्तिप्रत्यक्षबाधादिवहृदोषोदयात् । द्वितीये तु प्रदेशाभ्युपगमेन वियदादेः कथं न सावयवत्वम् ? प्रदेशावयवयोरेकार्थवाचकतया प्रयुक्तेः । तथा च मतब्याह तिहेतुष्यभिचारादयोऽपि लब्धप्रचाराः स्युः । अथ परमाणुमयो विभागोऽवयवः क० ल० स्त० १ ॥ ३ ॥ Page #15 -------------------------------------------------------------------------- ________________ तदितरस्तु प्रदेशस्ततो व्योमाचपरमाणुजतया सप्रदेशं स्थानतु सावयवमिति कुतस्त्यः साधनव्यभिचार इत्याचक्षीथास्तथापि-"दोषोल्लासषशप्रसृत्वरतमस्काण्डे दिदेदीपया-मासानोऽवयवप्रदेशविषयोभेदस्त्वया दीपकः । अस्माभिः परमाणुतः प्रकटतामामेष्यमाणं पुरो, दुर्वारव्यभिचारदीर्घरसनं निद्ध्याय विध्यास्यति N॥११॥ यतः पूर्वं तावदम्बरादेरपि विभागाः समग्राः परमाणुमया एष सन्ति न खलु कज्जलचूर्णपूर्णसमुद्वकवनिरन्तरपुद्गलपूरिते लोके स कश्चिन्नभसो विभागोऽस्ति यो निर्भरं न बिभराम्बभूवेऽणुभिः। तत्कथं न हेतुरष व्यभिचरिष्णुः। अथ गम्भीरगीस्तरङ्गभङ्गीसागरः सङ्गृणीषे यदुत-परमाणुमया इत्यस्य परमाणुनिष्पन्ना इत्यर्थः प्रथयत्यस्माकमन्तःकरणाम्बुरुहान्तरे बालरोलम्बलीलायितम् ,न च नित्यतया वियदादेर्विभागास्तथाभूता भवन्ति, किन्त्वसमवेतानेकजातीयपरमाणुपूर्णास्तेन स्तेन इव नैष दोषः साधनध्वंसहेतुः । तदा तु पर्यन्ताषयवतयाभ्युपगतेऽप्येकस्मिन्नणौ परमाणुनिष्पन्नताया अभावाव्यापकत्वं भवादृशवादिशतेनापि नापाकतु प्रषोभूयत इत्यभूदवयवलक्षणस्थास्य व्यभिचारः । द्रव्यसमवायिकारणमवयव इति चेत्तल्लक्षणं वक्ष्यते तदपि समवायस्य पुरो निरासिष्यमाणतया द्रव्यसमवायितानुपपत्तेरसम्भवभवत्परिभवम् । ततो व्यभिचरितभिन्नलक्षणतया प्रदेशाधयवयोरभेदेन वियदादेः सप्रदेशत्वमङ्गीकृत्यापि सावयवत्वसाधनव्यभिचारमनपाचेक्रीयाश्चक्राणश्चतुरचक्रे चतुर्थव्रतविलोपकामानुपशमोपाख्यानमाख्यापयसीति-"जातो यस्य विभागभिन्मयगडः पीडावहोऽसम्भवाङ्गुष्ठाव्याप्तिदृढाङ्गलीयुगलतः प्रस्फोटनिष्पीडितः । मत्पीयूषमयोक्ति Page #16 -------------------------------------------------------------------------- ________________ |सर्वथा प्रत्येतुमनहत्वात्, दृश्यन्त एव हि परप्रतारणप्रवणान्तःकरणाः पुमांसोऽनेकेऽप्यन्यथा विचिन्त्य अन्यथापि प्ररूपयन्तो, यथा तरङ्गिणीतीरे गुडशकटं विपर्यस्तं धावत धावत भो डिम्भका:! इत्यादिवादिनः। नाद्येतरोऽपि रोपितप्रीतिवल्लीकस्तर्कविल्लोकहृदयालवालान्तराले, यतस्तत्किमस्ति प्रमाणं? येन जगन्निमाणकृदुपलम्भोऽवाबोभोत् । न तावत्प्रत्यक्षं, तस्येन्द्रियार्थसंनिकर्षोत्पादुकतयातीन्द्रियविश्वविधातृग्रहणासमर्थत्वात् । ननु जागर्ति जगतीजनुःसृजोऽनुमापकमनुमानम्-“यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाम्भोज भो! जगदीशदार्शतमतव्योमान्तविद्योतकम् । विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषच्चेत:कैरव भैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि ॥ ८॥” तच्चेदम्-भूधरधरायो, बुद्धिम तुकाः, कार्यत्वात्, यद्यतत्तहुद्धिमद्धेतुकं, यथा घटः । कार्याश्च भूधरधरादयस्तस्माहुद्धिमद्धेतुकाः । यश्च तेषामुदयमाने बुद्धिमान् हेतुः स भगवान् परमेश्वर इति । न तावद्धतुमुद्धतासिद्धतादन्दशूकी दुष्टापि दंष्टुमीष्टे । माद्यद्वाद्यनिलाऽनोद्यास्मदनुमानोद्यानमध्यस्थपक्षवानीरावनीरुहविहितविश्रामत्वात् । नाप्यसौ निष्पनकलमकेदारवद्धत्ते दुर्डरविरुद्धतां, सबलसपक्षवृत्तिप्रगुणगोफणोल्ललद्युक्तिकल्लोलगोलकदुराकलनीयत्वात्२। नच व्यभिचारपिशाचेन च्छलयितुं कचिच्छक्यः, सच्छायेऽनुमानवनेऽस्मिन्नस्माकमाकासितसाध्यसाधनायोत्तरसाधकतया विपक्षासम्बन्धशिखाबन्धबन्धुरितत्वात् ३ । नापि कालात्ययापदिष्टतादुष्टताताडकया ताडयामासानः, बाधकाभावबाणात्तदुच्छेदनच्छेदकतानुकृतजानकीजानिकत्वात् ४ । नापि दुरुद्धर Page #17 -------------------------------------------------------------------------- ________________ प्रमाणं यदि तदा ध्वनिरनित्यः प्रमेयत्वादित्यस्येवानैकान्तिकत्वं सम्यगस्यापि स्यात् । अथाप्रमाणं तत्कथं सप्तपदार्थग्रन्थकारो मृषैवाचीकथदाकाशस्तु घटाकाशादिभेदभिन्नोऽनन्त एव इति, अप्रमाणोपचारघटितानां घटाकाशादीनामप्रमाणत्वे नभसस्तद्भेदभिन्नतानुपपत्तेः । यदि ह्यप्रमाणं तुरङ्गशृङ्गादयः सन्ति तज्जगदङ्गणे किमङ्गीकुर्वन्ति कस्यापि भावस्य भेदताम् । अथ - "मान्तः सुरतां पुरा कृतवता केनापि किं नार्पया - मासे दर्पणदर्पणप्रगुणितं पण्याङ्गनाया धनम् ? । इत्थं यादृशमाविभर्त्ति गगनं संस्थानितां तत्कृतां हेतुस्तादृगुपैतु जातु चतुरानैकान्तिकत्वं तु नः ॥ १३॥” इतिचेद्वरमकृथाः, सर्वथाऽसंसहिष्णुर्यदङ्गीचकर्थोपचरितां व्यभिचारिताम् । अथचोररीचरीकारिषीष्ट त्वया मुख्यवृत्त्यापि सा, यतो यत्पर्वतादिवर्त्तिष्णु संस्थानं तत्किं गुणो गण्येत क्रिया वेति - "कक्षीकृतद्विपक्षीकः, सोम साम्यधरः स मे । किं नु हंसो न मासो न, व्यासो वाचां सुधामुचाम् | ॥१४॥ ततश्च यदि गुणस्तदा पञ्चविंशतिगणेयेषु गुणेषु कः स इति वाच्यं? परमाणुप्रचयोपजनितं परिमाणमिति चेत्तर्हि साधुना साधनेनामुनार्द्धमण्डितापक्षलक्ष्मीपक्ष्मलाक्षीजल्पकेली दीक्षितानां तन्तनीत्युत्तरङ्ग (विरङ्गम्) धूर्जटिजगज्जनकतासाधनार्थप्रयुक्तानुमानोदन्वदासीनपक्षपुण्डरीकाक्ष कुक्षिनिक्षिप्तभुवन भावाभोगान्तर्भूतप्रभूतप्रतिभापरिमलरूपादिपदार्थेषु परमाणुप्रचयनिष्पन्नपरिमाणापेतव्या हेतोरप्रवृत्तेः । अथ बुद्ध्यादिगुणाः स्वद्वेषाव्यूतिनीत्या निजनिजाश्रयोत्पादेऽनर्थान्तरतयोत्पादुकाः पृथक् पक्षीकर्तुं न योग्या इति गिर्यादिगुणिग्राम एव पक्षस्तत्र च समस्ते हेतोः प्रवृत्तेः कथमीषदप्युक्तदोषानुषङ्ग इतिचेत्तदा शशकसङ्काशदोषदूराटने पुरः प्रा Page #18 -------------------------------------------------------------------------- ________________ जल्प क०ल. स्त०१ दुरासीदुरात्मा मतव्याघातव्याघ्रः, उत्पन्नं सद्व्यंक्षणमगुणं तिष्ठतीतिभणमेन गुणानां पृथगुत्पादाभ्युपगमात् । अथ चेश्वरपृथगुत्पाद्यत्वेपि गुणानामेकक्षणमपहाय शेषकालं गुणिषु समवायेनावस्थानात्तद्गतपरमाणुप्रचयजपरिमाणं ते तत्कथमयं भागासिद्धिभाग्घेतुरिति भाषसे । तदोपचरितात्तादृग्परिमाणाद्यथा भागासिद्धिं सिद्धामपि निषेधसि तथौपचारिकसंस्थानादाकाशादावसिद्धामप्यनेकान्तं(न्ततां) समीचीनतया खीकुर्याः। नोचेनैकान्तिकतास्थापनमिव भागासिद्धतोत्थापनमप्यसमीचीनमेव स्यादुभयत्र सादृश्यादिति मन्दीकृतवादीशोक्तिः प्रतिबन्दी नामादीमवः स्यादुक्तंच-"गृहीते वादिना वाक्ये, तद्वाक्यग्रहणं हि यत् । प्रतिबन्दीति सा प्रोक्ता, विषादक्रमकोविदैः ॥ १५॥" न च गौणमुख्यन्यायेन मुख्यतया शिखरिप्रमुखाणामेव तजन्यतासाधनाय पक्षाद्युपन्यासप्रयासमकुर्मो, गुणानांतु गौणानांतदनुसारितया धान्यप्रयोजनोपक्रान्तकर्षणतृणोत्पत्तिरीत्या खयमेव तत्सिद्धिःस्थाद, अतस्तेन पक्षान्तरालपतयालय इत्यालपनीयं,कूटस्थनित्येषु वृषाङ्काद्यात्समुत्पद्यमानानांघुद्ध्यादीनां प्राधान्येन तजन्यतासिद्धये नियमतः पक्षीकार्यतया हेतोरुदितदोषाप्रमोषात्, गुणानां तदुपपादनाय अनुमानान्तरं निर्मास्यत इति चेत् ? तर्हि तत्रोत्तमाङ्गमुखलोमक्षालनपृथक्खलिन्यायः। स्खलयितुं खलायिष्यते । अथ समिति सामस्त्येन समवायतोऽवयवेषु अवयविषु च स्थान स्थितिरित्यर्थः । dसंस्थानं क्रियैवास्थीयते । तथाच विगतविगानाऽवकाशो भगवद्गर्भजन्यो जाघहि जगदाभोग इति अङ्गी-Id पीथास्तथापि-"दिग्यासो दर्शनकः शिवपुरमगवीकाममामयख, स्वान्तं किं वस्तु सत्यास्तुलयति कम Page #19 -------------------------------------------------------------------------- ________________ लाध्यासतः कोमरालम् । अर्थिभ्यः किं कर्पः कथयति पवनः किं करोस्याह विष्णुः, कीदृग्वर्षासुजोऽब्दस्सव भवति वदेः कीदृशो हेतुरेषः॥१६॥" त्वमेव हि कीडशो ? नहि वयं पीयूषयूषपेपीयिषापूरकं मुखमिपाजोतिषामीश्वरं दोषभाषणविषमविषवर्षणाहषयाम इति चेत्तर्हि नित्यतया पक्षाविपरीतेप्यचयवत्वसामान्येऽवयवान्तःसमवायाषस्थानरूपायाः क्रियाया सद्भाचादनैकान्तिकः? प्रश्नोत्सरं। ततो द्वितीयोऽपि त्वदाशयोज्ज्वलकैरघरविकल्पो विकल्पः २॥अथ विकखरपिकखरमधुरवाचोयुक्तिवल्लीवनोल्लासिदशनांशुकुसुमसारेऽनल्पमज्वल्पवसन्सावतारे जातीसजातीयस्तृतीयः । अन्यथा सतो भावस्य अन्यथाभवनं हि विकारित्वं तच प्रचुरतरं चन्द्रमुकुटादिकूटस्थवस्तुष्वपि व्यापिप्रियते यत्ते! यतः कूटस्थः पदार्थः किमर्थक्रियाकरणखभावस्तदकरणखभावो वेति विकल्पद्वैतं जल्पदवैतण्डिकप्रकाण्डसुण्डकण्डूविखण्डनकठिनमुत्तिष्ठते।ततश्च यद्याद्यः प्रकार: प्रियकारः, तर्हि सोऽर्थक्रियाकरणस्वभावःसन् क्रमेण कार्याणि कुरुते योगपद्येन वा? । तत्र प्रथमपक्षस्य दुर्घटकूटस्थवस्तुविकारितापादनविकटकार्यकरणार्थस्वकृतप्रकटबीटकस्य पश्चाद्विचार्यतया धुर्यास्थीयते द्वितीयस्ततो योगपयेन यथेष कार्यकार्यशीक्रियते तदा प्रथम एव क्षणे कालान्तरकरणीयसकलखकार्यकरणावितीयादिक्षणपरम्परायां नकिंचित्कर्तव्यमस्तीत्यनर्थक्रियाकारितयाऽवस्तुतामास्तिनुते । अथ यथा निवृतात्मा निवर्तितसतसत्कर्त्तव्यतया पुनस्तस्कर्तव्यतबा पुनस्तस्करणायाप्रवर्तिष्णुरपि नाऽवस्तु स्यात्तथा युगपदेकक्षणसमापिताशेषकार्यः शेषकालमतत्करोऽपि कूटस्थ इत्याख्यायते सदा किबुत्तरमिति चेत् ? अवस्तुताप Page #20 -------------------------------------------------------------------------- ________________ जल्प क० ल० स्त०१ त्तिरिति व्यतारिध्वमेवास्माभिरुत्तरं, तव किं निवृतस्यापि तथात्वमापद्यते ! नैवं, स हि कार्येच्छाऽदृष्टादिसांसारिकसहकारिकारणकलापव्यपाकरणन कृतार्थतया च किमपि कार्य न कुर्यात्, परमवार्यवीर्यान्तरायक्षयोपार्जिता वीर्यपर्यायवाच्या तस्य शक्तिः प्रत्युतानन्ता वरीवर्ति, सर्वशक्तिवियुक्तस्यैव चावस्तुता, तत्कथं तस्य तस्याः प्रसङ्गः। न चैवं घटाकोटिमाटीकते कूटस्थः । स हि यदि प्रागिव पश्चादपि शक्तिसम्पनस्तर्हि किन्न पुनस्तानि कुर्वीत । न च कृतार्थत्वादिना तदकृतिः श्रेयसितरा, प्राकार्यकरणस्वभावस्य पश्चात्तदकरणस्वभावतावतारेऽस्य द्विरूपतापत्तेः । तथाच क्रमेलकमौलिकीलकनाशमनेशत् कूटस्थता, एकस्वरूपेण सकलकालव्यापकतायास्तल्लक्षणत्वात् । अथ समस्तार्थसमापनसमये समग्रापि शक्तिः सभापञ्चेत्तदाऽस्मदाख्यातावताराद्वस्तुतापत्तिरेवेति। अथ क्रमेण कार्य करोतीत्यङ्गीकारस्तदा-"जिह्वारङ्गतरङ्गिता दशनरुग्मुक्तावलीमालिनी, वाक्पीयूषनदी मदीयवदनावासे वसन्ती सती । एकान्ते क्रमपक्षदक्षपुरुषं नारीव याऽरीरमत्, सूते सम्प्रति सा प्रभेदसुतयोः सश्रीकमेतद्युगम् ॥१७॥" कूटस्थः क्रमेण कार्य कुर्वाणो येनैव खभावेनै करोति तेनैवापरं स्वभावान्तरेणवा! । यद्याद्यस्तदा सदा सकलकार्याणामतिरूपतापनीपत्तिः स्यादेकरूपतापनीपत्तिः, अभिन्नखभावेन तेषामुद्भावनात् । अथ धूमः पावकस्येव कर्तृखभावैकताकार्यकरूपस्य नान्वयव्यतिरेकावनुविधत्ते, स्तम्भकुम्भादिकार्याणां भेदाभेदयो समयायिकारणभेदाभेदसम्भूतयोरवोपलम्भात्, तेनैकखभावजन्यत्वेऽपि समवायिकारणभेदात्तेषां नानात्वं भावीति वीतवैभाष्यः प्रकार इति चेत् ! मैवं मनसि करोतिपति सापनदी मी Page #21 -------------------------------------------------------------------------- ________________ मन्येथाः मृल्लक्षणैकसमवायिकारणघटितानामपि घटघटीशरावोञ्चनादीनामाबालगोपालं भेदप्रतीते। ततो जगति येषां च नानारूपत्वं तेषामेककर्तृकत्वेऽपि भिन्नस्वभावजत्वमित्थमेवान्वयव्यतिरेकावपेतव्यभिचारतया विवेकिप्रवेकप्रियावतो भिन्नखभावोद्भावितानां यौक्तिक्येवैकरूपतापत्तिः। अथाद्येतरः सम्पद्यत रतये, तदापि किं पूर्वखभावमविहाय विहाय वा ? इति विहायस्तलविहरदहस्करहरिणाङ्काविव प्रकाराविमौ | भावान्धकारध्वंसरसिकाबुजिहाते । तत्राद्यो न हृद्यो, नहि स्वभावं प्राचीनममुश्चन्नुदीचीनमश्चतीति चतुरचेतोरुचिरं, तदपगम एव तदुत्पादानुभवात् । नापि द्वितीयो, नवीनखभावोद्भवे कूटस्थनित्यत्वोपरमो मा भूत् । अप्रच्युतानुत्पन्नस्थिरैकखभावं हि कूटस्थनित्यम् । एवं च घटादेरपि कूटस्थनित्यता दुर्निवारा। पूर्वखभावत्यागेनोत्तरखभावस्वीकारस्य तत्रापि सद्भावाद् इति नार्थक्रियाकरणखभावकल्पना जल्पनायोचिता । अनर्थक्रियाकारित्वपक्षे त्ववस्तुत्वं, यदेवार्थक्रियाकारि तदेव परमार्थसदित्यादिवादिभिः कुवादिभिरेव प्रत्यपादि। ननु ये धर्मास्तिकायादयस्त्वया निष्क्रियाः स्वीक्रियन्ते तेषांका गतिः? इति चेन्न, पर्यायरूपोद्भवनविनाशनवर्सनादिसामान्यक्रियाकरणस्य विशेषक्रियाविषयहेतुकर्तृतायाश्च तेष्वभ्युपगमादकूटस्थतया तदुपपन्नत्वाच्च। ततः शङ्करादीनामपि भिदुरखभावतयाऽन्यथाभवने युक्तिभिःसाधिते सिद्धं विकारित्वम् । तथा च-"या जज्ञे जनकं विनैव गणपो बो(पै?)भुज्यते याष्टभिः, पण्यस्त्रीरिव कृत्रिमप्रणयिनीयानार्यसुभ्ररिव । केकीवाञ्चितपश्चवर्णमपि यन्नामाब्दहलातुलाकन्या तालुषु ताडितेव यदिता तत्याज सा खालयं ॥१८॥” प्रहेलिका॥ शङ्करस्य Cred Page #22 -------------------------------------------------------------------------- ________________ जल्प ॥७॥ च विकारित्वे तत्करणायापरेण बुद्धिमद्धेतुना शङ्करेण भाव्यं तस्याध्यपरेणेति विपुलच्यो मतलव्यालम्बिधूमचल्लीवास्खलितमुल्लसन्ती सती दुर्निवारानवस्या न वः स्थापयेत्तस्ववित्त्वम् । अधिकारित्वे तु जगद्घटन कल्पकोट्यापि न घटामटाव्यते । सन्न तृतीयोऽपि शङ्कराणां प्रियङ्करः । अथ सुभटकोटिनिर्द्धाटनप्रकटितप्रतापोष्म भीष्मादिवीरप्रकाण्डखण्डितदोर्दण्डताण्डवपाण्डव निघनेच्छुदुर्योधनशल्यसेनापतिपदन्यासन्यायेन ज ल्पाकूपारपारमापणप्रवणायमानप्रथमपक्षत्रयाशक्यव्यवस्थापनस्थाणुजगज्जनकतासिद्ध्याशावशात्तुच्छोऽपि तुरीयः प्रकारः शरणीक्रियते, तदापि मण्डपाद्याच्छादकच्छदाचपाकरणकूपादिखननोत्सेचनादिभिराकाशं कृतमिति व्यपदिश्यमानतया कृतमेतदिति प्रतिभोत्पादकत्वस्य नभस्यपि भावाद्धेतुः खल्वसौ बहुलोहरक्षाविरहितः स्यादनैकान्तिकतावेतालबनितान्तजनितात्तङ्कच्छलापन्नः । मन्वाकाशकृतत्ताप्रतीतिः कृपाणीव समारोपखरोपलापातकुण्ठीकृता प्रयोगपुरुषस्य प्राणभूतं हेतुं हन्तुं न शक्तेति चेत् प्रेमपात्रप्रियतमापुरः प्राञ्जलोऽयं प्रलापः । अतस्मिंस्तदध्यवसायो हि समारोपो यथा - "बोधो नौयानवृक्षस्यदविरहिलयस्वमराज्येन्द्रजालव्योमोर्षीमेलमायोल्मुकरयमृगतृष्णाम्बरश्यामिकानाम् । अभ्रोच्चानुच्च भावाग्रहमिलनवियद्वालबप्पीहपाथोलोहित्यद्धन्दुशङ्खप्रमुखकपिशताशुक्तितारोत्तराणाम् ॥ १९ ॥” न च कृपादाचकृतमाकाशं कृतत्तया प्रतीयते, तत्र तत्र तदाद्याकारविशेषितत्याकाशस्यैव करणात् । द्रव्यस्य पूर्वपर्याधपरिहारणपुरस्सरोत्तरपर्यायस्वीकारणं हि करणं, ततो यथा मृद्रव्यं स्यासकोशादिरूपतां परित्याज्य चटरूपतामापादितं घटः कृत इत्युच्यते, क० ल० स्त० १ 119 11 Page #23 -------------------------------------------------------------------------- ________________ तथा नमोऽपि भूगर्भगततावन्मात्र पार्थिवपरमाणुसङ्घातसंयुक्ततापर्यायं परिहार्य खमकैरनेकैः कूपाथभिधेयं तद्विभक्ततापर्यायमङ्गीकारितं कृपादितया कृतं व्यपदिश्यते । ननु द्रव्यतोऽत्यन्तव्यतिरिक्ताः पर्यायास्तत्कथं तेषां करणे तस्य कृतत्वं तात्त्विकम् ? इति पेस, तस्मात्तेषां हि कथंचिदपार्थक्यमेव दृष्टमष्टम; अन्यथा यथा टथुषुम्भोदराद्याकाराः कुम्भस्य तथा स्तम्भस्यापि किं म षोभुवति: उभयत्र भेदाविशेषात् । भिन्ना अपि समवायतः कुम्भेन सम्बद्धाः ? इति चेसदापि ते कुम्भेमेव स्तम्भेनापि सम्बद्धाः प्रसज्येरन्, समवायस्य व्यापकत्वादेकत्वाच प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वात् । एवं च भेदैकान्तवादिनः पर्यायाणां नियतैः सम्बन्धिभिः सम्बन्धासिद्ध्या जगदासमं जगदासमञ्जस्यमेव प्रसासज्यते । तथा सति मौक्तिकमालान्तरालमिलद्दवरकवद्वि| विधपर्यायानुयायिनो द्रव्यस्य कथंचित्तदभेद एवं सुन्दरः । तथा चावाचि प्राचीनाचार्यै:- “द्रव्यं पर्यायवियुक्तं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केनचित् १ ||२०||” अतः सिद्धमवाधितमम्थरकरणम् । अथ कूपादौ कृतत्वमन्यत्र वाकृतत्वमित्येकस्मिन्निर्देशे चाकाशे कृतत्वाकृतत्वयोः कथमवस्थितिः ? परस्परविरोधादिति चेत्, मैवम्, यतो योऽयं कृतत्वाकृतत्वयोर्विरोधव्याधिरुद्भाव्यते स तावदिह न सहानवस्थानरूपः सम्भवी, तस्य परस्परविरोध्युभयधर्मनिर्मिताऽध्यासत्वात्, सम्भवे वा चिरकालमेकत्र जलतडिज्जलधिवाडवव्यवाडवस्थितिनिदर्शनप्राज्य भैषज्यप्रतिक्षेपणीयत्वात् । अथ परस्परपरिहारस्थितिलक्षणः, स च स्वरूपनिष्ठो व्यावर्ण्यते लब्धवर्णैस्ततो नैकं विरुद्धद्विस्वभावं स्यादेव भाषसे, तदपास्तप्रभावं, एकस्यापि प्रस्तरादि Page #24 -------------------------------------------------------------------------- ________________ जल्प लोकनेत्रप्लोषणमापनीपत नतत्कालज्वालाकुलोपिक समकालमुष्णानुष्णखा वस्तुनस्तुषारस्पर्शवतः कालान्तरेण तरणिकरनिकरव्यतिकरवशादुष्णस्पर्शनात् । समसमयं विरुद्धोभयमयो न प्रमीयत इति चेत्, तदप्यकमनीयम्, पावकस्यैकस्यैव समकालमुष्णानुष्णखभावस्योपलम्भात् । वहिर्हि दहनखभावः स्पर्शरूपेण नतूत्फालज्वालाकुलोऽपि रूपरूपेण, अन्यथा रूपसंनिकर्षेण तदालोकने लोकनेत्रप्लोषणमापनीपद्यतेति अवोचाम चान्यत्र-“गत्वा यौगमतेऽक्षिपाणियुगपच्छीतेतरस्पर्शतः, स्थाद्वादं जगदीशदर्शितमसावातिष्ठिपद्विष्टपे । तत्पुण्यादिव देवतावनतामग्निर्जगाम वजडूमव्याजमघब्रजं निजमजत्यानर्ज तेजखिताम् ॥ २१॥ तदेवं जातवेदसि स्पर्शरूपगतयोर्दाहादाहयोरिवाकाशे निष्पदेशेऽपि पर्यायद्रव्यविषययोः कृतत्वाकृतत्वयोरैककालिकी वृत्तिरविरुद्धैव । न च नमो निष्पदेशं, पूर्वोक्तयुक्त्या नभः सप्रदेशं युगपन्नानामूतैः सम्बध्यमानत्वावसुधावदित्यादिप्रमाणैश्च तस्य सप्रदेशत्वसिद्धेः, तथाच सत्येकस्मिंश्चीवरावयविन्यावृतानावृतरक्ताऽरक्तचलाचलतादय इव वियति विरुद्धयोरपि तयोः प्रदे-10 |शभेदेन वृत्तौ (कुतः) कृतौजास्सञ्जायते विरोधारातिरनेकान्तधरानेतुःतथास्मानित्येऽप्याकाशे कृतबुद्ध्युत्पादादनेकान्तकृतान्तदन्तान्तरालप्रवेशनितान्तव्याकुलो हेतुः । निःस्वश्रेष्ठिखमान्ताकार्तखरकटाहोत्पाटनपटभरणन्यायेन भागासिद्धोऽप्ययम् । कूपौकःप्राकारादिष्विव पर्वतो/तर्वादिषु कृतमितिप्रतिभोत्पादस्याभावात् । प्रामाणिकानां तत्र वर्तत एव सेति चेत्, तर्हि भो! बर्हिणा इव बहुलसन्देहलोलाहिनिस्तहणाः केन प्रमाणेन तेषां तदुत्पत्तिः। न प्रत्यक्षेणातीन्द्रियतया क्षित्यादि कुर्वाणे शर्वाणीपतौ तस्याप्रवृत्तेः । अनु Page #25 -------------------------------------------------------------------------- ________________ मानेन चेत्तद्प्येतदन्यदेति विकल्पद्वयं भीमधनञ्जयद्यमिव मध्येजल्पयुद्धं युष्मद्युक्तिदुर्धरदुर्योधनध्वजिनीविध्वंसायोद्धरं धावति । यद्येतत्तदास्मात्कृतबुद्ध्युत्पादस्तस्माचैतदनुमानमिति-"युक्तिजालजलभाजिदुर्द्धरैः, साधनोरुमकरैः करालिते । मजयन्नजनि जल्पनीरधौ, लोहनौवदितरेतराश्रयः ॥ २२॥" अथान्यत्तदा कामुकमिथुनेनेव मदननन्दनेनेव मत्सरच्छुरितहज्जनेनेव च सवदोषाभिष्वङ्गिणा किमनेन क्लीबविकल्पेन, तदेवेह भवता बतावतार्यताम् । यद्वा तेनापि किं नापितक्षुरेणेव सर्वजनकेशकल्पनपरेण, तत्रापि हेतोः कालात्ययापदिष्टत्वादिदोषाणां सुसाधत्वादित्यबुधवधूराद्धौदन इव सिद्धः सोऑसिद्धस्तन्न तुरीयभिचातुरीतुरीययशोऽङ्कुशव्यूतिसमये सहकृत्वरी शैवकोविदकुविन्दानाम् ४ ।। हो! जल्पाकपाकशासन ! सकला अमी विकल्पा मदकलविकल्पकल्पाः कल्पान्तेऽपि नाल्पाया अप्यभिलषितसाध्यसिद्धिसुन्दर्या विलासान्दोलतल्पाः स्युः, ये खल्वास्माकीनस्मेरमनःकम्रकमलाङ्कमधुकरकृतानुकाराः सद्यो दह्यमानकुवायुच्चाटोत्कटचटत्काराः कार्यत्वप्रचारास्ते केऽप्यन्य एव विद्यन्ते । तत्कुतो रङ्केण रत्नशङ्काचान्तचेतसा चाकचिक्यकाशकानिकाचशकलानीव त्वया तेऽपलप्यन्ते। ननु प्रकटयामस्तानचेलतनोपादानत्वमभूतभावित्वं प्रागसतः स्वकारणसत्तासमवाय इत्यादय इति । सत्यं सन्त्यमी अपि तद्भेदाः, परं. दुष्टतया नैतेऽपीष्टं दातुमीशते । यतः पूर्वस्तावहुःशात्रव इव निशातदेशासिद्धिनिष्कोशासिद्विधाकृतः जगदन्तर्गतदेहिसन्दोहोत्पादुकसंवेदनसमुदायस्याचेतनोपादानत्वाभावात् समवायिकारणं धुपादानमुच्यते, Page #26 -------------------------------------------------------------------------- ________________ जल्प ॥९ ॥ तच सर्वसंविदामात्मैव । न चासावचेतन इति वाच्यं, तस्य चैतन्याभावे पाषाणप्रायतापत्या जगति जीवाजीवव्यवस्थाविलोपात् यदि च प्रायः समग्रप्रामाणिकग्रामणीप्रमाणीक्रियमाणे यौष्माकीणमतेऽप्य-1 चेतनश्चित्तया परिणमन्नभ्युपगंस्यते तदा-"भूतानां निचयो विचेतनतयाचान्तोऽपि चर्यते, काये सत्यसुचेतनाप्रलपतां लोकायितानामपि । रङ्गादमृदङ्गमङ्गलमिलद्धोकारबद्धोधमा, नतिष्यन्ति गृहाङ्गणे युवतयो वर्धापनं कुर्वताम् ॥ २३ ॥” नन्वात्मा खयमचेतन एवं किन्तु चेतनासमवायेन चेतन: स्यात् इति चेत्तर्हि स भवत्वन्यथा यादृशस्तादृशः परं यदा काचित्तस्माचिदुत्पद्यते तदा समेतचेतनादेवेति मन्तव्यं, अन्यथा हि कारणानुगुणं कार्यमिति योऽङ्गीकारः स्यात्तस्य परिहारः । वद च त्वमेव धवलतन्तुवातव्यूतं वसनं कचन मेचकमचकात्? तन्नाचेतनाच्चिदुत्पादोन्याय्यस्तन्नाद्योऽनवद्यः अभूतभावित्वं चानैकान्तिकताङ्कितं, प्रागुक्ताकाशकार्यतावत्पर्यायरूपेण नित्यपदार्थेष्वपि तद्भावात् उक्तं च-"नच नाशोऽस्ति भावस्य, नचाभावस्य सम्भवः । भावाः कुर्युर्व्ययोत्पादौ पर्यायेषु गुणेषु च ॥ २४॥" तार्तीयीकोऽपि तवाति निवर्तयितुमियति न स्फूत्ति, योगजुषामशेषकर्मक्षये पक्षान्तःपातिनि तस्याप्रवृत्तया पक्षकदेशासिद्धः, कर्मक्षयो हि साधनन्तत्वेन प्रध्वंसाभावरूपो यदाहुः-"सादिरनन्तः प्रध्वंसाभाव" इति । न च तस्य सत्ताखकारणयोः समवायोऽस्ति, वस्तुतापत्तेः। अथ कथं निश्चिकयिथेदम् ? यदुताभावोऽपि पक्षे न्यक्षेऽपि, नहि कोऽपि प्रविश्य मनो द्रष्टुमीष्टे, तस्मादो बहुवुधाकूतबोधवन्धुरबुद्धे योरसरहितो भासुरस एवास्माभिरिह धर्मी मिर्मीयते स्मेति स्मेरतामेति Page #27 -------------------------------------------------------------------------- ________________ नतरामेष दोषः। सत्यम् । किन्तु विश्वेश्वरो बिरज्झलोज्झितप्राकृतकुन्तलपर्यायं कुरुते न वा? यद्याचस्तदाकथमभावोऽपि न पक्षान्तःपातुकः? शङ्करकरणीयसकलकार्याणां पक्षेण निजकुक्षौ निक्षेपणात, तस्य चाभावरूपत्वात्, द्वितीयश्चेत्तदा भङ्ग इव सर्गोऽपि स्वखहेतुभ्य एव भविष्यति तत्को विशेषस्तस्य दृगविषयीकृतस्यापि हेतुत्वकल्पनया ।ततः-"गोविन्दोऽनुयुनक्ति मुक्तिगमनेच्छूनां मनः कीदृशं?, संबोधं मतिमोदनस्य सुधिया पकस्य सम्पाद्यते । किंभूतां सुभटः करोत्यरिघटा दान्तप्रदानावृतान्यार्थ तद्वद हेतुरापदियता का तावकोऽसिद्धताम् ॥ २५॥" प्रश्नोत्तरम् । “अस्ति खस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः। आयस्तस्कृतजल्पकल्पलतया क्रोडीकृतः साधनासिद्ध्याख्यस्तबको बभूव बहुलामोदः सुधीमण्डनः ॥ २६ ॥" इति श्रीतपागच्छशृङ्गारयुगोत्तमगुरुश्रीसोमसुन्दरसूरिपट्टपाथोधित्रिपथगाप्रवाहोपमधीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरबशेखरसूरीन्द्रशिघ्याणुरत्नमण्डनकृतायां जल्पकल्पलतायां, मण्डनाङ्कः साधनासिद्धिनामाद्यः स्तबकः॥१॥ Page #28 -------------------------------------------------------------------------- ________________ जल्प क० ॥१०॥ कौशेयांशुकखण्डमण्डितमरुहूतकणकिङ्किणि, ब्राह्मीकेलिनिकेतकेतनधृतश्रीः केयमिन्दूजवला । निर्याप्ति ब्रुवतः कलध्वनिमुनेरेषा मुखाम्भोरुहादस्याधिरबिम्बरुक्कबरिता दन्तद्युतां धोरणी ॥१॥ इत्यादिजल्पवलोककलोककदम्बदर्शनानन्दमुत्पादयन्मुनिपुरन्दरः पुनरिदमुदीरयामास । मा सर्वेषामेकत्र विकल्पजल्पनादुद्वेगो भूदिति भो दक्षप्रतीक्ष्य! कार्यलक्षणपरीक्षणमुपेक्ष्यापि ब्रूमहे । महेशजन्यतां जगतः साधयता त्वया कार्यवादित्यत्र कार्यमात्रमभिप्रेतं तद्विशेषे(षो वा)। शेषो वादी यदीहाथै स्यात्तदाप्यनयोः पक्षयोरेकमपि कक्षीकुर्वाणो न समर्थः साधयितुं साध्यम् । साध्यन्तःकरणं करोति खल्वादिमः, कार्यमानं हि कुलालादितुलालातृकर्तृमात्रस्यैव साधकं स्यात् न तु लोकोत्तरबुद्धिमद्धेतोः, तेन सार्द्ध हि तस्य व्याप्तिर्वासवसूरिणापि दुःसाध्या (धा), साधारणाच साधनादसाधारणसाध्यसिद्धावस्मदादिनित्यमत्यादिमानात्मवादीश्वरवदित्या| दिप्रयोगाद्वनिस्पृशामपि नित्यनिखिलार्थनिष्ठज्ञानादिसिद्धिदुर्निवारा। वारान्निधेःसेतुनेव तस्याः प्रमाणादिना स्खलना स्यादेवं, न च वचनीयं यं हेतुं भवभिमतेऽपि प्रमाणादिबाधा दर्शिता दर्शयिष्यतेच पुरः। पुरवैरिणं द्विषद्धे मुने ! त्वमिदमभ्यधाः, परं यथा विवादाध्यासिता भावाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्करमौक्तिकवत् इत्यत्र प्रमेयत्वमात्रादशेषवित्पुरुषविशेषो वः सिद्ध्यति, तथा कार्यत्वमात्रादलौकिकबुद्धिमद्धेतोः सिद्धिनः कथं न भविता भविता तावदाक्षरमेतदुद्ध ! साधनाव्याप्तिसाध्यसमव्याप्तिव्यतिरेकव्याप्तिकयोग्यदेशावस्थितत्वो-| पाधिबाधितत्वात् अप्रयोजकेन प्रमेयत्वहेतुना कार्यत्वहेत्वाभासस्य तुलनादन्धान्धवाहाविलगनन्यायो Page #29 -------------------------------------------------------------------------- ________________ व्यञ्जयांवभूवे खल्वेतेन । तेन बाष्पधूमयोः केनचिदंशेन सादृश्येऽपि कुतश्चिद्विशेषाभूमो धूमध्वजमवबोधयेन्न बाष्पादिस्तथा पृथिव्यादीतरकार्यत्वयोरपिकिश्चिदन्तरमङ्गीकार्य मनीषिणा। मनीषिततदङ्गीकारे तु-"हेतुः साध्यं गमयितुमलं किन्तु दृष्टान्तवर्ती, न स्याद्यदा नृपतिरपि न दे विधातुं समर्थः। क्रीडामग्नप्रसृतकरणीन्द्रेषु वातायनेषु, लिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥२॥” स(श्र)मस्यामे(मि)षुधिमिव द्वितीयमपीयता युक्तिपृषत्कमुक्तं वादिसुभटो भजेदिष्टजयवैभवः। भवतु वा यथाभवदभिप्रायं हेतुः किं साध्यविपर्ययसाधनाद्विरुद्धतां दद्धदसौजायते युष्मद्यशोरजनिजानिदर्शः। निदर्शनीकृतघटानुसारेण तत्कदृष्टवपुरादिविशेषवन्तं हि विश्वविधातारमसौ प्रत्याययत्यस्माननु । ननु भोस्तपोष्टपेटकटङ्कारितकीर्तिघण्टाकप्रकटतामटत्यबाह्यबालता भवतः केवलकार्यतावशदृष्टान्तीकृतघटनिष्ठकार्यादियुत्कर्तृजन्यतालक्षणान्यधमापपा(मतोपपा)दनेन विरुद्धतां कथयतः। यतः-"वेणिः कृष्टकृपाणवद्यदि तदापयेत किं भीष्मता? वक्र पर्वमृगाङ्कवद्यदि तदापयेत किं श्यामिका तन्व्याः काश्चनवद्वपुर्यदि तदापद्यत किं ताड्यता ? ॥३॥” गृहीतमुक्ताक्षरजल्पः॥ दृष्टान्तस्थस्यानिष्टस्य धर्मस्य प्रसञ्जनं चोत्कर्षसमाना जातिरेव स्याद्यदुक्तम्-"उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती।" तंत्र यदा वादिना गदितेऽनुमाने प्रतिवादी दृष्टान्तस्य धर्म कश्चित्साध्यस्य धर्मिण्यापादयेत्तदो१द्वितीयस्तबकारम्भात् । २ असमस्तपदजल्पारम्भः । Page #30 -------------------------------------------------------------------------- ________________ जल्प- ल. कर्षसमा जाति,यथा यदि घटवत्कृतकत्वाद्भङ्गुरः शब्दो घटवदेव मूर्तोऽपि भवेत् न चेन्मूर्ती घटवद्भ-| कुरोऽपि मा भूदिति शब्देन्यं धर्ममुत्कर्षयतीति।सा च दूषणं न भवेत्, किन्तु दूषणक्दाभासतेऽतः कामपि शहां नास्माकमुत्पादयेत् । दृष्टान्तेन समं दार्शन्तिकस्य च यदि समग्रं साम्यं गवेष्यते तर्हि सर्वत्र हेतूनां विसंवादितैव स्याद, इति चेत्, ब्रूहि बहुशः शोभना भणितीः । परमसौ दोषाणामाकरो न हेतुभविता, न हि रासभस्ताडितस्तुरङ्गतां दुग्धेन क्षालितो मौकुलिः कलहंसा वा कलयेत् । कुतः इति चेत् तदाकीतां, नर्सक्येक स्सन्या मण्डपं विडम्बयितरि तुण्डे वितण्डायास्ताण्डवं मण्डितवतां जडानां तापदेतदेव पल्लवन, यद जातीयानां जल्पनं न तु मौसिकानां शुक्राय इव यशसां प्रसविन्यो युक्तयः। क: स्वालु जाम्बूनदस्य भल्ली जम्बाले क्षिपेत् ? सा तुचोत्कर्षसमाया जाते. स प्रयोगावासायावासायते, यत्र साध्यं श्लिष्ट, ततः सा तत्र खैरं कथं न प्रसरमासादयेत्। वरं सा प्रसरिसतु यदि श्लिष्टं साध्यं स्यात् अत्र तु स्वमेऽपि तनास्तीति चेन्न, पक्षे नित्यत्वे सति समभुवानाथा: सपक्षे च ततो विपरीताया बुद्धराश्रयस्य कर्तुर्विवक्षणेन साध्ये सुपरिश्लेषस्य दर्शनात् । ननु कश्चित्कमप्याख्यद् यदुत तक माता मे मात्रा श्मशाने दया, तदान्येनोक्तम्-तर्हि तेऽपितत्र मातान लक्षणवती या तत्र यायादित्युपाख्यानेन वितण्डां वितन्वान इकन जातिं प्रयुञ्जानोऽपि जमो जानत्तरो जल्पनीय इति चेत्, तदस्माकं प्रियम्भावुकं, परमस्माभिःसूनृत एव | दोष उद्घुष्याते न तु जातिः,जगतो बुद्धिमता हेतुना कृतास्वे सिद्ध्यति सति बुद्धेः कायस्थ नियतमपेक्षणेन तद्वतो। साव्य तितलि चन्च, पक्षे विदर्शनात् । कल कविता या तत्र यापादियाभावुक, परमसाक्षिणेन तहतो Page #31 -------------------------------------------------------------------------- ________________ हितोपदवं शारीरितात्या सिद्ध । कृपाका मतिः कायमपेक्षते न तु नित्येति चेत् , तदास्माकं वागुशवत् मरी-IN यसि गिरांगुम्फे कुस्तपालं पलितोऽसि, यातः सर्गे योपयोगिनी गिरीशस्य गीः सा कृतकैव प्रपद्यते धूर्जटीयैः। जावटीति छ, तथैव । इत्यागच्छादिच्छा विनापि शरीरितायाः स्वीकारः। अथ मतमवमत्य नित्यया मत्या निर्मात्यसौः विश्वमित्यभिधस्से, तदपि मोघलामातेष्टिघीति, तस्या एकतया खीकरणस्त(णात्त)या कृत्वा कृतानां कार्याणामप्येकताया प्रसक्तेः, घटस्य धियाः क्रियमाणो हि घट एवोत्पद्यते न तु पटः। किञ्च नित्यायां बुद्धौ सम्बन्धस्थाभावेन कथमुपनमतु मतुः प्रत्ययः । यदि अस्ति सम्बन्धस्तदा स किं संयोगः समवायो वा? इति भेदयोः प्रमदायाः पयोधस्योरिक यामलं सुधियामलं मनः क्षोभयितुं सम्पनीपद्यते।असमस्तपद्जल्पः तवाद्यो वैफल्य काशकुसुमसङ्काश:प्रकाशते। स्त्रीपुंसयोरिव द्रव्ययोरेव संयोगो(गा)ऽभ्युपगतेः। धीस्तुगु-IN णबाबस्तेन समवैति नतु संयुज्यते। द्वितीयस्तर्हि बर्हिणायतां मनोवन इति चेन्न.। समवायोऽपि यतो(न)ऽयुतसिद्धानामभ्युपगम्यते ।अयुतसिद्धिश्च देशकालखरूपेषु कस्यैक्येन । न तावत् देशैक्यतः शक्यते सा घटयितुं केनापि । नहि य एव तन्तूनां कालः स एव चीवरस्यापि । तथात्वे कार्यकारणभावः केन सुधिया सुसाधः । Mकारणेन. हि कार्यमन्यतः सिद्धं सत्तुल्यकालं स्यात्। सिद्धोपस्थायि च कथं कारणं प्रागेव कार्यसिद्धेः । खरूपै-10 |कत्वे तु द्वयोरप्यैक्यात्किं कुत्र समवैतु । तन्नायुतसिद्धरसिद्धयाऽसँश्चित्समवायो विद्यते । भावे वा विभुतै तत्र यदेत्यतधारभ्य । २ पतत्यक्षरं । Page #32 -------------------------------------------------------------------------- ________________ जल्प ॥ १२ ॥ क्याभ्यां कुलालेपि मेलिततद्धीः स्यात् । नन्वनित्या धीर्या यस्य सा तस्यैवेति कुतोऽनियता । तादात्म्यसम्बन्धाद्या यत्रोत्पेदे सा तस्यैवेति ब्रूमः । न चात्मैकान्तनित्यो येन तदात्मतया धीर्नोद्भवेत् । ततो बुद्धिमद्धेतोः कृतकैव धीरभ्युपगन्तव्या । तया चाङ्गसिद्धौ तत्कुलालाभतासिद्धेर्विरुद्धोऽयम् । समसंख्याक्षरवाक्यजल्पः । (अष्टादशाक्षरीयः) ॥ एतेन ननु भोस्तपोऽत्यादि यज्जगदे तच्छङ्कामुत्पादयेदित्यन्तमुच्चिच्छिदे । अथ दृष्टान्तदाष्टन्तिकेति यदभाणि, तदपि न प्रामाणिकप्रीतिविश्राणि । यतो यादृशात्कारणाद्यादृशं कार्य दृष्टं, तादृशादेव तादृशं अनुमीयमानं तार्किकेष्टं । यथा यावद्धर्माद्वह्नेर्यावद्धर्मात्मकस्य धूमस्योत्पत्तिः सुदृढप्रमाणात्प्रतिपन्ना, तादृशादेव धूमाच्छैलादौ तादृशमेव कृशानुमनुमि (म) ते प्रमाणविन्ना । घटादिकं च दृश्यविशेषाधारा दृष्टमुत्पेदानं, ततो वसुधाद्युत्पाद्स्यापि तादृशादेव कर्त्तव्यमनुमानम् । नत्वदृश्यविशेषस्फीतेः, ततः खप्नेऽप्यप्रतीतेः। न चैतावतोदाहायोदाहरणैः समग्रसाधर्म्यान्वेषणं येन जायेत नः सकलहेत्वनुपपत्तिदूषणम् । तदेवम् - " त्वदरिमधुपनीपप्रायसाध्यप्रतीप - प्रथनपदुभयेद्धः स्पष्टदृष्टो विरुद्धः । तवकतयविलोक्योत्सर्पिकल्लोलजल्प - जलजलनिधिसेतुः | स्यात्कथं सैष हेतुः ॥ ४ ॥ नियतानुप्रासजल्पः ॥ तथा भोः कुवादिगजपारीन्द्राः । पार्थादिव रवितनुभ्रुवा समवतीर्णेन सङ्गरे हेतुनामुना प्रसरद्दधुतिपृषत्कौ| घेनापि व्यभिचारादवाप्यते गरीयानवश्यमनवश्यमनर्थः । अकृष्टप्रभवैर्वनवनस्पतिभिर्विपक्षभूतैरप्युपात्त क०ल० स्त० २ ॥ १२ ॥ Page #33 -------------------------------------------------------------------------- ________________ त्वात् । कार्याः किल ये भावास्ते वेधोपलभ्यन्ते । केचिद्धीमता जनिताः कुम्भगवाक्षाग्रतःसराः । केपि च तद्विपरीतास्तुणतस्पभृतयः । तेषां पक्षीकाराव्यभिचारौकस्त्वमेवं चेत् तदेदं पाथो रेखायते सर्वत्र व्यभिचारविषयस्य पक्षगतीकर्तुं शक्यत्वेनापव्यभिचारतया मेघादि क्षणनश्वरं सत्त्वाद्विद्युद्वदित्यादिप्रयोगप्रकारौघस्यापि साधकत्वानुषङ्गात् ॥ गुप्त(रघुप्रथम)श्लोकजल्पः॥ ___ अथ तत्रापि तपस्यमानमस्तक इव चक्षुरगोचरीकृतः शङ्कर एव रचयितेति चेत्, घटेऽपि स एवादृश्यः पिपासितपान्थपङ्किरिव कर्ताऽस्तु न कुलालः। तथा च कथं तदृष्टान्तेन सुजातसुतस्येवातिमात्रेहितस्य(तस्यः) कर्तुः सिद्धिः। कुलालं कुरुक्षेत्रमिव कुर्वन्तमनेकशी विलोकितवन्तः कथमपरं कल्पयामः? इति चेत्, तदा दृष्टकर्तृकाणां शङ्करणाऽकरणात्कथं येन जघटे जगदिति गीः सुघटा? घटास्थानीव सारकासार इव सनोदकः संस्तेषां कर्ताऽन्यषां च मुख्यतयेति चेन्न, स हि यदि समर्थस्तर्हि धनवानिव सर्व खेन कुर्यात्, यदि वा श्रुतदेवतेवेशानस्तदा घटादीनिव पर्वतादीनपि कैश्चित्कारयेत्, नो चेत् सामथ्र्यैश्वर्ययोरेकतराभावः सुवैष्णवयोरिव स्यात्, अथ कृपणानिव स्वतः समुद्भवतस्तानपि नोदयेच्चेत् तदानीमन्यथाभवदुत्पादतयापनिद्रनेत्राणामिवाऽखापेक्षिणामपिविष्टपतिष्ठत्पदार्थानांनोदनां विधानःस नोन्मत्तादतिरिच्यते॥श्लेषजल्पः॥ किश्च-ईदृकिरीटस्थानयोरगोचरचारितायां किमस्याभावो विद्यादिप्रभावोऽस्मदाद्येतद्वैगुण्यं दवीयस्तादि वेत्येतावन्तो विकल्पाः कीर्तिकन्येमित्थंकरणसमये चतुर्मङ्गलतुलामङ्गीकुर्वते । तेषु प्रथमे तावदीढगा Page #34 -------------------------------------------------------------------------- ________________ जल्प कारशिलासीनात्मन इव तव तन्वभावे कर्तृत्वानुफ्पत्तिस्विद्धतुदोषाणामन्तिमस्य प्रस्तावे विस्तारयिष्यते। क०ल. अनादिमे च किमा(किं मा)नमश्चन्मुखं मयूखेनेत्थंकृतमिव तव स्यात्, यदि हि विद्यादिप्रभावादनिभाल्यताभागसौ भवेत्तर्हि कापि कस्यापि दृग्मार्गमागच्छेत्, न खलु विद्यादिशालिनः शाश्वतिकम स्त०२ दृश्यत्वं ददृशे पिशाचादिवत् । तृतीयः सबलकालभियाकोशेत्थंकृतिन्यायप्रत्यायनीयः, सर्वजनादृष्ट (नदृष्टि)वैगुण्यस्य प्रत्यायनायान्यप्रकाराभावात् । चरमोऽपि न चिद्रूपाणामेतद्रूपतामरसमीदृशं कुरुते, अदृश्यत्वं । हि दवीयस्तादेरियद्विधाच्छिष्टैरुपदिष्टं, यदाहु:-"अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्षम्याद् व्यवधानादभिभवात् समानाभिहाराच ॥५॥" तस्य च व्यापकत्वादिनाऽदृश्यत्वे नैतेष्वेकमपि कारणं सम्भवेत्-"एतावन्नयनस्य विश्वजनताऽनालोक्यतासङ्गति,नागच्छन्त्य(त्य)पितावकादविरताधीता|नघच्छन्दसः। एतस्मात्पतति स्म निःस्मयहृदस्तेन प्रपन्ना वयं, स्मस्तां पत्तनकण्टकाशनशकृद्गोलाऽशनन्यायतः॥ |६ ॥” करपल्लवीजल्पः ॥ किन्तु वपुरभावेऽपि या धूर्जटेजगतः प्रक्रिया, तया बोभूयते बुधमनोवृत्तिः सविस्मया । यतः सा किं प्रयोजनवत्तया कर्मप्रेरणया यदि वा तादृक्षखभाचतया? इति भिदात्रयं दात्रयायते कुमतवल्लिवनलवनाय प्रयुक्तं मया। तेषु प्रथमे(नासुप्रथमायां)कथं न हानिः कृतकृत्यतायाः? प्रयोजनमुद्दिश्य तस्य जगजनने तत्परतायाः। अ-1 न्यथा तु न तस्य प्रवृत्तिः प्रेक्षापूर्वकताकमनीया।-"प्रेक्षावतां यतो वृत्तिाप्ताऽऽस्ते कायेवत्तया ।प्रवर्तेत बिनार्थ ॥१३॥ Page #35 -------------------------------------------------------------------------- ________________ न,सोऽपि यद्धीः स्तनन्धयी ॥७॥" किञ्च-प्रयोजनेनापि तस्य भाव्यं करुणया, क्रीडयाऽथवा निग्रहानुग्रहविधि-IN त्सया।-"तेषु त्रिषु त्रिनेत्रस्थ, कृपया यदि तक्रिया। सृजेत्तच्छुभमेवेदं, भुवनं नोदितस्तया॥८॥” कामनुकम्पांच सूचयतिच्छागपुरोगाणां पुरीषादेर्वर्तुलीक्रिया|तन्न तत्करणे कारणं कणिकापि करुणाया। अभिधास्यते भिद्वितीया, सा वेगवदापगापूरप्लाव्यमानमानवकुशकाशावलम्बनप्राया। डिम्भस्येव हि क्रीडासु वर्त्तने तस्य जायेतार्यता सव्यपाया । अपरं च यत्तस्य पूर्यते रसः क्रीडायाः। सम्पद्यन्ते च प्राणान्ताः प्राणिनामपायाः। तदपनयति सिन्धुरः स्कन्धस्य कण्डूयां, पतति च मन्दिरं यातयामायाः । नापि तृतीया विधाऽभिधानीया।। स हि यदि निग्रहानुग्रहौ करोतीश्वरत्न्या । तर्हि रागद्वषोदयेच संसारसागरे मजनाजायते सदृशीकृतानव्याः | (न्याः)(तायाः)तबः प्रयोजनपक्षो दुःसाधसाध्याऽसाधनप्रवयाः। वाक्यान्तवर्णक्यजल्पः॥ अथ कर्मप्रेरणयेत्यङ्गीकुरुषे । तदाबंदाऽसारकोरटोपकरणन्यायेन कर्मणामेवेशत्वमुपकर(कुरु)ते । ननु तेषां तदायत्तोत्पत्तिकतया कथमिदं व्याकुरुषे ? मैवं, यदि ह्यसौ कर्माणि कुरुते। हन्त तर्हि सर्वेषामपि शुभान्येव कुर्यात्, परोपकारैकव्रतत्वादुत्तमानाम् । अथ न भूपो भृत्येभ्यः कर्तव्यानुरूपं फलं कुर्वाणः खस्योत्तमतामपाकरोति, एवं शुभाशुभकृतानुसारेण प्राणिनां कर्माणि कुर्वन्नपर्णापतिरपीति चेत् ? कृतं काचपिच्येन, भूपतिश्च समर्थश्चेत्, (साहि यद्यङ्गीकरोति सामर्थ्य तर्हि) सर्वैः शुभमेव कारयेत्।नो चेदवश्यमसामर्थ्यमसा१ यालक्षणः। Page #36 -------------------------------------------------------------------------- ________________ जल्प ॥१४॥ धुतांवा स्वीकुर्वीत । चरमोऽपि दुःखाचरीकर्ति वः, तदीयखभावस्य नित्यैकतया सर्गसंहारयोश्च परस्परविरुद्धतयैकतरस्यैव करणापत्तेः। अन्यथा तयोरेकतां खभावस्य भिन्नतां वा गलेपादिकयापि त्वम(गी)कारिब्येत । तन्न वनस्पत्यादीनपि स एव करोतीति प्रतीतिकरम् । वनतर्वादेरपि तेनैव करणं चमदचीकरचतुरचेतः"शस्येतराऽतः करवीरमालानुकारिणीयं व्यभिचारवत्ता । परासनार्थ(य) प्रगुणीकृतं ते, पर्यस्क रोत्तस्करतुल्यहेतुम् ॥९॥” एतेनाग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् कालात्ययापदिष्टतयापि हेतुमवचेक्रीयते चतुरचक्रम् । वनवनस्पत्यादावाबालगोपालं कर्तुरसाक्षाचरिक्रियमाणत्वात् । असदृशस्य तस्य च कर्तृतायाः पराचकृवत्त्वात् । तत:--"चेतो वः कमलाकरोति किमिह प्रश्नोत्तरे के वद(व्याकुरु)प्राक् पुण्यापगमेन का किमकरोल्लक्ष्मीवतोऽप्यालये । श्रीरामस्य समागमोऽवनिमुवा लङ्कास्थया किं कृतस्त्वद्धेतुः क्रियते स्म काननवनस्पत्यादिभिः कीदृशः ॥१०॥” (कालात्ययापदिष्टः)॥ कृगधातुजल्पः॥ ___ अथ कथमथर्वेव निर्वेदकोरण्यभण्यताम्बरीभर्तुः हेतुर्न भावत्कः, तत्कालप्रतिकूलसाधकहेत्वन्तरतुरगवेगोपढौकितप्रौढप्रकरणसमतानिर्मिथोन्माथत्वात्तथाहि-गिरीशो नेच्छाकारी, अशरीरित्वाद, योऽशरीरीस नेच्छाकारी यथा संसारपारीणः, अशरीरी चोरीचरीकरांचक्राणो गिरीशः, तस्मान्नेच्छाकारी इति प्रतियोगः शङ्करसकाशात्रिलोकेच्छाकारित्वं बकदलनदन्ताबलोदसनलीलयोदलीललत् । आः साधु साधुषु धुरन्धरो- वादिसिन्धुरमदग्रासमधुकरो भवानिदमबम्भणीत् । गिरिशं नःखामिनमिह धर्मिणं निर्मिमाणस्य तवापि तद् ॥१४॥ Page #37 -------------------------------------------------------------------------- ________________ भ्युपगमावश्यकरणीयत्वात्, इतरथा साहसाङ्कविवेकावासितकेवलकविनिकेतबन्धुरायां धारायां कवि - ताविकलस्येव हेतोराश्रयासिद्धिर्बोभूयादिति चेत्, तद्विचारितं चारुतां चक्षुरीति । न खल्वभ्युपगम्यमान एव धर्मीति मतिमतामेकान्तो वरीवर्त्ति । तमोऽभावरूपतासाधनादावनभ्युपगतस्यापि तमः प्रमुखधर्मिणः प्रयोगात् । हेत्वाश्रयासिद्धता तु प्राय उभयत्रापि तुल्याक्षेपोत्तरा वेवेति । न च वयमीश्वरं नाभ्युपजङ्गन्मः । ततो यूयं यमभिममनामासिवांस ईश्वरं स किलेन्दुकलाकालीकपालादिविकलतासकलवि (प)तादिखरूपः परमात्मैव । तं च सुपरिप्रतिजाज्ञति जैना अपि । (नच) विवावदद्यन्ते नो । पुनस्तत्रासम्भविनो भुवनविधानादिकियद्धर्मा एव । तत् कथमयमाश्रयासिद्धतामाशेश्रीयात् ॥ चेक्रीयितंक्रियाजल्पः ॥ ननु विद्यमानेऽपि वपुषि ज्ञानेच्छाप्रयत्नानां समस्तानां व्यस्तानां वाऽभावे कुम्भकारादावपि कर्त्तृतां नोप| लम्भगोचरयामः । तेनादौ कार्योत्पादककारणकलापाकलनं, ततः करणेच्छा, तदनु प्रयत्नस्तदनन्तरं फलनिष्पत्तिरित्यमीषां त्रयाणामेव कार्यकर्त्तृत्वे सर्वत्राव्यभिचारात्कर्तृत्वसामध्यामङ्गमनुपयोगितयाऽजागलस्तनायते । तत्कुतोऽशरीरित्वहेतुमन्वयव्यतिरेकाघटनया कूटमप्रचकर इति चेत्, मुशलाग्रधियः कुशला ईदृग्गरा शृङ्गारयन्ति खजिह्वां नतु कुशाग्रधियः । यतो हन्त हे तार्किकंमन्य ! विना देहं तस्य ज्ञानादयो वन्ध्यास्तनन्धयायन्ते तेषामुत्पत्तावस्य मुख्यनिमित्तकारणत्वात्, अन्यथा मुक्तात्मन्यपि कस्तानुत्पद्यमानानर्गलयेत् । अथ प्रमथनाथः प्रथमं स्वं वपुषा सनाथ इति पश्चात्तेन सहकारिणा जगत्कर्तुमोङ्कारयतीत्ये Page #38 -------------------------------------------------------------------------- ________________ जल्प मित्यादि तदित्युतबाधितत्वेन व्याप्यत्वाध्योः किं लक्षणं क०ल. स्त. २ |तावता किं चक्रं नो मनो मन्दाययेतेति चेत्, वपुरभावे स्वयं वपुरकरणं तत्करणायापरपरमेशकल्पनाऽनवस्थापारवश्यमित्यादि तदित्युत्तरयामः । ननु भो! क्षुल्लकमतल्लिकागल्लफुल्लिकाभिलोकहल्लोचनानि चिराय चित्रीयन्ताम् । परं कृतार्थत्वोपाधिबाधितत्वेन व्याप्यत्वासिद्धतां यातो हेतुरयं साध्यविपर्ययं साधयितुं कथdमोजायिष्यते? सत्यमेतत्, तथापि व्याप्यत्वासिद्धतोपाध्योः किं लक्षणं कमलीयते हृद्यनालीके? येन तौ सिद्धपुरुषाश्लिष्यमाणानलीकव्याप्तिपाञ्चालीकमनीये मदनुमानहम्यकहेतुहरिचन्दनस्तम्भे कटरि काष्ठकीटायेते ॥ नामधातुजल्पः॥ हन्तेदं तत्तथाहि-दृष्टान्तप्रभवेनोपाधिना बाधितो हेतुरप्रयोजकापरपर्यायो व्याप्यत्वासिद्धः १, साधनाव्यापकः साध्यसमव्याप्तिरुपाधिः, यथा-पृथिव्यादि सकर्तृकं, कार्यत्वाद्, घटवदित्युक्ते शरीरिजन्यत्वं १२, हेतौ सत्युपाधेरभावः साधनाच्याप्तिस्तत्र दृष्टान्तः पक्षः ३, साध्योपाध्योरन्योऽन्यव्यापकत्वे साध्यसमव्याप्तिस्तत्र सपक्षः ४, उपाध्यभावे साध्यभावो व्यतिरेकव्याप्तिस्तत्र विपक्षः ५, स एव च तदाभासो यदि व्यतिरेके प्रत्युपाधिर्यथा अस्यैव यच्छरीर्यजन्यं तदकर्तृकं यथा व्योमेत्युक्तेऽकार्यत्वं ६, उपाधिलक्षणं भो विचक्षणवरेण्य ! क्षतक्षुण्णमेव न्यक्षमेतल्लक्षणं, परमकृतार्थत्वं कथमुपाधिः अशरीरित्वे सत्यकृतार्थस्य कस्याप्यभावेन साधनाव्याप्ती निदर्शनादर्शनात्, ईश्वरस्य तु विश्वरचनातः क्रीडायेकतरार्थकल्पनयाऽकृतार्थत्वेऽसदादेरिव शरीरित्वादिप्रसङ्गोजर्गलः । नच तत्कल्पना न्याय्या, प्रागेव तन्निरासस्य प्रतिपादनात् । ये Page #39 -------------------------------------------------------------------------- ________________ चान्ये जमति चेतनाले कृतार्थाः परं भोगायतनभाज एव । अवेतनास्तु तदभावेऽपि नाकृतार्थाः । कृतार्थाकृतार्थत्वयोरजडस्यैव धर्मत्वात्, तन्नोपाधिबाधया व्याप्यत्वासिद्धोऽयम् ॥ गम्यास्तिजल्पः ॥ ततः- “दुष्टोपाधिविधिन्तुदा विधुरितो दुर्युक्तिभूर्युक्तिभूच्छायच्छिद्भवदुक्तहेतुशशिनस्तेजोधुनानोऽधुना । | विद्वन्मानसनीरजन्मसुकृतोल्लासस्तदभ्यन्तरे, हेले हेलितुलां वहेत न कथं हेतुर्महेच्छो मम ? ॥ ११ ॥ एवं च पञ्चतयदोषविशेषदुष्टाद्धेतोरतो (5) गिरिशविश्वविधानसिद्धेः । या तावके मनसि तिष्ठति कामना सा, नारी नपुंसकपतिप्रसवस्पृहाभा ॥ १२ ॥ अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीमन्दिरनो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः । विष्टस्तत्कृतजल्पकल्पलतया शेषाब्धिसंख्योदयद्दोषाख्य स्तबको बभूव सुधियामाद्येतरो मण्डनम् ॥ १३ ॥ इति श्रीतपागच्छशृङ्गारयुगोत्तमगुरुश्रीसोमसुन्दर सुरिपट्टपाथोधित्रिपथगाप्रवाहोपमश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरत्नशेखरसूरीन्द्रशिष्याणुरत्नमण्डनकृतायां जल्पकल्पलतायां मण्डनाङ्कः शेषहेतुचतुर्दोषोदयो नाम द्वितीयः स्तबकः ॥ २ ॥ Page #40 -------------------------------------------------------------------------- ________________ जल्प ॥ १६ ॥ अथ दूषितसाधनस्तपोधनरत्नं स चिरत्नधीनिधिः । कृतसाध्यनिरासवासनः पुनराख्यज्जनराजिरञ्जनः ॥ १ ॥ ननु भोस्तर्क रहस्याम्भोरुहोल्लासहेलयः ! हीयतां हेतुरेष दृषन्निर्विशेषः, सन्ति साधनरत्नानि भूयांस्यपि तर्करत्नाकरे, परं यस्तेन परिचरिस्क्रियते पक्षपुरुषः, स एव निर्णिज्यताम् । अशुद्धे हि धर्मिण्याधीयमानं साधीयोऽपि साधनमयोमुद्रिकायां माणिक्यमिव न किञ्चिच्चकास्ति । ततो यदुदीरांबभूवे - भूधरधरादयो बुद्धिमद्धेतुका इत्यत्र त्वन्मनस्येको धीमद्धेतुरास्तेऽनेके वा ? बहूनां विश्वविधातृत्वे परस्परविमतेरनिवार्यतयैकैकस्य वस्तुनोऽन्या (ना) न्यरूपेण निर्माणे सर्वमसमञ्जसं स्यादित्येकमेव तं वावश्यामहे । तर्हि मधुच्छत्रशऋमूर्द्धप्रासादप्रभृतयोऽनेकसरघाकीटिकाशिल्पिकल्पितत्वेऽप्येकरूपतया सम्यग्वभान्तीति नैष मुनिरिव मनीषिमनोवृत्तिवनितां निंस्ते विकल्पः । अथानेके ? दायते तदायमेकत्वाभ्युपगमो भवताम् । अपरं च - ते सर्वेऽप्येकमेव यदि जगद्विधते तदा समुदितीभूय कार्यकारितया कथमीशा आक्शायन्ते । अथ पृथक्पृथक्तदा, जगदानैक्यादयो दोषाः प्रसूयन्ते । तन्मैकं शङ्करं शिष्येभ्यः शासिषीष्ठाः ॥ अदादिक्रियाजल्पः ॥ यच्च त्वं गीः कलम्बैकलव्यायमानो धीमद्धेतुं विश्वव्यापकतया मन्यसे, तदप्यनुपलब्धिश्रद्धेयं मानसे मनु । छत्रम् | यतस्तस्य तथात्वे विश्वगतानियतदेशस्थ वस्तूनां यथावन्निर्माणानुपपत्तिरेव कारणतामेत्यनूनाम् । धनुः । तत्र च पृच्छामो, जनवत्तनुव्यापारतः संकल्पमात्राद्वा जनयेदर्थास्त्रिजगतः। मुशलम् । आद्ये एकस्यैव गिर्यादेः कृतौ १ त्रिमुन्यसमाप्तसमाप्त शब्दानुशासनप्रणयनप्रसिद्धशब्दानुशासनाचार्य पदवी कश्री हेमाचार्य मते हादिरप्यदायन्तर्गण इति न प्रकरणविरोधः । २ कृला यड्लुबन्तं कर्मणि प्रयोगोऽयं, तथा चनादादित्वविरोधो, यतो यङ्लुबदादौ पठ्यते । ३ छत्रादिचित्रविन्यासास्तु प्रन्थान्ते द्रष्टव्याः । क० ल० स्त० ३ ॥ १६ ॥ Page #41 -------------------------------------------------------------------------- ________________ बहोः कालक्षेपस्य सम्भवाद्वंहीयसापि कालेन न सर्गावसायः। भल्लः । न च तस्य स्यादपुः, पुरा मेततयुक्यास्य प्रतिषेधनेन । वज्रम् । दैतीयीकपक्षे तु दोषो न कश्चिदू, असौ धन्यनाकसद्धत् सङ्कल्पात्तान् करोति, तथोररीकरणे त्वस्य व्यापकता व्यर्था । जलकमलम् । सर्वगत्वे च सोऽशुचिषु सर्वदुःखेषु श्वभ्रादिषु सञ्चरिष्णुःाटा प्रसज्येत, तथानिष्टं वः । स्थलकमलम् ॥ चित्रवैचित्र्यजल्पः ॥ ___ अथ सर्वज्ञत्वाभावे यथोचितोपादानकारणाचनभिज्ञतयाऽनुरूपकार्योत्पत्तिर्न स्यादितिहेतोः संविदात्मना विष्टपव्यापकः सोऽभ्युपगम्यते । तदाऽस्माकमपि निरतिशयसंविदात्मना परमपुरुषो विश्वत्रयं क्रोडीकरोतीति भवतां सिद्धसाध्यतापद्यते । ननु ज्ञानात्मनापि विश्वव्यापनेऽशुचिरसास्वादादीनामप्युपलम्भः सम्भ-| वतीति युष्माकप्यजनिष्ट प्रकृष्टमनिष्टम् । नन्वेकस्याः खल्वीषाया व(य)ने द्वितीया स्वयमेव व्यूयतयिति न्यायात्तुल्याभ्युपगमतयास्माकमप्रियं तव निरुपाधि प्रथममापतेत् । ज्ञानं चास्मन्मते अप्राप्यकारितया स्वस्थानस्थमेव विषयं परिच्छिनत्तीत्यशुच्यादिषु तदप्राप्तेरेतदप्रियं प्राप्यकारिज्ञानवादिनां परेषामेव शीर्षे पतेत् । किञ्चअशुचिज्ञानमात्रेण तद्रसाखादानुभूतौ दामदुकूलेन्दुवदनाचन्दनादिचिन्तनमात्रादेव देहिनस्तत्सुखमनुभवि-| ष्यतीति तदवाप्तिप्रयत्नस्तेषां मोघतामनुते ॥ संहितवाक्यद्वयजल्पः॥ | विन्नाणं निअणेअवत्थुविसरं गंतूण नूणंतरा, बाणो वेरिगणं रणमिव परिच्छिदेइ एवं पुणो। तुम्हाणं वयणं मणावि न मणं पीणेइ तस्सप्पणो, धम्मत्तेण हु निग्गमो कह बहिं सुक्खाइआणपि व? ॥२॥ तस्स य निस्स स्तेषां मोघतामनुतमलेन्दुवदनाचन्दनादिमिवादिनां परेषामेव शीर्षे पतत Page #42 -------------------------------------------------------------------------- ________________ जल्प ॥ १७ ॥ रणे जीवस्साक्स्ससचे अणसणाओ अजीक्याक्ती हव । अह - पचूसावसरे गुणा वि र (वि) णो तेणेव कोडीकया, वीसुं वित्थरिकण किं न किरणा भासिंति भूमंडलं । एवं अप्पसगासपत्तपसरं नाणंषि नाणापयस्थाणं फासिअ पायडेह पडलं वा बुत्तदोसो कहूं ? ॥ ३ ॥ एअपि अविआरिज्जमाणरमणिज्जं, किरणाण गुणतणासिद्धी धम्म्रिणो समीवाओ धम्मस्स दूरवित्थरणे अवरदिताऽदरिसणाओ, तप्पभिइणो खलु तेउपमुहपुग्गलमयत्तेण दत्र्वं चैवावज्जंति, जो पुण किरणाण पगासरूवो गुणो सो तेहिंतो कयावि न पिहू होइ । तहाय धम्मसंगहणीए सिरिहरिभद्दायरियपाया – “किरणा गुणा न दव्वं, तेसि पयासो गुणो नया दव्वो । जं नाणं आयगुणो, कहमदव्वो स अण्णत्थ ॥४॥ लोहोवलस्स सत्ती, आयत्था चेव भिन्नदेसंपि । लोहं आगरिसंती, दीसह इह कपचक्खा ॥ ५ ॥ एवमिह नाणसत्ती, आयत्था चेव हंदि लोगंतं । जइ परिछिंदह सम्म, को णु विरोहो भवे तत्थ ॥ ६ ॥” तम्हा पडिहरिणो रहंगं व पपउत्तं दूषणं तुह चेव | लग्गं ॥ प्राकृतजल्पः ॥ किश्च तत्सार्वश्यं केन प्रमाणेन गृहीतम् ? अनुमानेन चेत्, किं तेनाविनाभूतं साधनं ? यदनुमानमुत्थापयेत्, विष्टपवैचित्र्यमेव चेत्, न तस्य शुभाशुभकर्मविपाकादिवशेनोत्पद्यमानत्वात् तन्न ज्ञानात्मनापि विश्वविभुः । प्रयोगोऽत्र 'शर्वो, न सर्ववेदी, विसंवाद्यर्थवादित्वाद्, युष्मदादिवत्' तेन प्रणीतेषु तत्त्वेष्वाद्यस्य द्रव्यस्वैव तावत्तदुक्तनवसंख्याकत्वव्यभिचारतो नायमसिद्धः स्वाद्धेतुः । ननु कथमिदमिति चेत्, एते वदामः 'भूज क० ल० स्त० ३ ॥ १७ ॥ Page #43 -------------------------------------------------------------------------- ________________ लानलानिलाकाशलोकात्मदिग्मनांसि' (इति) नव द्रव्याणि, तत्रन भूजलतेजोवायवः पृथग द्रव्यम्, अणूनामेव खेन भेदमभजुषां प्रयोगविश्रसाभ्यां पृथिव्यादित्वेन परिणमनात्, नचाचस्थाभेदाव्यभेदः समीचीनः, कुम्भायवस्थापन्नमृदादिद्रव्यस्थापि भेदापल्यानन्तद्रव्यप्रसक्तेः। नापि दिक, तस्या व्योमावयवत्वेन तत्पृथक्त्वानुपपत्तेः। अन्यच तमश्छायादयोऽप्यतदोऽन्तर्भवद्रव्यीभवन्ति तेषामपि रूपादिमत्त्वेन पृथिव्यादिव द्रव्यस्वासः॥ जलपद्मजल्पः॥ । तथाहि-“धत्तेऽमोघसुदर्शनप्रसरतामन्यद्धितं तन्यते, सत्यादिव्रजवाञ्छितानि बिभृतेऽवश्यं महोपास्थता । यच्चातीवतरां जने जनयति श्रीनन्दनस्योदयं, तत्कस्तार्किकपुङ्गवो न गणयेत्कृष्णैकरूपं तमः॥८॥" तच्च मेधाविमूर्खावधि सम्यगवगम्यमानश्यामरूपात्मकतया जलज्वलनवायुवियत्कालकाष्ठात्ममनोऽष्टके| गन्धवैधुर्येण वसुधायां चानन्तर्भवत् क्रियाः पश्चापि प्रपञ्चयञ्च द्रव्यान्तरमवतिष्ठते । ननु भो दम्भोज्झितह-16 दम्भोजिनीवल्लभ! वद सल्लदतिप्रतिभतया समयमियन्तं युक्तिमयमाख्याय त्वये(या)थेदं कथयता खस्य निर्ग-1 न्यतायाः प्रवयांबभूवे द्वितीयोऽर्थः-तमो न रूपवत्, अस्पर्शवत्त्वात् , यवदस्पर्शवत्तत्तन्न रूपवत्, यथाऽऽकाशं, अस्पर्शवञ्च तमस्तस्मान्न रूपवदित्यप्रतिघप्रमाणपविपातव्यपाकृतरूपरूपप्रबलमूलत्वात्तमोद्रव्यद्रुमस्य साधनसा(धी)यसीमाश्रयासिद्धिमाश्रचलीतिश्रमणनिश्रेण श्रावणीयं, भाखरभाखदादिसम्बन्धिवस्त्वभावखभावस्य तमसोऽस्मामिः स्वीकारात्, अथ-"वालोलमिकेलकेतुचपलब्धालः पयोमानुषीभूतानर्गलपांशुलः सलिलचू Page #44 -------------------------------------------------------------------------- ________________ जल्प ॥१८ कुम्भीयमानाचलः । माणिक्योपमदीपकः प्रवहणप्रायालयः फेनिलस्ताराभिस्तिमिराब्धिराप विपुलां पश्यामि । काल तच्छयामिकः ॥९॥” इत्याद्युल्लेखशेखरितास्खलध्यक्षादिबाध्यसाध्यतया कालात्ययापदिष्टं कथमिव स्थादिदं । विद्वदिष्टं ?, मैवं, लेखनीयखनीलिसकृतस्खलमा(ना)यामपि तदरूपितानुमानप्रवर्तनवदिहाप्यनादीनवमनुमान स्त०३ प्रवृत्तेरुपपत्तेः। न च तथापि सत्यग्निशैत्यप्रभृत्यसत्यप्रयोगा(ना)मनिरुद्धप्रसरतया कालात्ययापदिष्टतापदप्रष्ठतामुपेता किमङ्गीकुर्याच्छरणमिति वाच्यं, तत्र तत्रोभयवादिसंमतप्रबलबाधकप्रमाणे परिपोस्फुरीति तस्याः साधारतासम्पत्तेः, प्रकृते तस्याभावात्, नापि जल्पाजिविजये वज्रस्तम्भतां बिभ्रदेतदनुमानमाणिक्यपीठप्रतिष्ठः खरूपासिद्धिरूपासिद्विधाकरणविषयो हेतुरेषः, कदाचिदपि तमसः स्पर्शनस्पष्टताम(न)नुभवात् । "यद्येवं न तदोरुशार्वरतमस्यन्दोलितः श्रीमतश्छिद्रापेतकपाटकापवरके पल्यङ्क आफल्यते । यदा कौतुकमीलिताक्षिकमलबन्दस्य पुंसः करव्यापारादिह नास्ति वास्ति तम इत्युत्पद्यते प्रत्ययः ॥१०॥" न च दीपकदीधितेरिवानुवादीनस्पर्शतया विरलावयवतया च तस्य तदुभयं नोपपद्यत इत्युत्पद्यमानमनवयं, यतो जातु बहलप्रदीपप्रभायामुष्णस्पर्श उपलभ्यते भाखररूपेण च तदनुपलम्भेऽपि तदनुमानं भवेत्, तमसि तु न कदापि स्पर्शोपलम्भो, न च रूपात्तदनुमानं, तस्य प्रमाणेन पराकरणात् । अथ तिमिरं रूपि तदा, भ्रमरमरिचकं चकास्ति(तन्न) कुतः। इति यदि हृदि सन्दिग्धे, त्वदादिरादिश्यते तदिदम् ॥११॥ सर्वे चाक्षुषाः पदार्थाः आलोकसहकृतषिलोचनविलोक्या, यत्र चालोको न स्यात्तत्र भावनिभालनाभावे भ्रान्त्या शुभ्रेतरताप्र %3D Page #45 -------------------------------------------------------------------------- ________________ तीतेरुद्भवः । किं हि प्रकाशेऽपि निमीलितनेत्रस्य प्रलीनदृशो वा भावादर्शने सर्व जगदञ्जनपुञ्जनिमग्नमित्र नावभासते ? किं किंचिद्रूपं चिद्रूपंमन्येन मान्य (न्यं) तमसः ? ततो युक्तिमयौक्तिकमौक्तिकलता माल भारिणी रमणीया साध्यसिद्धिरमणी तिरस्कृतप्रतिकूल जल्पानल्पान्धकारशङ्काविकटकण्टकोद्धारसाधुना साधनाध्वनाऽऽगत्य प्रतिज्ञातुल्यपल्यङ्कनिः शयालुं पक्षप्रियपुमांसं समाश्लिषत । अथ "कुर्बाणे मयि कुम्भिपाटनचिकीः पञ्चाननापादनन्यायात्तावकयुक्तिगुम्फयुगपद्धंसाय तूष्णीकताम् । स्वच्छन्दं यदियत्त्वयोदितमिह प्रामाणिकानामलङ्कर्माणं हृदयानि कार्म्मणयितुं कर्म (कुर्मः) किमप्युत्तरम् । १२ ।” यथा भोः सर्व्वान्तर्व्वाणिपार्वणशर्वरीवरयितुर्बारिपीवरपयोद सोदरं तिमिरमिति या प्रतीतिर्वरीवरीतीति भ्रातरभ्रां तां भ्रान्तं मा तावद - भ्युपगंस्थाः । वेगवत्तरनौवर्त्तिनो धावन्तर्वादिसंवित्तेरिव तस्याः पुरो बाधकाभावात्, प्रक्रान्तप्रयोगस्य चा| द्यापि कूपरकोटिसंटङ्कितगुडखण्डलेहनलेख्यत्वात् । तमोऽतमोऽनीरूपमगन्धत्वान्मरुद्वदित्यस्मात्तद्वाधेतिचेत्, तन्न चित्तं नः प्रीतिमञ्चत्तनुते, यतो गन्धप्रतिबन्धितया बन्धूकृतपम्पाकजम्पाकजं कृष्णरूपं तन्निवृत्तौ निवर्त्ततामिह च पुनरपाकजः कालिमा कथं निवर्त्तेत ? । यथा चानुष्णाशीतस्पर्शः पृथिव्यां गन्धाभिव्याप्ता मारुते तद्विरहितेऽप्यनुभूतेरेव भवताऽभ्युपगम्यते तथा गन्धानधिकरणेऽप्यन्धकारे मेचकरूपमबाधं बोभवद्नुभव| बलादभ्युपेयम् । अथ जल्पाकपाकजयिना पाकज एवानुष्णाशीतस्पर्शो गन्धानुगन्ता कम्पाके तु सोऽपाकजस्तन्न तदभावा (न्न) भविष्णुरिति भणिष्यते, तर्हि श्यामिकापि पाकजैव गन्धप्रतिनिधि (बन्धिनी, तमसि पुनः सौ Page #46 -------------------------------------------------------------------------- ________________ क०ल. स्त०३ पाधिकीति कुतोगन्धापगमगत्वरी(तितुल्यमेवोत्तरम्। नन्वालोकसहायसंगतहगालोक्यस्त्रिलोक्यन्तरे,वर्तिजष्णुः सकलोपि रूपविषयस्तेनान्धकारोऽप्यसौ। श्यामः स्याद्यदि तत्प्रकाशवियुतीभूयाक्षिसाक्षात्कृते, नाक्षत्रं भवतीति बाधक इह प्रत्यक्षताऽसम्भवः। १३॥” इतिचेन्मेदमपि वादी, आलोकविरोधितां दधतः ध्वान्तस्यालोकाभाव एवोद्भविष्णुतयाऽऽविद्धियुतनयनविषयत्वोपपत्तेः, नो चेदालोकाभावोऽपि नालोकविकलाम्बकविलोकनीयः रूपवदभावत्वाद्यथा कुम्भाद्यभाव इति प्रतिभाषणे का गतिः?, हन्तेह पक्षव्यावृत्तसपक्षव्यापकालोकी विरुद्धतालक्षणोपाधिरेवाधिरेवाप्रवाहोत्तारणतरी वरीवर्तीति चेत्तदापद्धान्तसूचितप्रत्यक्षताऽसम्भवप्रयोगेऽप्ययमुपाधिः समानः । नचालोकसचिवमेव लोचनं गोचरयति रूपाणीत्येकान्तः प्रामाणिकान्तःकरणकान्तः, मूषकमार्जारादिचक्षुषामन्धतमसेऽपि वस्तु विषयीकरणात् । ननु भोः कलन्दिकामन्दाकिनीकेलिकलहंस ! कलहं समुत्सृज्य त्वमनुयुज्यसे यदि यथा तद एव तमसि तमालमालाश्याममात|न्नि(ले निमीलितदृशोऽपि कथं तदुपलम्म: ? रूपस्य दृष्टे व्यापारवत्त्वादर्शनात् । सत्यम्, तत्रापि सङ्घटितपक्ष्मपुटमध्यसंटङ्कि स्वतिनिकटमपि तमःपटलमक्षिव्यापारादेवोपलभ्यते संविदांवरेण, कर्मक्षयोपशमस्य वैचित्र्यात् । यस्तु ललाटंतपतपनातपतापितस्यापवरकप्रविष्टस्य कतिपयप्रकाशावयवसंभेदादनीरन्ध्रतां दरिध्रत्यपि तमसि मसिस्तोमसान्द्रतावगमः, स हि मिहिरमहोविहितगुपहतिहेतुको भ्रमः । अत एव क्रमात्तदुपघातविरामे यथावदसौ पश्यत्यपवरकवर्तिनो भावानच्छां च तत्र च्छायां, सा च सान्द्रापि धत्ते पदार्थान्न ॥१९॥ Page #47 -------------------------------------------------------------------------- ________________ तेजसा विरलीकृता । तदेवं रूपव्यवस्थापनप्रपञ्चेन सर्वे चाक्षुषा इत्यादि यद्वादि, तन्निरासः प्रत्यपादि । तथा "ध्वान्ते रूपवती(ति)प्रतिष्ठितवति श्यामत्वसम्यग्धिया, साध्यं बाध्यतमंद्धत्यनुमितिःसत्या यदि स्यादियम् । रूपाभावबलेन तर्हि मरुतोऽप्यस्पर्शवत्त्वानुमा,नैवाकीतिरिवाघजात् स्खलयितुं शक्त्या स्फुरन्ती सती। १४।" ननु यदि तमाश्यामता सम्यग्दृश्या मता तर्हि सादृश्यात्तस्या वयस्या व्योम्नः श्यामिकापि स्यात्तात्त्विकी, न, तस्या वियद्दवीयस्त्वादिना प्रतीयमानतयाऽऽभासरूपत्वात्, अन्यथा किंनासन्नाकाशेऽपि साऽऽलोक्यते । यच्च तत्र तत्रोभयवादीत्याद्युक्तं,न तद्युक्तं,जलोद्युक्तहृद्दर्शितप्रयोगेषु बाधकस्यादित एवोभया(यवा)दिसांमत्यास म्भवात्, किंत्वबाधे बो(बा)धके हेतौ कालातीतत्वं,तच्चेह साधितमले नाधे(घि)तकिं बाधितविषयतांस तव हेतुः। ननु भो! विपश्चित्तम द्रव्यमन्तश्चित्तमतश्चेत्तमःपदार्थस्तदा किंनित्योऽनित्यो नित्यानित्यो वेति “आन्वीक्षिकीपक्ष्मलचक्षुरेषा, साक्षात्रिपक्षत्रिवलीविलासम् । त्वां दक्षतालक्षितमीक्षमाणा, साकासहृद्धीक्षयति स्वकीयम् ।१५।” न तावन्नित्यस्तस्य प्रत्यहमादित्यदीधित्यपास्यमानतादर्शनात् । अनित्यश्चेत्तदुत्पादने किमुपादानं? यदि परमाणवस्तर्हि ते स्पर्शवन्तस्तद्विरहिता वेति प्रकारावन्धकारपराकरणराकामृगाङ्करविकिरणकारिणावुद्यते। तत्र न स्पर्शवन्तस्तजन्यवस्तुनि स्पर्शानुपलम्भात् । अथ भोः पृथुप्रज्ञपार्थिवाः! प्रथन्त एव शीतस्पर्शपित्तापत्तापितस्य मन्दस्य वा तापशान्तये वैद्येन तमसि स्थापना(नो)पदेशाविति चेत्तदन(व)दातं यतःकारागारान्धकारप्रकरभृशभृते नष्टनिद्रोपयोगी, तिष्ठत्यापादकण्ठं सुखहरणखलैः शृङ्खलैवेष्टिताङ्गः । तत्रापि Page #48 -------------------------------------------------------------------------- ________________ ॐ जल्प-1 व्यापितापप्रसरविरलखेदसन्दोहदम्भाजाने पानीयमस्योत्तरति नरपतिप्रौढमानाधिरूढम् ।१६। यदिच तदिरहिताः? तर्हि तामसाः परमाणवो नावयविनमारभन्ते स्पर्शरहितत्वान्मनोवदिति प्रयोगः पिङ्गजट इव ॥२०॥ जागर्ति जनितजागर्जदन्धकारातिविध्वंसः । अथ नित्यानित्योऽन्धकारस्तहीह विधायामसाध्यं विरोधव्याधिनं धन्वन्तरिप्रतिनिधिरपिधीनिधिनि(ननि)धुनीते,तस्मादिविजाचार्यविचार्यमाणमपिन केवलं द्रव्यतया भाव तयापि न संभवतीति भासामभाव एव तमः । तथा सति च तिमिरमाधारमसाधितपूर्विणस्तव कृष्णरूपस्था-IN पनमनिर्जिततेजस्विनस्तजनकसज्जनवजानाति सज्जनसमानः। अत्रोत्तरयामो-यत्तावकं विकल्पवयं तत्र वयं निनित्यानित्यमङ्गीकुर्मः कूर्मगुप्तेन्द्रियाः। समस्तवस्तूनामन्योऽन्यमनन्याभ्यां द्रव्यपर्यायाभ्यां नित्यतानित्यतयोःप्रत्ययनात्, तथाभ्युपगमे च विरोधव्याधिरनुभूतिराकाशकार्यताधिकारे प्रकाशयामासे। ननु भो! श म्भोनभोमूर्तिकीर्तिमालतीमालयार्चयितुमेकचित्तद्रव्यं परमाणवः,पर्यायस्तदारब्धस्तमोऽवयवी, तदुभयस्थैर्यच व्ययरूपं च नित्यानित्यत्वमेवेतिभवभिप्राय हृदयभुवि कुनाभिप्रायं वयमवेमः, किन्तु स्पर्शो नास्ति, तत्की कार्यम् ? सत्यम्, भो भघटातुरापाट् खादकुरुते तव हृदि स्पर्शाभावः।परमेतदर्थं न कदर्थनीयं त्वया च मया चिन्तया चेतः। तत्र तंचितुम(तंवितुमुलं साधयितुमलम्भूष्णुः स्वयमस्ति प्रतिभूरालोकः स हि यदि स्पर्शवांस्तदयमपि भवेन्न चेत्तस्याप्यणूनां तदभावात्तदनारम्भकत्वप्रसङ्गोऽभिमलभङ्गाय भवेत् । यदि च स तत्रास्ति परमनुद्भूतस्तदिहापि तदुत्तरं कुर्वतः किमपि वकं न बक्रीभवेत् । यच्चोतं-तत्र स्पर्शानुपलम्भेऽपि ॥२०॥ Page #49 -------------------------------------------------------------------------- ________________ भाखररूपात्तदनुमानमिति, तद् ध्वान्तेऽपि निर्द्धारितश्यामरूपे समानः, तस्य पुनरुपलभ्यते स्पर्शः "आवासश्रीसरसिजदृशः काव्यकारिप्रसिद्धश्यामच्छायादिमरसभृतां (ताभ्यन्तराले हृदीव | गर्भागारे भृशभृतवति च्छायया संचरिष्णौ, धर्मार्त्तस्याखिलतनुलता शीतलस्पर्शवित्तिः । १७ ।” यथा च मन्दमन्दमरुल्लहरिपरि - | चयः पयःस्पर्शस्याभिव्यक्तिहेतुस्तथा तमःस्पर्शस्यापि स्यात् । नचासौ कारौकसि घनघटितकपाटपाटसम्पुटे संपद्यते, न तेन तिमिरे सत्यपि शीतस्पर्शस्तत्र प्रतीयत इति कथंकारं कारान्धकारप्रकरेण व्यभिचारो य उक्तः स युक्त: ? । एवंच यौष्माकयोः प्रथमान्तिमानुमानयोः खरूपासिद्धिरूपान्धकूपान्तः पातपराहृतो हेतु:, आर्हतानां तमस आरम्भकतास्पर्शवत्ताभ्युपगमादुभयविकलता किम्पाकलताविश्रामादुपतिष्ठत (ते) विचेष्टता चेह दृष्टान्तस्या (स्य) ततः खशिरस्ताडं पूत्कुर्वतामपि भग (भ) वतामगमद्दशमं तमोद्रव्यं। ननु भो निजनिश्चलवचनप्रपञ्चवाचंयमीचे क्रीयमाणवाचालापरप्रावचनिकचक्रवाला ! न खल्व ( स्खलित ) मस्माकमीदृक्कर्म, यदेवमतर्कितं द्रव्यमागच्छेत्, अभङ्गुर भाग्याभोगभूषितभूमानां भवादृशामेव तथा द्रव्यागमसम्भवात् । अतोऽन्यानुविधायितया तद्गुणादि किं विघटते ? ननु द्रव्यमिति चेत्, नायमाशयशयशयनीये शयानः संशयः शोमनः श्रीमतामतानवनवभक्तिभङ्गी भागीरथीस भाजनसञ्जातपातकव्रातशातनोद्भूतशुभकर्मानुभावादुत्तमाङ्गशृङ्गादेरसंभविनोऽपि भवितुमर्हतया तमोद्रव्यतावतारवार्त्तायाः स्तोकत्वात्तथाहि — ननु कस्येदमनुविधायि Page #50 -------------------------------------------------------------------------- ________________ GS जल्प ॥२१॥ किमालोकावारकातपत्रादेः? किंवा खनिवर्त्तकदीपादेः? इत्युद्भवत्युद्भय(टा)दिभिदोर्युगली दोर्युगललीलेव । क०ल. भीमस्य । तत्र नाद्यश्चेतश्चारी विपश्चितां, निश्चलेऽप्यचलादौ तच्छायायाश्चलनोपलम्भात् । द्वितीयोऽप्य स्त०३ तिभृताम्भस्युम्भस्यौदबिन्दुरिव बहिरेव पतति, तेन साकं तस्य प्रतिकूलवृत्तिप्रतीतेस्तद्यथा-पत्रया(यत्रा)ग-1 च्छति सत्युपेत्य निकटं लेहातिरेकोजरीकृ(ज)म्भद्दीपकदम्भमूर्तिमदनो(ना)गोरोचनश्यामला। आलोके निज-13 भोक्तरि व्रजति सत्यायाति च द्राक्तरां पृष्ट्यै कातरमानिनी किमु निशि च्छायेयमच्छेतरा'।१८। विरोधित्वाच्च कथं तदनुविधानोपपत्तिः। नच द्रव्यं न द्रव्यान्तरानुविधाय(यिकान्तपार्थिवद्रव्योपष्टम्भेनाकरजकनकादिरूपस्य जात्यमाणिक्यादिसंपर्किणो वा तेजोद्रव्यस्य स्थितिपतनादिक्रियादर्शनादुक्तंच-"कण्ठालिङ्गनमश्रमं विलुठनं पीनस्तनोरस्तटे,हस्ताम्भोरुहलालनं मृगदृशो गण्डस्थलीमण्डनम् । श्रोणिस्पर्शनमहिपद्मपतनं किं भूयसा तेजसः, सर्व सौख्यमभून्मणेरधिगमे धिक् चन्द्रचन्द्रद्युतेः॥१९॥" तन्नान्यानुविधानादप्यद्रव्यमाशङ्केथाः। यदिच कायद्यापि विद्यापिकीचूतोद्याने हृद्याशङ्कालता वाहकुला(दकुसुमा)वहा तर्हि साऽप्यतर्हि प्रकाश्यैव, परं न्यायनिष्ठुरनरेशानशासनरेखाञ्जन इवान्धकारो द्रव्यतां नातिवर्तिष्यते । एवं सत्यालोक इव सत्यानेकगुणं वसत्यारामादौ तमस्तेन सा(भा)स्करेत्या(च)पि मृषोद्यं न किं ? आचक्ष्यते स्म च रोमाञ्चकचतुरम ॥२१॥ चर्चिकाश्रीराजशेखराचार्यैः-सादित्वान्नाशित्वादालोकतमोऽभिधानराशियुगात् । निजसामग्युत्पादानालो। Page #51 -------------------------------------------------------------------------- ________________ काभावता तमश्छाये । २० । तस्मादालोकावरणादिसहकारिणा सापेक्षं विश्रसापरिणामसम्पन्नपरस्परनैरन्तर्यावस्थानलक्षणबन्धबादरीभूतसर्वशक्तिमयपरमाणुसमूहस्वरूपं स्पर्शरसरूपगन्धपरिणामसंयोगविभागादिगुणं गमनादिक्रियाकारि तेजोविनश्वरं दशमं तमोऽपि द्रव्यं सिद्धिमध्यारोहत् । तथा सति च खैरं सर्ववि(दो वदन्तु विदुरंमन्याः परे वादिनः, खं देवं पुरवैरिणं भवति यत्काणापि राज्ञी निजा । श्रद्धेयः सुधिया तथाविधतया न त्वन्धकारादिकं, द्रव्याप्तव्यभिचारकेवलनवद्रव्याभिधानेन सः। २१ ॥ तमोद्रव्यता-11 व्यवस्थापनस्थलम् ॥ तदेवं दर्शितदिशा विसंवादार्थवादित्वादितिहेत्वादिभ्यः स्फुरदसिद्धिनीरन्ध्रनीरदपटलटलनोज्वलाभिस्तमोभावसाधनप्रत्यलाभिस्तादृग्गोभिस्तावकहृत्कमलमुल्लास्य शर्वसर्वज्ञतादिकुग्रहभृङ्गकुलनिश्चितिः। कासयतात् सत्यस्ता(संन्यस्ता) भारतीधर्मतनुभूवैभाष्याणाभामाभूमीभावुकोऽर्भकभावेपि योगभृतां भवतां| भाषिताभोगशुभोदर्काभ्युपगमाकिंतु“केनेदं सचराचरं विरचयांचक्रे जगत्तत्पुनः,सल्)लोकोत्तरसंविदे(सु)मु-IN कुरे संक्रान्तमालोक्यते । किंयद्वाणि कियन्ति कानि जगति द्रव्याणि चेति त्रयं, वक्तुं त्वद्रसनासुखासनसनासीना श्रुतखामिनी । २२।” यद्येवं तदा प्रियजीवितपदाजिवद्विशदसौजन्ये जागरूकाः श्रीजानकीजानिजनकवढशोधितधरासौधबद्धाकौशल्याभोगवन्तःखकर्णयोः पीयूष यूयं(यूषं) पाययध्वं, यथा न तावदिदं पुरारिपुरुषोत्तमपुराणपुरोगेण केन निष्पादितं, परं तदुपरिवर्तिसर्वकर्त्तव्यकर्मठकर्मप्रेरणादिसहकारिसाहायकसहित Page #52 -------------------------------------------------------------------------- ________________ जल्प ॥ २२ ॥ निजनिजोपादानजं, न जात्वनीदृग्भावं जग्मिवज्जगद्विद्यते । तच्च कर्मैधः स्तोमध तीव्रतपोऽनलकृतमलापो| हजलहलत्कुर्वदात्मैकचामीकरप्रसृमरपुञ्जमञ्जुलविमलकेवलज्ञानवन्तोऽनेके भवस्थाः श्रीसीमन्धरप्रभृतयः, निर्वृताः पुनरनन्ताः करतामरसमुक्तमुक्ताफलव्यक्तमालोकते । तथा धर्माधर्माकाशकालपुद्गलजीवाः षड् द्रव्याणि । तत्र मत्स्यानामम्भ इव गमनप्रवृत्तानां जीवाणूनां गत्युपष्टम्भकहेतुर्द्धर्म्मः १, पशूनां पृथ्वीव स्थाप (यु)कानां तेषां स्थित्युपष्टम्भकृदधर्म्मः २, मोदकानां मणिक इवाऽवगाहकानां धर्म्मादीनामवकाशदं सर्वगमाकाशं ३, वर्त्तनालक्षणो नरक्षेत्रवर्त्ती समयादिबहुभेदः कालः ४, वर्णगन्धरसस्पर्शमानात्मानो विचित्रपरिणामाः स्कन्धदेशप्रदेशाणुभेदाः प्रयोगविश्रसाभ्यां पूरणगलनधर्माण: पुद्गलाः ५, शुभाशुभकर्मकृत्तत्फलभोक्ता वपुः परिमाणः परिणाम्युपयोगरूपः षट्कायो जीवः ६, “रूपं पञ्च विपुद्गला न दधते पञ्चास्तिकाया विना, कालं पुद्गलजीवयुग्मवियुताश्चत्वार एवाक्रियाः । आद्यौ लोकनभोविभू तदपरे भोम (ग) भ्रमव्यापृताः, सन्त्येषु द्वितयेऽन्तिमा इति षडप्यस्तोकवाच्यास्पदम् । २३ ।” अमीषां च सव्यासव्याख्यायामूहप्रत्यूहादिना ग्रन्थान्तरमिव स्यादतो गीतवादित्रयोर्दत्तं सारमिति न्यायेन तत्त्वमाकर्ण्यताम् " शुद्धद्रव्यस्थितिबुधपरीक्षासु लब्धप्रकर्षमुद्रां विभ्रत्रिभुवनजनस्यापि नामानुरूपाम् । सर्वाभीष्टापणपटुकलं टङ्कशालीयमन्तश्चेतोभूमि न्यसितुमुचितं शासनं जैनमेव । २४ । तं जागर्ज्जदनल्पजल्पजलधेरुत्तीर्य तत्तीरसत्ताम्बूलीतुलिताः श्रयंस्त क० ल० स्त० ३ ॥ २२ ॥ Page #53 -------------------------------------------------------------------------- ________________ दनु तास्ताश्चङ्गरकाः स्तुतीः। चञ्चचारुवचाप्रपञ्चनचमच्चक्राणचेतोऽञ्चितो, भद्देशोऽर्भकभारतीति यतिनं मध्येसभं सोऽभणत् । २५। एवं निर्भरशङ्करस्फुरदहङ्कारान्धकारोत्करध्वंसोल्लासिमहःसमूहदशदिक्कुक्षिभरैः कोविदैः। सोत्कण्ठं निजकण्ठकर्णहृद्यालङ्कारतां लम्भितः, श्रीमानप्रथयजने स मुनिपो नामार्थमाणिक्यताम् । २६ । अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः । श्लिष्टस्तत्कृतजल्पकल्पलतिकामैकादिमत्र्यम्बकासिझ्याख्यस्तबकस्तृतीय उद्यांचओ सुधीमण्डलः (न)॥२७॥ इति श्रीतपागच्छशकारयुगोत्तमगुरुश्रीसोमसुन्दरसूरिराजपट्टपाथोधित्रिपथगाप्रवाहोपमश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरतशेखरसूरिशचिपतिशिघ्यरत्नमण्डनकृतायां जल्पकल्पलतायां मण्डनाङ्कः खण्डेन्दुमुकुटैक्यादिखण्डनस्तृतीय स्तबकः समाप्तः ॥ ३ ॥ तत्समाप्तौ समाप्तश्चायं ग्रन्थः । Page #54 -------------------------------------------------------------------------- ________________ जल्प आ संस्था तरफथी मुद्रित थयेल ग्रन्थोनुं सूचीपत्र. ॥२३॥ स्त०३ ग्रन्थाङ्क नामादिक. मूल्य-रुपिया. | ग्रन्थाङ्क. नामादिक. मूल्य-रुपिया. १ श्रीवीतरागस्तोत्रम्-श्रीमद्धेमचन्द्राचार्यकृतमूलं, प्र- । काओ सहित अने मूलमात्र पछाडीजूदुं लेवामां आवेल छ.० ६ ० भानन्दसूरिकृतविवरण, श्रीविशालराजशिष्यकृताव- । ७ श्रीकल्पसूत्रवृत्तिः-श्रीविनयविजयोपाध्यायकृतचूरिसमेतम्. ___ 'मुबोधिका' टीकासहिता. • १२ ० २ श्रीश्रमणप्रतिक्रमणसूत्रवृत्तिः-पूर्वाचार्यकृता . १६ ८ श्रीवन्दारवृत्त्यपरनाम्नी श्राद्धप्रतिक्रमणसूत्र३ श्रीस्याद्वादभाषा-श्रीमच्छुभविजयगणिकृता . १६ वृत्तिः-श्रीमद्देवेन्द्रसूरिवररचिता. ४ श्रीपाक्षिकसूत्रम्-आमां पाक्षिकसूत्र अने खामणापर ९ श्रीदानकल्पद्रुमः-परमगुरुश्रीसोमसुन्दरशिष्यश्रीश्रीयशोदेवसूरिकृतटीकानो समावेश करवामां आवेल छे० ६० जिनकीर्तिसूरिकृतः, ५ श्रीअध्यात्ममतपरीक्षा-न्यायाचार्य-श्रीयशो वेचाता मलवान ठेका'विजयप्रणीतटीकायुक्त, अन्ते छुटुं मूल पण प्रसिद्ध मगनलाल वेलचंद, शेठ देवचन्द लालभाई करवामां आवेल छे. पुस्तकोद्धार फण्ड ऑफिस.. ६ श्रीपोडशकप्रकरणं-श्रीहरिभद्रसूरिकृतमूलं, अने Cशेठ देवचन्द लालभाई धर्मशाला, श्रीमद्यशोभद्र, तथा श्रीयशोविजयजीकृत बन्ने टी यडेखा चकलो. सुरतसिटी. S4 ॥२३॥ Page #55 -------------------------------------------------------------------------- ________________ - इदं पुस्तकं मुम्बय्यां शाह नगीनभाई घेलाभाई-जव्हेरीबजार इत्यनेन निर्णयसागरमुद्रणमन्दिरे कोलभाट वीभ्यां २३ तमे गृहे बा. रा. घाणेकरद्वारा मुद्रयित्वा प्रकाशितम् । Published by Shah Naginbhai Ghelabhai Javeri, No 325 Javeri Bazar, and Printed by B. R. Ghaneker, at N. S. Press, 23 Kolbhat Lane, Bombay. Page #56 -------------------------------------------------------------------------- ________________ इति श्रीमदनमण्डनकृता श्रीजल्पकल्पलता समाप्ता। इति श्रेष्ठि-देवचन्द्र लालभाई-जैनपुस्तकोद्धार-ग्रन्थाङ्कः 11.