SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ मानेन चेत्तद्प्येतदन्यदेति विकल्पद्वयं भीमधनञ्जयद्यमिव मध्येजल्पयुद्धं युष्मद्युक्तिदुर्धरदुर्योधनध्वजिनीविध्वंसायोद्धरं धावति । यद्येतत्तदास्मात्कृतबुद्ध्युत्पादस्तस्माचैतदनुमानमिति-"युक्तिजालजलभाजिदुर्द्धरैः, साधनोरुमकरैः करालिते । मजयन्नजनि जल्पनीरधौ, लोहनौवदितरेतराश्रयः ॥ २२॥" अथान्यत्तदा कामुकमिथुनेनेव मदननन्दनेनेव मत्सरच्छुरितहज्जनेनेव च सवदोषाभिष्वङ्गिणा किमनेन क्लीबविकल्पेन, तदेवेह भवता बतावतार्यताम् । यद्वा तेनापि किं नापितक्षुरेणेव सर्वजनकेशकल्पनपरेण, तत्रापि हेतोः कालात्ययापदिष्टत्वादिदोषाणां सुसाधत्वादित्यबुधवधूराद्धौदन इव सिद्धः सोऑसिद्धस्तन्न तुरीयभिचातुरीतुरीययशोऽङ्कुशव्यूतिसमये सहकृत्वरी शैवकोविदकुविन्दानाम् ४ ।। हो! जल्पाकपाकशासन ! सकला अमी विकल्पा मदकलविकल्पकल्पाः कल्पान्तेऽपि नाल्पाया अप्यभिलषितसाध्यसिद्धिसुन्दर्या विलासान्दोलतल्पाः स्युः, ये खल्वास्माकीनस्मेरमनःकम्रकमलाङ्कमधुकरकृतानुकाराः सद्यो दह्यमानकुवायुच्चाटोत्कटचटत्काराः कार्यत्वप्रचारास्ते केऽप्यन्य एव विद्यन्ते । तत्कुतो रङ्केण रत्नशङ्काचान्तचेतसा चाकचिक्यकाशकानिकाचशकलानीव त्वया तेऽपलप्यन्ते। ननु प्रकटयामस्तानचेलतनोपादानत्वमभूतभावित्वं प्रागसतः स्वकारणसत्तासमवाय इत्यादय इति । सत्यं सन्त्यमी अपि तद्भेदाः, परं. दुष्टतया नैतेऽपीष्टं दातुमीशते । यतः पूर्वस्तावहुःशात्रव इव निशातदेशासिद्धिनिष्कोशासिद्विधाकृतः जगदन्तर्गतदेहिसन्दोहोत्पादुकसंवेदनसमुदायस्याचेतनोपादानत्वाभावात् समवायिकारणं धुपादानमुच्यते,
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy