________________
|सर्वथा प्रत्येतुमनहत्वात्, दृश्यन्त एव हि परप्रतारणप्रवणान्तःकरणाः पुमांसोऽनेकेऽप्यन्यथा विचिन्त्य अन्यथापि प्ररूपयन्तो, यथा तरङ्गिणीतीरे गुडशकटं विपर्यस्तं धावत धावत भो डिम्भका:! इत्यादिवादिनः। नाद्येतरोऽपि रोपितप्रीतिवल्लीकस्तर्कविल्लोकहृदयालवालान्तराले, यतस्तत्किमस्ति प्रमाणं? येन जगन्निमाणकृदुपलम्भोऽवाबोभोत् । न तावत्प्रत्यक्षं, तस्येन्द्रियार्थसंनिकर्षोत्पादुकतयातीन्द्रियविश्वविधातृग्रहणासमर्थत्वात् । ननु जागर्ति जगतीजनुःसृजोऽनुमापकमनुमानम्-“यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाम्भोज भो! जगदीशदार्शतमतव्योमान्तविद्योतकम् । विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषच्चेत:कैरव भैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि ॥ ८॥” तच्चेदम्-भूधरधरायो, बुद्धिम तुकाः, कार्यत्वात्, यद्यतत्तहुद्धिमद्धेतुकं, यथा घटः । कार्याश्च भूधरधरादयस्तस्माहुद्धिमद्धेतुकाः । यश्च तेषामुदयमाने बुद्धिमान् हेतुः स भगवान् परमेश्वर इति । न तावद्धतुमुद्धतासिद्धतादन्दशूकी दुष्टापि दंष्टुमीष्टे । माद्यद्वाद्यनिलाऽनोद्यास्मदनुमानोद्यानमध्यस्थपक्षवानीरावनीरुहविहितविश्रामत्वात् । नाप्यसौ निष्पनकलमकेदारवद्धत्ते दुर्डरविरुद्धतां, सबलसपक्षवृत्तिप्रगुणगोफणोल्ललद्युक्तिकल्लोलगोलकदुराकलनीयत्वात्२। नच व्यभिचारपिशाचेन च्छलयितुं कचिच्छक्यः, सच्छायेऽनुमानवनेऽस्मिन्नस्माकमाकासितसाध्यसाधनायोत्तरसाधकतया विपक्षासम्बन्धशिखाबन्धबन्धुरितत्वात् ३ । नापि कालात्ययापदिष्टतादुष्टताताडकया ताडयामासानः, बाधकाभावबाणात्तदुच्छेदनच्छेदकतानुकृतजानकीजानिकत्वात् ४ । नापि दुरुद्धर