________________
प्रमाणं यदि तदा ध्वनिरनित्यः प्रमेयत्वादित्यस्येवानैकान्तिकत्वं सम्यगस्यापि स्यात् । अथाप्रमाणं तत्कथं सप्तपदार्थग्रन्थकारो मृषैवाचीकथदाकाशस्तु घटाकाशादिभेदभिन्नोऽनन्त एव इति, अप्रमाणोपचारघटितानां घटाकाशादीनामप्रमाणत्वे नभसस्तद्भेदभिन्नतानुपपत्तेः । यदि ह्यप्रमाणं तुरङ्गशृङ्गादयः सन्ति तज्जगदङ्गणे किमङ्गीकुर्वन्ति कस्यापि भावस्य भेदताम् । अथ - "मान्तः सुरतां पुरा कृतवता केनापि किं नार्पया - मासे दर्पणदर्पणप्रगुणितं पण्याङ्गनाया धनम् ? । इत्थं यादृशमाविभर्त्ति गगनं संस्थानितां तत्कृतां हेतुस्तादृगुपैतु जातु चतुरानैकान्तिकत्वं तु नः ॥ १३॥” इतिचेद्वरमकृथाः, सर्वथाऽसंसहिष्णुर्यदङ्गीचकर्थोपचरितां व्यभिचारिताम् । अथचोररीचरीकारिषीष्ट त्वया मुख्यवृत्त्यापि सा, यतो यत्पर्वतादिवर्त्तिष्णु संस्थानं तत्किं गुणो गण्येत क्रिया वेति - "कक्षीकृतद्विपक्षीकः, सोम साम्यधरः स मे । किं नु हंसो न मासो न, व्यासो वाचां सुधामुचाम् | ॥१४॥ ततश्च यदि गुणस्तदा पञ्चविंशतिगणेयेषु गुणेषु कः स इति वाच्यं? परमाणुप्रचयोपजनितं परिमाणमिति चेत्तर्हि साधुना साधनेनामुनार्द्धमण्डितापक्षलक्ष्मीपक्ष्मलाक्षीजल्पकेली दीक्षितानां तन्तनीत्युत्तरङ्ग (विरङ्गम्) धूर्जटिजगज्जनकतासाधनार्थप्रयुक्तानुमानोदन्वदासीनपक्षपुण्डरीकाक्ष कुक्षिनिक्षिप्तभुवन भावाभोगान्तर्भूतप्रभूतप्रतिभापरिमलरूपादिपदार्थेषु परमाणुप्रचयनिष्पन्नपरिमाणापेतव्या हेतोरप्रवृत्तेः । अथ बुद्ध्यादिगुणाः स्वद्वेषाव्यूतिनीत्या निजनिजाश्रयोत्पादेऽनर्थान्तरतयोत्पादुकाः पृथक् पक्षीकर्तुं न योग्या इति गिर्यादिगुणिग्राम एव पक्षस्तत्र च समस्ते हेतोः प्रवृत्तेः कथमीषदप्युक्तदोषानुषङ्ग इतिचेत्तदा शशकसङ्काशदोषदूराटने पुरः प्रा