SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ तीतेरुद्भवः । किं हि प्रकाशेऽपि निमीलितनेत्रस्य प्रलीनदृशो वा भावादर्शने सर्व जगदञ्जनपुञ्जनिमग्नमित्र नावभासते ? किं किंचिद्रूपं चिद्रूपंमन्येन मान्य (न्यं) तमसः ? ततो युक्तिमयौक्तिकमौक्तिकलता माल भारिणी रमणीया साध्यसिद्धिरमणी तिरस्कृतप्रतिकूल जल्पानल्पान्धकारशङ्काविकटकण्टकोद्धारसाधुना साधनाध्वनाऽऽगत्य प्रतिज्ञातुल्यपल्यङ्कनिः शयालुं पक्षप्रियपुमांसं समाश्लिषत । अथ "कुर्बाणे मयि कुम्भिपाटनचिकीः पञ्चाननापादनन्यायात्तावकयुक्तिगुम्फयुगपद्धंसाय तूष्णीकताम् । स्वच्छन्दं यदियत्त्वयोदितमिह प्रामाणिकानामलङ्कर्माणं हृदयानि कार्म्मणयितुं कर्म (कुर्मः) किमप्युत्तरम् । १२ ।” यथा भोः सर्व्वान्तर्व्वाणिपार्वणशर्वरीवरयितुर्बारिपीवरपयोद सोदरं तिमिरमिति या प्रतीतिर्वरीवरीतीति भ्रातरभ्रां तां भ्रान्तं मा तावद - भ्युपगंस्थाः । वेगवत्तरनौवर्त्तिनो धावन्तर्वादिसंवित्तेरिव तस्याः पुरो बाधकाभावात्, प्रक्रान्तप्रयोगस्य चा| द्यापि कूपरकोटिसंटङ्कितगुडखण्डलेहनलेख्यत्वात् । तमोऽतमोऽनीरूपमगन्धत्वान्मरुद्वदित्यस्मात्तद्वाधेतिचेत्, तन्न चित्तं नः प्रीतिमञ्चत्तनुते, यतो गन्धप्रतिबन्धितया बन्धूकृतपम्पाकजम्पाकजं कृष्णरूपं तन्निवृत्तौ निवर्त्ततामिह च पुनरपाकजः कालिमा कथं निवर्त्तेत ? । यथा चानुष्णाशीतस्पर्शः पृथिव्यां गन्धाभिव्याप्ता मारुते तद्विरहितेऽप्यनुभूतेरेव भवताऽभ्युपगम्यते तथा गन्धानधिकरणेऽप्यन्धकारे मेचकरूपमबाधं बोभवद्नुभव| बलादभ्युपेयम् । अथ जल्पाकपाकजयिना पाकज एवानुष्णाशीतस्पर्शो गन्धानुगन्ता कम्पाके तु सोऽपाकजस्तन्न तदभावा (न्न) भविष्णुरिति भणिष्यते, तर्हि श्यामिकापि पाकजैव गन्धप्रतिनिधि (बन्धिनी, तमसि पुनः सौ
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy