SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ जल्प ॥१८ कुम्भीयमानाचलः । माणिक्योपमदीपकः प्रवहणप्रायालयः फेनिलस्ताराभिस्तिमिराब्धिराप विपुलां पश्यामि । काल तच्छयामिकः ॥९॥” इत्याद्युल्लेखशेखरितास्खलध्यक्षादिबाध्यसाध्यतया कालात्ययापदिष्टं कथमिव स्थादिदं । विद्वदिष्टं ?, मैवं, लेखनीयखनीलिसकृतस्खलमा(ना)यामपि तदरूपितानुमानप्रवर्तनवदिहाप्यनादीनवमनुमान स्त०३ प्रवृत्तेरुपपत्तेः। न च तथापि सत्यग्निशैत्यप्रभृत्यसत्यप्रयोगा(ना)मनिरुद्धप्रसरतया कालात्ययापदिष्टतापदप्रष्ठतामुपेता किमङ्गीकुर्याच्छरणमिति वाच्यं, तत्र तत्रोभयवादिसंमतप्रबलबाधकप्रमाणे परिपोस्फुरीति तस्याः साधारतासम्पत्तेः, प्रकृते तस्याभावात्, नापि जल्पाजिविजये वज्रस्तम्भतां बिभ्रदेतदनुमानमाणिक्यपीठप्रतिष्ठः खरूपासिद्धिरूपासिद्विधाकरणविषयो हेतुरेषः, कदाचिदपि तमसः स्पर्शनस्पष्टताम(न)नुभवात् । "यद्येवं न तदोरुशार्वरतमस्यन्दोलितः श्रीमतश्छिद्रापेतकपाटकापवरके पल्यङ्क आफल्यते । यदा कौतुकमीलिताक्षिकमलबन्दस्य पुंसः करव्यापारादिह नास्ति वास्ति तम इत्युत्पद्यते प्रत्ययः ॥१०॥" न च दीपकदीधितेरिवानुवादीनस्पर्शतया विरलावयवतया च तस्य तदुभयं नोपपद्यत इत्युत्पद्यमानमनवयं, यतो जातु बहलप्रदीपप्रभायामुष्णस्पर्श उपलभ्यते भाखररूपेण च तदनुपलम्भेऽपि तदनुमानं भवेत्, तमसि तु न कदापि स्पर्शोपलम्भो, न च रूपात्तदनुमानं, तस्य प्रमाणेन पराकरणात् । अथ तिमिरं रूपि तदा, भ्रमरमरिचकं चकास्ति(तन्न) कुतः। इति यदि हृदि सन्दिग्धे, त्वदादिरादिश्यते तदिदम् ॥११॥ सर्वे चाक्षुषाः पदार्थाः आलोकसहकृतषिलोचनविलोक्या, यत्र चालोको न स्यात्तत्र भावनिभालनाभावे भ्रान्त्या शुभ्रेतरताप्र %3D
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy