SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ क०ल. स्त०३ पाधिकीति कुतोगन्धापगमगत्वरी(तितुल्यमेवोत्तरम्। नन्वालोकसहायसंगतहगालोक्यस्त्रिलोक्यन्तरे,वर्तिजष्णुः सकलोपि रूपविषयस्तेनान्धकारोऽप्यसौ। श्यामः स्याद्यदि तत्प्रकाशवियुतीभूयाक्षिसाक्षात्कृते, नाक्षत्रं भवतीति बाधक इह प्रत्यक्षताऽसम्भवः। १३॥” इतिचेन्मेदमपि वादी, आलोकविरोधितां दधतः ध्वान्तस्यालोकाभाव एवोद्भविष्णुतयाऽऽविद्धियुतनयनविषयत्वोपपत्तेः, नो चेदालोकाभावोऽपि नालोकविकलाम्बकविलोकनीयः रूपवदभावत्वाद्यथा कुम्भाद्यभाव इति प्रतिभाषणे का गतिः?, हन्तेह पक्षव्यावृत्तसपक्षव्यापकालोकी विरुद्धतालक्षणोपाधिरेवाधिरेवाप्रवाहोत्तारणतरी वरीवर्तीति चेत्तदापद्धान्तसूचितप्रत्यक्षताऽसम्भवप्रयोगेऽप्ययमुपाधिः समानः । नचालोकसचिवमेव लोचनं गोचरयति रूपाणीत्येकान्तः प्रामाणिकान्तःकरणकान्तः, मूषकमार्जारादिचक्षुषामन्धतमसेऽपि वस्तु विषयीकरणात् । ननु भोः कलन्दिकामन्दाकिनीकेलिकलहंस ! कलहं समुत्सृज्य त्वमनुयुज्यसे यदि यथा तद एव तमसि तमालमालाश्याममात|न्नि(ले निमीलितदृशोऽपि कथं तदुपलम्म: ? रूपस्य दृष्टे व्यापारवत्त्वादर्शनात् । सत्यम्, तत्रापि सङ्घटितपक्ष्मपुटमध्यसंटङ्कि स्वतिनिकटमपि तमःपटलमक्षिव्यापारादेवोपलभ्यते संविदांवरेण, कर्मक्षयोपशमस्य वैचित्र्यात् । यस्तु ललाटंतपतपनातपतापितस्यापवरकप्रविष्टस्य कतिपयप्रकाशावयवसंभेदादनीरन्ध्रतां दरिध्रत्यपि तमसि मसिस्तोमसान्द्रतावगमः, स हि मिहिरमहोविहितगुपहतिहेतुको भ्रमः । अत एव क्रमात्तदुपघातविरामे यथावदसौ पश्यत्यपवरकवर्तिनो भावानच्छां च तत्र च्छायां, सा च सान्द्रापि धत्ते पदार्थान्न ॥१९॥
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy