________________
चान्ये जमति चेतनाले कृतार्थाः परं भोगायतनभाज एव । अवेतनास्तु तदभावेऽपि नाकृतार्थाः । कृतार्थाकृतार्थत्वयोरजडस्यैव धर्मत्वात्, तन्नोपाधिबाधया व्याप्यत्वासिद्धोऽयम् ॥ गम्यास्तिजल्पः ॥
ततः- “दुष्टोपाधिविधिन्तुदा विधुरितो दुर्युक्तिभूर्युक्तिभूच्छायच्छिद्भवदुक्तहेतुशशिनस्तेजोधुनानोऽधुना । | विद्वन्मानसनीरजन्मसुकृतोल्लासस्तदभ्यन्तरे, हेले हेलितुलां वहेत न कथं हेतुर्महेच्छो मम ? ॥ ११ ॥ एवं च पञ्चतयदोषविशेषदुष्टाद्धेतोरतो (5) गिरिशविश्वविधानसिद्धेः । या तावके मनसि तिष्ठति कामना सा, नारी नपुंसकपतिप्रसवस्पृहाभा ॥ १२ ॥ अस्ति स्वस्तिकरस्तमस्तिरयिता श्रीमन्दिरनो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः । विष्टस्तत्कृतजल्पकल्पलतया शेषाब्धिसंख्योदयद्दोषाख्य स्तबको बभूव सुधियामाद्येतरो मण्डनम् ॥ १३ ॥
इति श्रीतपागच्छशृङ्गारयुगोत्तमगुरुश्रीसोमसुन्दर सुरिपट्टपाथोधित्रिपथगाप्रवाहोपमश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरत्नशेखरसूरीन्द्रशिष्याणुरत्नमण्डनकृतायां जल्पकल्पलतायां मण्डनाङ्कः शेषहेतुचतुर्दोषोदयो नाम द्वितीयः स्तबकः ॥ २ ॥