SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ जल्प क० ॥१०॥ कौशेयांशुकखण्डमण्डितमरुहूतकणकिङ्किणि, ब्राह्मीकेलिनिकेतकेतनधृतश्रीः केयमिन्दूजवला । निर्याप्ति ब्रुवतः कलध्वनिमुनेरेषा मुखाम्भोरुहादस्याधिरबिम्बरुक्कबरिता दन्तद्युतां धोरणी ॥१॥ इत्यादिजल्पवलोककलोककदम्बदर्शनानन्दमुत्पादयन्मुनिपुरन्दरः पुनरिदमुदीरयामास । मा सर्वेषामेकत्र विकल्पजल्पनादुद्वेगो भूदिति भो दक्षप्रतीक्ष्य! कार्यलक्षणपरीक्षणमुपेक्ष्यापि ब्रूमहे । महेशजन्यतां जगतः साधयता त्वया कार्यवादित्यत्र कार्यमात्रमभिप्रेतं तद्विशेषे(षो वा)। शेषो वादी यदीहाथै स्यात्तदाप्यनयोः पक्षयोरेकमपि कक्षीकुर्वाणो न समर्थः साधयितुं साध्यम् । साध्यन्तःकरणं करोति खल्वादिमः, कार्यमानं हि कुलालादितुलालातृकर्तृमात्रस्यैव साधकं स्यात् न तु लोकोत्तरबुद्धिमद्धेतोः, तेन सार्द्ध हि तस्य व्याप्तिर्वासवसूरिणापि दुःसाध्या (धा), साधारणाच साधनादसाधारणसाध्यसिद्धावस्मदादिनित्यमत्यादिमानात्मवादीश्वरवदित्या| दिप्रयोगाद्वनिस्पृशामपि नित्यनिखिलार्थनिष्ठज्ञानादिसिद्धिदुर्निवारा। वारान्निधेःसेतुनेव तस्याः प्रमाणादिना स्खलना स्यादेवं, न च वचनीयं यं हेतुं भवभिमतेऽपि प्रमाणादिबाधा दर्शिता दर्शयिष्यतेच पुरः। पुरवैरिणं द्विषद्धे मुने ! त्वमिदमभ्यधाः, परं यथा विवादाध्यासिता भावाः कस्यचित्प्रत्यक्षाः प्रमेयत्वात्करमौक्तिकवत् इत्यत्र प्रमेयत्वमात्रादशेषवित्पुरुषविशेषो वः सिद्ध्यति, तथा कार्यत्वमात्रादलौकिकबुद्धिमद्धेतोः सिद्धिनः कथं न भविता भविता तावदाक्षरमेतदुद्ध ! साधनाव्याप्तिसाध्यसमव्याप्तिव्यतिरेकव्याप्तिकयोग्यदेशावस्थितत्वो-| पाधिबाधितत्वात् अप्रयोजकेन प्रमेयत्वहेतुना कार्यत्वहेत्वाभासस्य तुलनादन्धान्धवाहाविलगनन्यायो
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy