________________
नतरामेष दोषः। सत्यम् । किन्तु विश्वेश्वरो बिरज्झलोज्झितप्राकृतकुन्तलपर्यायं कुरुते न वा? यद्याचस्तदाकथमभावोऽपि न पक्षान्तःपातुकः? शङ्करकरणीयसकलकार्याणां पक्षेण निजकुक्षौ निक्षेपणात, तस्य चाभावरूपत्वात्, द्वितीयश्चेत्तदा भङ्ग इव सर्गोऽपि स्वखहेतुभ्य एव भविष्यति तत्को विशेषस्तस्य दृगविषयीकृतस्यापि हेतुत्वकल्पनया ।ततः-"गोविन्दोऽनुयुनक्ति मुक्तिगमनेच्छूनां मनः कीदृशं?, संबोधं मतिमोदनस्य सुधिया पकस्य सम्पाद्यते । किंभूतां सुभटः करोत्यरिघटा दान्तप्रदानावृतान्यार्थ तद्वद हेतुरापदियता का तावकोऽसिद्धताम् ॥ २५॥" प्रश्नोत्तरम् । “अस्ति खस्तिकरस्तमस्तिरयिता श्रीनन्दिरत्नो रविस्तत्पादप्रणये परायणतया कोकायते यः कविः। आयस्तस्कृतजल्पकल्पलतया क्रोडीकृतः साधनासिद्ध्याख्यस्तबको बभूव बहुलामोदः सुधीमण्डनः ॥ २६ ॥"
इति श्रीतपागच्छशृङ्गारयुगोत्तमगुरुश्रीसोमसुन्दरसूरिपट्टपाथोधित्रिपथगाप्रवाहोपमधीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिश्रीरबशेखरसूरीन्द्रशिघ्याणुरत्नमण्डनकृतायां जल्पकल्पलतायां,
मण्डनाङ्कः साधनासिद्धिनामाद्यः स्तबकः॥१॥