SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ व्यञ्जयांवभूवे खल्वेतेन । तेन बाष्पधूमयोः केनचिदंशेन सादृश्येऽपि कुतश्चिद्विशेषाभूमो धूमध्वजमवबोधयेन्न बाष्पादिस्तथा पृथिव्यादीतरकार्यत्वयोरपिकिश्चिदन्तरमङ्गीकार्य मनीषिणा। मनीषिततदङ्गीकारे तु-"हेतुः साध्यं गमयितुमलं किन्तु दृष्टान्तवर्ती, न स्याद्यदा नृपतिरपि न दे विधातुं समर्थः। क्रीडामग्नप्रसृतकरणीन्द्रेषु वातायनेषु, लिग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु॥२॥” स(श्र)मस्यामे(मि)षुधिमिव द्वितीयमपीयता युक्तिपृषत्कमुक्तं वादिसुभटो भजेदिष्टजयवैभवः। भवतु वा यथाभवदभिप्रायं हेतुः किं साध्यविपर्ययसाधनाद्विरुद्धतां दद्धदसौजायते युष्मद्यशोरजनिजानिदर्शः। निदर्शनीकृतघटानुसारेण तत्कदृष्टवपुरादिविशेषवन्तं हि विश्वविधातारमसौ प्रत्याययत्यस्माननु । ननु भोस्तपोष्टपेटकटङ्कारितकीर्तिघण्टाकप्रकटतामटत्यबाह्यबालता भवतः केवलकार्यतावशदृष्टान्तीकृतघटनिष्ठकार्यादियुत्कर्तृजन्यतालक्षणान्यधमापपा(मतोपपा)दनेन विरुद्धतां कथयतः। यतः-"वेणिः कृष्टकृपाणवद्यदि तदापयेत किं भीष्मता? वक्र पर्वमृगाङ्कवद्यदि तदापयेत किं श्यामिका तन्व्याः काश्चनवद्वपुर्यदि तदापद्यत किं ताड्यता ? ॥३॥” गृहीतमुक्ताक्षरजल्पः॥ दृष्टान्तस्थस्यानिष्टस्य धर्मस्य प्रसञ्जनं चोत्कर्षसमाना जातिरेव स्याद्यदुक्तम्-"उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती।" तंत्र यदा वादिना गदितेऽनुमाने प्रतिवादी दृष्टान्तस्य धर्म कश्चित्साध्यस्य धर्मिण्यापादयेत्तदो१द्वितीयस्तबकारम्भात् । २ असमस्तपदजल्पारम्भः ।
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy