SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ सर्वथा प्रत्येतुमनर्हत्वात्, दृश्यन्त एव हि परप्रतारणप्रवणान्तःकरणाः पुमांसोऽनेकेऽप्यन्यथा विचिन्त्य अन्यथापि प्ररूपयन्तो, यथा तरङ्गिणीतीरे गुडशकटं विपर्यस्तं धावत धावत भो डिम्भकाः! इत्यादिवादिनः। नाद्येतरोऽपि रोपितप्रीतिवल्लीकस्तर्कविल्लोकहृदयालवालान्तराले, यतस्तत्किमस्ति प्रमाणं ? येन जगन्निर्माणकृदुपलम्भोऽवाबोभोत् । न तावत्प्रत्यक्षं, तस्येन्द्रियार्थसंनिकर्षोत्पादुकतयातीन्द्रियविश्वविधातृग्रहणासमर्थत्वात् । ननु जागर्ति जगतीजनुःसृजोऽनुमापकमनुमानम्-"यच्चण्डद्युतिमण्डलं तुलयति स्मेरीकृतास्मदृशाम्भोज भो! जगदीशदर्शितमतव्योमान्तविद्योतकम् । विद्यागन्धनिधानमानमधुपस्तोमानपेतद्विषचेत:कैरवभैरवस्फुरदनुच्छिष्टार्थयुक्तिछवि ॥ ८॥” तच्चेदम्-भूधरधरायो, बुद्धिमहेतुकाः, कार्यत्वात्, यद्य-| तत्तहुद्धिमद्धेतुकं, यथा घटः । कार्याश्च भूधरधरादयस्तस्माहुद्धिमद्धेतुकाः । यश्च तेषामुदयमाने बुद्धिमान् हेतुः स भगवान् परमेश्वर इति । न तावद्धतुमुद्धतासिद्धतादन्दशूकी दुष्टापि दंष्टुमीष्टे । माद्यवाद्यनिलाऽनोद्यास्मदनुमानोद्यानमध्यस्थपक्षवानीरावनीरुहविहितविश्रामत्वात् १। नाप्यसौ निष्पनकलमकेदारवद्धत्ते दुर्द्धरविरुद्धता, सबलसपक्षवृत्तिप्रगुणगोफणोल्ललद्युक्तिकल्लोलगोलकदुराकलनीयत्वात्२। नच व्यभिचारपिशाचेन च्छलयितुं कचिच्छक्या, सच्छायेऽनुमानवनेऽस्मिन्नस्माकमाकासितसाध्यसाधनायोत्तरसाधकतया विपक्षासम्बन्धशिखाबन्धबन्धुरितत्वात् ३ नापि कालात्ययापदिष्टतादुष्टताताडकया ताडयामासानः, बाधकाभावबाणात्तदुच्छेदनच्छेदकतानुकृतजानकीजानिकत्वात् ४। नापि दुरुद्धर-1
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy