SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ जल्प ॥ २ ॥ भागीरथीसङ्गमगलत्पातकपङ्कपूरपौरपदपातुकनाक्लोकश्रियस्तन्मस्तकासीनमुक्तिपुर्याश्च कासीनगर्याः । इति चेत्तदा - " त्वत्तीरे तरुकोटरान्तरगतो गङ्गे ! विहङ्गो वरं, त्वन्नीरे नरकान्तकारिणि वरं मत्स्योऽथवा कच्छपः । नैवान्यत्र मदान्धसिन्धुरघटासङ्घघण्टारणत्कारत्रस्तसमस्त भूपललनालब्धस्तुतिर्भूपतिः ॥६॥" इत्यादिवाक्यव्रजव्यञ्जितात्यन्तरतिभिरपि युष्मादृशैः किमिति पर्यहारि दूरेण दूरणसमीरणनिभागीयमाना भागीरथी । हन्त भोस्तपोधनकिशोर ! - "पीयूषद्रवकुण्डनिर्गतबृहज्जम्बालपिण्डोजवलं, भुञ्जानो दधि माहिषं किमगमस्त्वं जाड्यमुद्रामरम् ? । किंवा तावकहृन्निकेतनमिदं वस्त्रप्रक्लृप्तानन-द्वारा बन्धनशङ्किताऽपशकुना विद्या विवेशैव न ? ॥७॥” येनैतावदप्यविश्रान्तश्रुतश्रेणिकठिनपाठकुण्ठितरसनः सेवितसंविदाकरोऽपि न विदाङ्करोतु भवान् यदुत-सर्ववस्तुनः स्वीकारपरिहारयोः कारयिता स एव स्वेच्छाकारी परमेश्वरो, येन जघटे जगज्जङ्गमस्थावरम् । ननु अस्मदस्मयमनोमनोरथपूरणदिविजघटे येन जघटे जगदितिवाक्ये वादिगजघटे भारिभिर्युष्माभिः कर्णगोचरीकारिते चिरचरिकरिष्यमाणायाः प्रामाणिकाचार केलेः प्रस्तावनेयमासीदिति दितिजंगुरुणाप्यवर्णनीयां मुदं वयमनुबोभूयामहे । ततः कथयत यं कञ्चिद्विष्टपसृष्टिपरसूर्यकाष्र्ष्ट परमेश्वरं स किं वृद्धपरम्परोपदिष्टः प्रमाणपथपथिकतां प्रापितो वेति ? पक्षयुगलोज्ज्वलो जल्पकेलीमरालो विमलमवगाहते मानसं सुमनसाम् । तत्र प्राचीनो मनोविनोदाय नो जायते, वृद्धानां रागाद्यपगुणागारतया सम्यगुपदेशदानासम्भवेन तदुपदिष्टार्थस्य १ कामघटे २ सुरगुरुणा क० उ० स्त० १ ॥२॥
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy