________________
त्वात् । कार्याः किल ये भावास्ते वेधोपलभ्यन्ते । केचिद्धीमता जनिताः कुम्भगवाक्षाग्रतःसराः । केपि च तद्विपरीतास्तुणतस्पभृतयः । तेषां पक्षीकाराव्यभिचारौकस्त्वमेवं चेत् तदेदं पाथो रेखायते सर्वत्र व्यभिचारविषयस्य पक्षगतीकर्तुं शक्यत्वेनापव्यभिचारतया मेघादि क्षणनश्वरं सत्त्वाद्विद्युद्वदित्यादिप्रयोगप्रकारौघस्यापि साधकत्वानुषङ्गात् ॥ गुप्त(रघुप्रथम)श्लोकजल्पः॥ ___ अथ तत्रापि तपस्यमानमस्तक इव चक्षुरगोचरीकृतः शङ्कर एव रचयितेति चेत्, घटेऽपि स एवादृश्यः पिपासितपान्थपङ्किरिव कर्ताऽस्तु न कुलालः। तथा च कथं तदृष्टान्तेन सुजातसुतस्येवातिमात्रेहितस्य(तस्यः) कर्तुः सिद्धिः। कुलालं कुरुक्षेत्रमिव कुर्वन्तमनेकशी विलोकितवन्तः कथमपरं कल्पयामः? इति चेत्, तदा दृष्टकर्तृकाणां शङ्करणाऽकरणात्कथं येन जघटे जगदिति गीः सुघटा? घटास्थानीव सारकासार इव सनोदकः संस्तेषां कर्ताऽन्यषां च मुख्यतयेति चेन्न, स हि यदि समर्थस्तर्हि धनवानिव सर्व खेन कुर्यात्, यदि वा श्रुतदेवतेवेशानस्तदा घटादीनिव पर्वतादीनपि कैश्चित्कारयेत्, नो चेत् सामथ्र्यैश्वर्ययोरेकतराभावः सुवैष्णवयोरिव स्यात्, अथ कृपणानिव स्वतः समुद्भवतस्तानपि नोदयेच्चेत् तदानीमन्यथाभवदुत्पादतयापनिद्रनेत्राणामिवाऽखापेक्षिणामपिविष्टपतिष्ठत्पदार्थानांनोदनां विधानःस नोन्मत्तादतिरिच्यते॥श्लेषजल्पः॥
किश्च-ईदृकिरीटस्थानयोरगोचरचारितायां किमस्याभावो विद्यादिप्रभावोऽस्मदाद्येतद्वैगुण्यं दवीयस्तादि वेत्येतावन्तो विकल्पाः कीर्तिकन्येमित्थंकरणसमये चतुर्मङ्गलतुलामङ्गीकुर्वते । तेषु प्रथमे तावदीढगा