SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ न,सोऽपि यद्धीः स्तनन्धयी ॥७॥" किञ्च-प्रयोजनेनापि तस्य भाव्यं करुणया, क्रीडयाऽथवा निग्रहानुग्रहविधि-IN त्सया।-"तेषु त्रिषु त्रिनेत्रस्थ, कृपया यदि तक्रिया। सृजेत्तच्छुभमेवेदं, भुवनं नोदितस्तया॥८॥” कामनुकम्पांच सूचयतिच्छागपुरोगाणां पुरीषादेर्वर्तुलीक्रिया|तन्न तत्करणे कारणं कणिकापि करुणाया। अभिधास्यते भिद्वितीया, सा वेगवदापगापूरप्लाव्यमानमानवकुशकाशावलम्बनप्राया। डिम्भस्येव हि क्रीडासु वर्त्तने तस्य जायेतार्यता सव्यपाया । अपरं च यत्तस्य पूर्यते रसः क्रीडायाः। सम्पद्यन्ते च प्राणान्ताः प्राणिनामपायाः। तदपनयति सिन्धुरः स्कन्धस्य कण्डूयां, पतति च मन्दिरं यातयामायाः । नापि तृतीया विधाऽभिधानीया।। स हि यदि निग्रहानुग्रहौ करोतीश्वरत्न्या । तर्हि रागद्वषोदयेच संसारसागरे मजनाजायते सदृशीकृतानव्याः | (न्याः)(तायाः)तबः प्रयोजनपक्षो दुःसाधसाध्याऽसाधनप्रवयाः। वाक्यान्तवर्णक्यजल्पः॥ अथ कर्मप्रेरणयेत्यङ्गीकुरुषे । तदाबंदाऽसारकोरटोपकरणन्यायेन कर्मणामेवेशत्वमुपकर(कुरु)ते । ननु तेषां तदायत्तोत्पत्तिकतया कथमिदं व्याकुरुषे ? मैवं, यदि ह्यसौ कर्माणि कुरुते। हन्त तर्हि सर्वेषामपि शुभान्येव कुर्यात्, परोपकारैकव्रतत्वादुत्तमानाम् । अथ न भूपो भृत्येभ्यः कर्तव्यानुरूपं फलं कुर्वाणः खस्योत्तमतामपाकरोति, एवं शुभाशुभकृतानुसारेण प्राणिनां कर्माणि कुर्वन्नपर्णापतिरपीति चेत् ? कृतं काचपिच्येन, भूपतिश्च समर्थश्चेत्, (साहि यद्यङ्गीकरोति सामर्थ्य तर्हि) सर्वैः शुभमेव कारयेत्।नो चेदवश्यमसामर्थ्यमसा१ यालक्षणः।
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy