SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ जल्प ॥१४॥ धुतांवा स्वीकुर्वीत । चरमोऽपि दुःखाचरीकर्ति वः, तदीयखभावस्य नित्यैकतया सर्गसंहारयोश्च परस्परविरुद्धतयैकतरस्यैव करणापत्तेः। अन्यथा तयोरेकतां खभावस्य भिन्नतां वा गलेपादिकयापि त्वम(गी)कारिब्येत । तन्न वनस्पत्यादीनपि स एव करोतीति प्रतीतिकरम् । वनतर्वादेरपि तेनैव करणं चमदचीकरचतुरचेतः"शस्येतराऽतः करवीरमालानुकारिणीयं व्यभिचारवत्ता । परासनार्थ(य) प्रगुणीकृतं ते, पर्यस्क रोत्तस्करतुल्यहेतुम् ॥९॥” एतेनाग्नेरनुष्णत्वे साध्ये द्रव्यत्ववत् कालात्ययापदिष्टतयापि हेतुमवचेक्रीयते चतुरचक्रम् । वनवनस्पत्यादावाबालगोपालं कर्तुरसाक्षाचरिक्रियमाणत्वात् । असदृशस्य तस्य च कर्तृतायाः पराचकृवत्त्वात् । तत:--"चेतो वः कमलाकरोति किमिह प्रश्नोत्तरे के वद(व्याकुरु)प्राक् पुण्यापगमेन का किमकरोल्लक्ष्मीवतोऽप्यालये । श्रीरामस्य समागमोऽवनिमुवा लङ्कास्थया किं कृतस्त्वद्धेतुः क्रियते स्म काननवनस्पत्यादिभिः कीदृशः ॥१०॥” (कालात्ययापदिष्टः)॥ कृगधातुजल्पः॥ ___ अथ कथमथर्वेव निर्वेदकोरण्यभण्यताम्बरीभर्तुः हेतुर्न भावत्कः, तत्कालप्रतिकूलसाधकहेत्वन्तरतुरगवेगोपढौकितप्रौढप्रकरणसमतानिर्मिथोन्माथत्वात्तथाहि-गिरीशो नेच्छाकारी, अशरीरित्वाद, योऽशरीरीस नेच्छाकारी यथा संसारपारीणः, अशरीरी चोरीचरीकरांचक्राणो गिरीशः, तस्मान्नेच्छाकारी इति प्रतियोगः शङ्करसकाशात्रिलोकेच्छाकारित्वं बकदलनदन्ताबलोदसनलीलयोदलीललत् । आः साधु साधुषु धुरन्धरो- वादिसिन्धुरमदग्रासमधुकरो भवानिदमबम्भणीत् । गिरिशं नःखामिनमिह धर्मिणं निर्मिमाणस्य तवापि तद् ॥१४॥
SR No.600085
Book TitleJalpkalplata
Original Sutra AuthorN/A
AuthorRatanamandanji
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1912
Total Pages56
LanguageSanskrit
ClassificationManuscript
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy