________________
जल्प
॥७॥
च विकारित्वे तत्करणायापरेण बुद्धिमद्धेतुना शङ्करेण भाव्यं तस्याध्यपरेणेति विपुलच्यो मतलव्यालम्बिधूमचल्लीवास्खलितमुल्लसन्ती सती दुर्निवारानवस्या न वः स्थापयेत्तस्ववित्त्वम् । अधिकारित्वे तु जगद्घटन कल्पकोट्यापि न घटामटाव्यते । सन्न तृतीयोऽपि शङ्कराणां प्रियङ्करः । अथ सुभटकोटिनिर्द्धाटनप्रकटितप्रतापोष्म भीष्मादिवीरप्रकाण्डखण्डितदोर्दण्डताण्डवपाण्डव निघनेच्छुदुर्योधनशल्यसेनापतिपदन्यासन्यायेन ज
ल्पाकूपारपारमापणप्रवणायमानप्रथमपक्षत्रयाशक्यव्यवस्थापनस्थाणुजगज्जनकतासिद्ध्याशावशात्तुच्छोऽपि
तुरीयः प्रकारः शरणीक्रियते, तदापि मण्डपाद्याच्छादकच्छदाचपाकरणकूपादिखननोत्सेचनादिभिराकाशं कृतमिति व्यपदिश्यमानतया कृतमेतदिति प्रतिभोत्पादकत्वस्य नभस्यपि भावाद्धेतुः खल्वसौ बहुलोहरक्षाविरहितः स्यादनैकान्तिकतावेतालबनितान्तजनितात्तङ्कच्छलापन्नः । मन्वाकाशकृतत्ताप्रतीतिः कृपाणीव समारोपखरोपलापातकुण्ठीकृता प्रयोगपुरुषस्य प्राणभूतं हेतुं हन्तुं न शक्तेति चेत् प्रेमपात्रप्रियतमापुरः प्राञ्जलोऽयं प्रलापः । अतस्मिंस्तदध्यवसायो हि समारोपो यथा - "बोधो नौयानवृक्षस्यदविरहिलयस्वमराज्येन्द्रजालव्योमोर्षीमेलमायोल्मुकरयमृगतृष्णाम्बरश्यामिकानाम् । अभ्रोच्चानुच्च भावाग्रहमिलनवियद्वालबप्पीहपाथोलोहित्यद्धन्दुशङ्खप्रमुखकपिशताशुक्तितारोत्तराणाम् ॥ १९ ॥” न च कृपादाचकृतमाकाशं कृतत्तया प्रतीयते, तत्र तत्र तदाद्याकारविशेषितत्याकाशस्यैव करणात् । द्रव्यस्य पूर्वपर्याधपरिहारणपुरस्सरोत्तरपर्यायस्वीकारणं हि करणं, ततो यथा मृद्रव्यं स्यासकोशादिरूपतां परित्याज्य चटरूपतामापादितं घटः कृत इत्युच्यते,
क० ल०
स्त० १
119 11