Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 41
________________ बहोः कालक्षेपस्य सम्भवाद्वंहीयसापि कालेन न सर्गावसायः। भल्लः । न च तस्य स्यादपुः, पुरा मेततयुक्यास्य प्रतिषेधनेन । वज्रम् । दैतीयीकपक्षे तु दोषो न कश्चिदू, असौ धन्यनाकसद्धत् सङ्कल्पात्तान् करोति, तथोररीकरणे त्वस्य व्यापकता व्यर्था । जलकमलम् । सर्वगत्वे च सोऽशुचिषु सर्वदुःखेषु श्वभ्रादिषु सञ्चरिष्णुःाटा प्रसज्येत, तथानिष्टं वः । स्थलकमलम् ॥ चित्रवैचित्र्यजल्पः ॥ ___ अथ सर्वज्ञत्वाभावे यथोचितोपादानकारणाचनभिज्ञतयाऽनुरूपकार्योत्पत्तिर्न स्यादितिहेतोः संविदात्मना विष्टपव्यापकः सोऽभ्युपगम्यते । तदाऽस्माकमपि निरतिशयसंविदात्मना परमपुरुषो विश्वत्रयं क्रोडीकरोतीति भवतां सिद्धसाध्यतापद्यते । ननु ज्ञानात्मनापि विश्वव्यापनेऽशुचिरसास्वादादीनामप्युपलम्भः सम्भ-| वतीति युष्माकप्यजनिष्ट प्रकृष्टमनिष्टम् । नन्वेकस्याः खल्वीषाया व(य)ने द्वितीया स्वयमेव व्यूयतयिति न्यायात्तुल्याभ्युपगमतयास्माकमप्रियं तव निरुपाधि प्रथममापतेत् । ज्ञानं चास्मन्मते अप्राप्यकारितया स्वस्थानस्थमेव विषयं परिच्छिनत्तीत्यशुच्यादिषु तदप्राप्तेरेतदप्रियं प्राप्यकारिज्ञानवादिनां परेषामेव शीर्षे पतेत् । किञ्चअशुचिज्ञानमात्रेण तद्रसाखादानुभूतौ दामदुकूलेन्दुवदनाचन्दनादिचिन्तनमात्रादेव देहिनस्तत्सुखमनुभवि-| ष्यतीति तदवाप्तिप्रयत्नस्तेषां मोघतामनुते ॥ संहितवाक्यद्वयजल्पः॥ | विन्नाणं निअणेअवत्थुविसरं गंतूण नूणंतरा, बाणो वेरिगणं रणमिव परिच्छिदेइ एवं पुणो। तुम्हाणं वयणं मणावि न मणं पीणेइ तस्सप्पणो, धम्मत्तेण हु निग्गमो कह बहिं सुक्खाइआणपि व? ॥२॥ तस्स य निस्स स्तेषां मोघतामनुतमलेन्दुवदनाचन्दनादिमिवादिनां परेषामेव शीर्षे पतत

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56