Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 49
________________ भाखररूपात्तदनुमानमिति, तद् ध्वान्तेऽपि निर्द्धारितश्यामरूपे समानः, तस्य पुनरुपलभ्यते स्पर्शः "आवासश्रीसरसिजदृशः काव्यकारिप्रसिद्धश्यामच्छायादिमरसभृतां (ताभ्यन्तराले हृदीव | गर्भागारे भृशभृतवति च्छायया संचरिष्णौ, धर्मार्त्तस्याखिलतनुलता शीतलस्पर्शवित्तिः । १७ ।” यथा च मन्दमन्दमरुल्लहरिपरि - | चयः पयःस्पर्शस्याभिव्यक्तिहेतुस्तथा तमःस्पर्शस्यापि स्यात् । नचासौ कारौकसि घनघटितकपाटपाटसम्पुटे संपद्यते, न तेन तिमिरे सत्यपि शीतस्पर्शस्तत्र प्रतीयत इति कथंकारं कारान्धकारप्रकरेण व्यभिचारो य उक्तः स युक्त: ? । एवंच यौष्माकयोः प्रथमान्तिमानुमानयोः खरूपासिद्धिरूपान्धकूपान्तः पातपराहृतो हेतु:, आर्हतानां तमस आरम्भकतास्पर्शवत्ताभ्युपगमादुभयविकलता किम्पाकलताविश्रामादुपतिष्ठत (ते) विचेष्टता चेह दृष्टान्तस्या (स्य) ततः खशिरस्ताडं पूत्कुर्वतामपि भग (भ) वतामगमद्दशमं तमोद्रव्यं। ननु भो निजनिश्चलवचनप्रपञ्चवाचंयमीचे क्रीयमाणवाचालापरप्रावचनिकचक्रवाला ! न खल्व ( स्खलित ) मस्माकमीदृक्कर्म, यदेवमतर्कितं द्रव्यमागच्छेत्, अभङ्गुर भाग्याभोगभूषितभूमानां भवादृशामेव तथा द्रव्यागमसम्भवात् । अतोऽन्यानुविधायितया तद्गुणादि किं विघटते ? ननु द्रव्यमिति चेत्, नायमाशयशयशयनीये शयानः संशयः शोमनः श्रीमतामतानवनवभक्तिभङ्गी भागीरथीस भाजनसञ्जातपातकव्रातशातनोद्भूतशुभकर्मानुभावादुत्तमाङ्गशृङ्गादेरसंभविनोऽपि भवितुमर्हतया तमोद्रव्यतावतारवार्त्तायाः स्तोकत्वात्तथाहि — ननु कस्येदमनुविधायि

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56