Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तथा नमोऽपि भूगर्भगततावन्मात्र पार्थिवपरमाणुसङ्घातसंयुक्ततापर्यायं परिहार्य खमकैरनेकैः कूपाथभिधेयं तद्विभक्ततापर्यायमङ्गीकारितं कृपादितया कृतं व्यपदिश्यते । ननु द्रव्यतोऽत्यन्तव्यतिरिक्ताः पर्यायास्तत्कथं तेषां करणे तस्य कृतत्वं तात्त्विकम् ? इति पेस, तस्मात्तेषां हि कथंचिदपार्थक्यमेव दृष्टमष्टम; अन्यथा यथा टथुषुम्भोदराद्याकाराः कुम्भस्य तथा स्तम्भस्यापि किं म षोभुवति: उभयत्र भेदाविशेषात् । भिन्ना अपि समवायतः कुम्भेन सम्बद्धाः ? इति चेसदापि ते कुम्भेमेव स्तम्भेनापि सम्बद्धाः प्रसज्येरन्, समवायस्य व्यापकत्वादेकत्वाच प्रत्यासत्तिविप्रकर्षाभावेन सर्वत्र तुल्यत्वात् । एवं च भेदैकान्तवादिनः पर्यायाणां नियतैः सम्बन्धिभिः सम्बन्धासिद्ध्या जगदासमं जगदासमञ्जस्यमेव प्रसासज्यते । तथा सति मौक्तिकमालान्तरालमिलद्दवरकवद्वि| विधपर्यायानुयायिनो द्रव्यस्य कथंचित्तदभेद एवं सुन्दरः । तथा चावाचि प्राचीनाचार्यै:- “द्रव्यं पर्यायवियुक्तं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा, दृष्टा मानेन केनचित् १ ||२०||” अतः सिद्धमवाधितमम्थरकरणम् । अथ कूपादौ कृतत्वमन्यत्र वाकृतत्वमित्येकस्मिन्निर्देशे चाकाशे कृतत्वाकृतत्वयोः कथमवस्थितिः ? परस्परविरोधादिति चेत्, मैवम्, यतो योऽयं कृतत्वाकृतत्वयोर्विरोधव्याधिरुद्भाव्यते स तावदिह न सहानवस्थानरूपः सम्भवी, तस्य परस्परविरोध्युभयधर्मनिर्मिताऽध्यासत्वात्, सम्भवे वा चिरकालमेकत्र जलतडिज्जलधिवाडवव्यवाडवस्थितिनिदर्शनप्राज्य भैषज्यप्रतिक्षेपणीयत्वात् । अथ परस्परपरिहारस्थितिलक्षणः, स च स्वरूपनिष्ठो व्यावर्ण्यते लब्धवर्णैस्ततो नैकं विरुद्धद्विस्वभावं स्यादेव भाषसे, तदपास्तप्रभावं, एकस्यापि प्रस्तरादि

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56