Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 26
________________ जल्प ॥९ ॥ तच सर्वसंविदामात्मैव । न चासावचेतन इति वाच्यं, तस्य चैतन्याभावे पाषाणप्रायतापत्या जगति जीवाजीवव्यवस्थाविलोपात् यदि च प्रायः समग्रप्रामाणिकग्रामणीप्रमाणीक्रियमाणे यौष्माकीणमतेऽप्य-1 चेतनश्चित्तया परिणमन्नभ्युपगंस्यते तदा-"भूतानां निचयो विचेतनतयाचान्तोऽपि चर्यते, काये सत्यसुचेतनाप्रलपतां लोकायितानामपि । रङ्गादमृदङ्गमङ्गलमिलद्धोकारबद्धोधमा, नतिष्यन्ति गृहाङ्गणे युवतयो वर्धापनं कुर्वताम् ॥ २३ ॥” नन्वात्मा खयमचेतन एवं किन्तु चेतनासमवायेन चेतन: स्यात् इति चेत्तर्हि स भवत्वन्यथा यादृशस्तादृशः परं यदा काचित्तस्माचिदुत्पद्यते तदा समेतचेतनादेवेति मन्तव्यं, अन्यथा हि कारणानुगुणं कार्यमिति योऽङ्गीकारः स्यात्तस्य परिहारः । वद च त्वमेव धवलतन्तुवातव्यूतं वसनं कचन मेचकमचकात्? तन्नाचेतनाच्चिदुत्पादोन्याय्यस्तन्नाद्योऽनवद्यः अभूतभावित्वं चानैकान्तिकताङ्कितं, प्रागुक्ताकाशकार्यतावत्पर्यायरूपेण नित्यपदार्थेष्वपि तद्भावात् उक्तं च-"नच नाशोऽस्ति भावस्य, नचाभावस्य सम्भवः । भावाः कुर्युर्व्ययोत्पादौ पर्यायेषु गुणेषु च ॥ २४॥" तार्तीयीकोऽपि तवाति निवर्तयितुमियति न स्फूत्ति, योगजुषामशेषकर्मक्षये पक्षान्तःपातिनि तस्याप्रवृत्तया पक्षकदेशासिद्धः, कर्मक्षयो हि साधनन्तत्वेन प्रध्वंसाभावरूपो यदाहुः-"सादिरनन्तः प्रध्वंसाभाव" इति । न च तस्य सत्ताखकारणयोः समवायोऽस्ति, वस्तुतापत्तेः। अथ कथं निश्चिकयिथेदम् ? यदुताभावोऽपि पक्षे न्यक्षेऽपि, नहि कोऽपि प्रविश्य मनो द्रष्टुमीष्टे, तस्मादो बहुवुधाकूतबोधवन्धुरबुद्धे योरसरहितो भासुरस एवास्माभिरिह धर्मी मिर्मीयते स्मेति स्मेरतामेति

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56