Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
जल्प
मित्यादि तदित्युतबाधितत्वेन व्याप्यत्वाध्योः किं लक्षणं
क०ल. स्त. २
|तावता किं चक्रं नो मनो मन्दाययेतेति चेत्, वपुरभावे स्वयं वपुरकरणं तत्करणायापरपरमेशकल्पनाऽनवस्थापारवश्यमित्यादि तदित्युत्तरयामः । ननु भो! क्षुल्लकमतल्लिकागल्लफुल्लिकाभिलोकहल्लोचनानि चिराय चित्रीयन्ताम् । परं कृतार्थत्वोपाधिबाधितत्वेन व्याप्यत्वासिद्धतां यातो हेतुरयं साध्यविपर्ययं साधयितुं कथdमोजायिष्यते? सत्यमेतत्, तथापि व्याप्यत्वासिद्धतोपाध्योः किं लक्षणं कमलीयते हृद्यनालीके? येन तौ सिद्धपुरुषाश्लिष्यमाणानलीकव्याप्तिपाञ्चालीकमनीये मदनुमानहम्यकहेतुहरिचन्दनस्तम्भे कटरि काष्ठकीटायेते ॥ नामधातुजल्पः॥
हन्तेदं तत्तथाहि-दृष्टान्तप्रभवेनोपाधिना बाधितो हेतुरप्रयोजकापरपर्यायो व्याप्यत्वासिद्धः १, साधनाव्यापकः साध्यसमव्याप्तिरुपाधिः, यथा-पृथिव्यादि सकर्तृकं, कार्यत्वाद्, घटवदित्युक्ते शरीरिजन्यत्वं १२, हेतौ सत्युपाधेरभावः साधनाच्याप्तिस्तत्र दृष्टान्तः पक्षः ३, साध्योपाध्योरन्योऽन्यव्यापकत्वे साध्यसमव्याप्तिस्तत्र सपक्षः ४, उपाध्यभावे साध्यभावो व्यतिरेकव्याप्तिस्तत्र विपक्षः ५, स एव च तदाभासो यदि व्यतिरेके प्रत्युपाधिर्यथा अस्यैव यच्छरीर्यजन्यं तदकर्तृकं यथा व्योमेत्युक्तेऽकार्यत्वं ६, उपाधिलक्षणं भो विचक्षणवरेण्य ! क्षतक्षुण्णमेव न्यक्षमेतल्लक्षणं, परमकृतार्थत्वं कथमुपाधिः अशरीरित्वे सत्यकृतार्थस्य कस्याप्यभावेन साधनाव्याप्ती निदर्शनादर्शनात्, ईश्वरस्य तु विश्वरचनातः क्रीडायेकतरार्थकल्पनयाऽकृतार्थत्वेऽसदादेरिव शरीरित्वादिप्रसङ्गोजर्गलः । नच तत्कल्पना न्याय्या, प्रागेव तन्निरासस्य प्रतिपादनात् । ये

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56