Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 37
________________ भ्युपगमावश्यकरणीयत्वात्, इतरथा साहसाङ्कविवेकावासितकेवलकविनिकेतबन्धुरायां धारायां कवि - ताविकलस्येव हेतोराश्रयासिद्धिर्बोभूयादिति चेत्, तद्विचारितं चारुतां चक्षुरीति । न खल्वभ्युपगम्यमान एव धर्मीति मतिमतामेकान्तो वरीवर्त्ति । तमोऽभावरूपतासाधनादावनभ्युपगतस्यापि तमः प्रमुखधर्मिणः प्रयोगात् । हेत्वाश्रयासिद्धता तु प्राय उभयत्रापि तुल्याक्षेपोत्तरा वेवेति । न च वयमीश्वरं नाभ्युपजङ्गन्मः । ततो यूयं यमभिममनामासिवांस ईश्वरं स किलेन्दुकलाकालीकपालादिविकलतासकलवि (प)तादिखरूपः परमात्मैव । तं च सुपरिप्रतिजाज्ञति जैना अपि । (नच) विवावदद्यन्ते नो । पुनस्तत्रासम्भविनो भुवनविधानादिकियद्धर्मा एव । तत् कथमयमाश्रयासिद्धतामाशेश्रीयात् ॥ चेक्रीयितंक्रियाजल्पः ॥ ननु विद्यमानेऽपि वपुषि ज्ञानेच्छाप्रयत्नानां समस्तानां व्यस्तानां वाऽभावे कुम्भकारादावपि कर्त्तृतां नोप| लम्भगोचरयामः । तेनादौ कार्योत्पादककारणकलापाकलनं, ततः करणेच्छा, तदनु प्रयत्नस्तदनन्तरं फलनिष्पत्तिरित्यमीषां त्रयाणामेव कार्यकर्त्तृत्वे सर्वत्राव्यभिचारात्कर्तृत्वसामध्यामङ्गमनुपयोगितयाऽजागलस्तनायते । तत्कुतोऽशरीरित्वहेतुमन्वयव्यतिरेकाघटनया कूटमप्रचकर इति चेत्, मुशलाग्रधियः कुशला ईदृग्गरा शृङ्गारयन्ति खजिह्वां नतु कुशाग्रधियः । यतो हन्त हे तार्किकंमन्य ! विना देहं तस्य ज्ञानादयो वन्ध्यास्तनन्धयायन्ते तेषामुत्पत्तावस्य मुख्यनिमित्तकारणत्वात्, अन्यथा मुक्तात्मन्यपि कस्तानुत्पद्यमानानर्गलयेत् । अथ प्रमथनाथः प्रथमं स्वं वपुषा सनाथ इति पश्चात्तेन सहकारिणा जगत्कर्तुमोङ्कारयतीत्ये

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56