Book Title: Jalpkalplata
Author(s): Ratanamandanji
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
तदितरस्तु प्रदेशस्ततो व्योमाचपरमाणुजतया सप्रदेशं स्थानतु सावयवमिति कुतस्त्यः साधनव्यभिचार इत्याचक्षीथास्तथापि-"दोषोल्लासषशप्रसृत्वरतमस्काण्डे दिदेदीपया-मासानोऽवयवप्रदेशविषयोभेदस्त्वया दीपकः । अस्माभिः परमाणुतः प्रकटतामामेष्यमाणं पुरो, दुर्वारव्यभिचारदीर्घरसनं निद्ध्याय विध्यास्यति N॥११॥ यतः पूर्वं तावदम्बरादेरपि विभागाः समग्राः परमाणुमया एष सन्ति न खलु कज्जलचूर्णपूर्णसमुद्वकवनिरन्तरपुद्गलपूरिते लोके स कश्चिन्नभसो विभागोऽस्ति यो निर्भरं न बिभराम्बभूवेऽणुभिः। तत्कथं न हेतुरष व्यभिचरिष्णुः। अथ गम्भीरगीस्तरङ्गभङ्गीसागरः सङ्गृणीषे यदुत-परमाणुमया इत्यस्य परमाणुनिष्पन्ना इत्यर्थः प्रथयत्यस्माकमन्तःकरणाम्बुरुहान्तरे बालरोलम्बलीलायितम् ,न च नित्यतया वियदादेर्विभागास्तथाभूता भवन्ति, किन्त्वसमवेतानेकजातीयपरमाणुपूर्णास्तेन स्तेन इव नैष दोषः साधनध्वंसहेतुः । तदा तु पर्यन्ताषयवतयाभ्युपगतेऽप्येकस्मिन्नणौ परमाणुनिष्पन्नताया अभावाव्यापकत्वं भवादृशवादिशतेनापि नापाकतु प्रषोभूयत इत्यभूदवयवलक्षणस्थास्य व्यभिचारः । द्रव्यसमवायिकारणमवयव इति चेत्तल्लक्षणं वक्ष्यते तदपि समवायस्य पुरो निरासिष्यमाणतया द्रव्यसमवायितानुपपत्तेरसम्भवभवत्परिभवम् । ततो व्यभिचरितभिन्नलक्षणतया प्रदेशाधयवयोरभेदेन वियदादेः सप्रदेशत्वमङ्गीकृत्यापि सावयवत्वसाधनव्यभिचारमनपाचेक्रीयाश्चक्राणश्चतुरचक्रे चतुर्थव्रतविलोपकामानुपशमोपाख्यानमाख्यापयसीति-"जातो यस्य विभागभिन्मयगडः पीडावहोऽसम्भवाङ्गुष्ठाव्याप्तिदृढाङ्गलीयुगलतः प्रस्फोटनिष्पीडितः । मत्पीयूषमयोक्ति

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56