________________
[है० ५.४.१७.] त्रयोदशः सर्गः।
१४३ क्षमे वा पुरा किं भवानेवमस्मासु ब्रूयाचेष्टिप्यतेथ वा । इत्यत्र "अश्रद्धा." [१५] इत्यादिना सप्तमीभविष्यन्त्यौ ॥
न श्रद्दधे न च सहे लवलीदर्शयिष्यति ।
हेमन्ते किंकिलेत्युक्तिदोर्जन्यव्यञ्जिका तव ॥ ६३॥ ६३. अहो कनकचूडेत्येवंविधा तवोक्तिदीजन्यव्यञ्जिका । के. त्याह । न श्रद्दधे न च सहे यदहो दमनक । किंकिलेति वाक्यालंकारे प्रसिद्धिद्योतने वा । पुष्पितत्वेन लोके प्रसिद्धाः पुष्पिता इत्यर्थः । लवलीहेमन्ते भवान्दर्शयिष्यति कालत्रये प्रयोगोयं न कदापि दर्शितवान्न च दर्शयिष्यति न च दर्शयतीत्यर्थ इति ॥
भार्या मेत्र पणो यन्न श्रद्दधे न क्षमेप्यहम् ।
अस्ति लोके स यो मां हि विवादेन विजेष्यते ॥ ६४ ॥ ६४. अत्र लवलीपुष्पादर्शने भार्या मे पणो यदि हेमन्ते पुष्पिता लवलीन दर्शयामि तदा भार्यां हारयामीत्यर्थः । यद्यस्माद्धेतोहि स्फुटं यो मां विवादेन विजेष्यते जितवाजेष्यति जयति वा स लोके जगत्यस्तीदमहं न श्रद्दधे नापि क्षमे न कोप्यस्तीत्यर्थः ॥
न श्रद्दधे न च सहे लवलीदर्शयिष्यति हेमन्ते किंकिल । न श्रद्दधे न क्षमेप्यहमस्ति लोके स यो मां विजेप्यते । अत्र "किंकिल." [१६] इत्यादिना भविष्यन्ती ॥
अथाहमबु(ब)वं चैवं न श्रद्दधे न च क्षमे । मिषेत्कोपि मया जातु गवी वा विवदेत यत् ॥ ६५ ॥
१ सी डी न क्ष.
१ सी डी न किं. २ ए सी डी °ली हेम'. ३ डी भार्या हा. ४ वी °ति स. ५ सी डी मे नैको.