________________
[है. ५.४.३४.] विंशः सर्गः।
५१. अथ वाहो महापुरुष कनीयान्द्वयोर्मध्येत्यन्तं युवा कनिष्ठो बहूनां मध्येत्यन्तं युवा चातितरुणतम इत्यर्थः । असि त्वम् । सोतिधार्मिकत्वेन प्रसिद्धः स्वयं साक्षान्मनुमन्वृषिः । को मनुरित्याह । कनीयान् द्वयोरल्पयोर्मन्वोर्मध्येत्यल्पोथ वा कनिष्ठो बहूनां मनूनां मध्येत्यल्पो वा । स्वायंभुव १ स्वारोचिष २ औत्तम ३ तामस ४ चाक्षुषे ५ रैवत ६ वैवस्वत ७ सूर्यसावर्ण ८ ब्रह्मसावर्ण ९ रुद्रसावर्ण १० धर्मसावर्ण ११ दक्षसावर्ण १२ रोच्य १३ भौत्याख्या[१४] हि चतुर्दश मन्वर्ष(न्वृष)यः आद्याः सप्त भूता अन्त्यास्तु भाविनः । तेषु त्वं लघुतरो लघुतमो वा मनुर्भवसीत्यर्थः । यतः । कीदृक् त्वम् । एवं कृपालुत्वादिगुणैरघं पापं कनयन्त्रल्पीकुर्वन् । अथो तथा धर्म कनयन्युवानं कुर्वन् । अमुमेवार्थमर्थान्तरन्यासाभ्यां द्रढयति । यविष्ठस्य यवीयसश्च । संबन्धमात्रेत्र षष्ठी । माषाणामश्रीयादित्यादिवत् । बहूनां यूनां द्वयोर्वा मध्येतियुवानं नरं को न यवयेावानं नाचक्षीतेत्यर्थः । तथाल्पिष्ठजनेल्पीयसि च विषये को नाल्पयेत् ।।
कनयन् । कनिष्टः । कनीयान् । अत्र “अल्प." [ ३३ ] इत्यादिनाल्पयूनोः केन्वा ॥ पक्षे । अल्पयेत् । अल्पिष्ठ । अल्पीयसि ॥ यवयेत् । यविष्ठस्य । यवीयसः ॥ केकिरवं छन्दः ॥
श्रेष्ठे ज्येष्ठे श्रेयसि ज्यायसि त्व
य्यात्मोत्लेशान्द्राक्छ्यामि ज्ययामि ।
१४
१सी ठेय.
१बी नुर्मान्वृ. २ सी यानल्प. ३ ए भुवः १ स्वा. ४बी व ५ ऐराव'. ५ए खतः ७ सू. ६ बी र्यस्यव'. ७ सी रोद्रच्य. ८ ए तमो. ९ए रमन्या. १. ए °यवष्ठ. ११ बी सी योर्मध्ये . १२ बी न युव. १३ सी कण्वा । प. १४ ए °ल्पीयिसि.