Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 627
________________ ६१६ व्याश्रयमहाकाव्ये [कुमारपालः] पालानिवौक्षान्प्रतिवादिनोजयदुर्जाह्मणान्ब्राह्मरहस्यवेद्यसौ । सौषामवद्राययुतोपि धीयुतोतिहैतनामो जितचाक्रवर्मणः ७० ७०. असौ मत्पुत्रः प्रतिवादिनो दुर्ब्राह्मणान्परिभवितुकामत्वेन दुष्टचित्तान्द्विजानौक्षानुक्ष्णां संवन्धिनः पालानिव पालकानिव गोपालानिवेत्यर्थः । अजयत् । कीदृक्सन । ब्रह्मण इयं ब्राह्मी प्रज्ञाहेतुरोषधिः प्रज्ञार्थं तस्या अभक्षणेन तयायुतोपि धीयुतः स्वाभाविकप्रज्ञया युक्त इत्यर्थः । अत एव सौषामवत्सुपानोपत्यं सौषाम ऋषिस्तद्वत् । ब्रह्मणः स्रष्टुरिदं ब्राह्मं यद्रहस्यमुपनिषच्छास्त्रं वेदग्रन्थस्तद्वेदी । अत एव चातिहैतनामो हितनाम्न ऋषेरपत्यं वेदवेदिनमतिक्रान्तस्तथा जिर्वचाक्रवर्मणः ॥ इन्द्रवंशावंशस्थयोरुपजातिः ।। स यशो जितहैतनामनस्तन्मधावो मेधाविरूप्यमापत् । कौथुमकालापपैठसर्पास्तैतलजाजललाङ्गलाच नो यत् ॥७१॥ ७१. मैधावो मेधाविनोपत्यं सं मत्पुत्रो जितहतनामनः सन्मेधाविरूप्यं मेधाविनां भूतपूर्व तद्यश आपत् । यद्यशो नापुः । के । कुथुमिना कलापिनी च प्रोक्तं वेदं विदन्त्यधीयते वा कौथुमौः कालापाश्च तथा पीठसर्पिण ऋषेरपत्यानि पैठसा द्वन्द्व ते तथा तैतली जाजली लाङ्गली चाचार्यास्तदुक्ता प्रन्या अप्युपचारात्तत्तच्छब्दैरुच्यन्ते । वानधीयते तैतलजाजललाङ्गलाश्च महावैदिकाः ॥ औपच्छन्दसकम् ॥ १बी'न् । ब्राझ. २ वी 'तुरौष. ३ बी ब्राहयं य. सी ब्राम य. ४ए तिहेतुनामो हैतनामं हि. ५ बीमो हैतनामं ऋतनाम्न. ६ सीतचक्र'. ७ए शास्य'. ८ सी सत्पु. ९बी पुत्रौ जि. १० ए रूपं में. ११ सी ना वा प्रो. १२ बी माः कला. १३ बी न्दे त°. १४ ए ते तैतळ. १५ सी ततिली. १६ बी ली जांज'. १७ सी चार्या'. १८ सी न्या उप.

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674