________________
६१६
व्याश्रयमहाकाव्ये
[कुमारपालः] पालानिवौक्षान्प्रतिवादिनोजयदुर्जाह्मणान्ब्राह्मरहस्यवेद्यसौ । सौषामवद्राययुतोपि धीयुतोतिहैतनामो जितचाक्रवर्मणः ७०
७०. असौ मत्पुत्रः प्रतिवादिनो दुर्ब्राह्मणान्परिभवितुकामत्वेन दुष्टचित्तान्द्विजानौक्षानुक्ष्णां संवन्धिनः पालानिव पालकानिव गोपालानिवेत्यर्थः । अजयत् । कीदृक्सन । ब्रह्मण इयं ब्राह्मी प्रज्ञाहेतुरोषधिः प्रज्ञार्थं तस्या अभक्षणेन तयायुतोपि धीयुतः स्वाभाविकप्रज्ञया युक्त इत्यर्थः । अत एव सौषामवत्सुपानोपत्यं सौषाम ऋषिस्तद्वत् । ब्रह्मणः स्रष्टुरिदं ब्राह्मं यद्रहस्यमुपनिषच्छास्त्रं वेदग्रन्थस्तद्वेदी । अत एव चातिहैतनामो हितनाम्न ऋषेरपत्यं वेदवेदिनमतिक्रान्तस्तथा जिर्वचाक्रवर्मणः ॥ इन्द्रवंशावंशस्थयोरुपजातिः ।।
स यशो जितहैतनामनस्तन्मधावो मेधाविरूप्यमापत् । कौथुमकालापपैठसर्पास्तैतलजाजललाङ्गलाच नो यत् ॥७१॥
७१. मैधावो मेधाविनोपत्यं सं मत्पुत्रो जितहतनामनः सन्मेधाविरूप्यं मेधाविनां भूतपूर्व तद्यश आपत् । यद्यशो नापुः । के । कुथुमिना कलापिनी च प्रोक्तं वेदं विदन्त्यधीयते वा कौथुमौः कालापाश्च तथा पीठसर्पिण ऋषेरपत्यानि पैठसा द्वन्द्व ते तथा तैतली जाजली लाङ्गली चाचार्यास्तदुक्ता प्रन्या अप्युपचारात्तत्तच्छब्दैरुच्यन्ते । वानधीयते तैतलजाजललाङ्गलाश्च महावैदिकाः ॥ औपच्छन्दसकम् ॥
१बी'न् । ब्राझ. २ वी 'तुरौष. ३ बी ब्राहयं य. सी ब्राम य. ४ए तिहेतुनामो हैतनामं हि. ५ बीमो हैतनामं ऋतनाम्न. ६ सीतचक्र'. ७ए शास्य'. ८ सी सत्पु. ९बी पुत्रौ जि. १० ए रूपं में. ११ सी ना वा प्रो. १२ बी माः कला. १३ बी न्दे त°. १४ ए ते तैतळ. १५ सी ततिली. १६ बी ली जांज'. १७ सी चार्या'. १८ सी न्या उप.