________________
[ है. ७.४.६१.] विंशः सर्गः । सौपर्वयुक्सौकरस शिष्यशैलालशैखण्डजितस्तुतोष । साब्रह्मचारोस्य जनो गुणेनाश्मोपि द्रवेत्कीदृगनाश्मनो यः॥७२॥
७२. अस्य मत्पुत्रस्य सब्रह्मचारिणामयं साब्रह्मचारो जनः सहाध्यायिलोको गुणेन महाविद्वत्तादिना तुतोष । किंभूतस्य । सुपर्वणोपत्यं सौपर्वस्तेन युजो युक्ता ये सौकरसद्मशिष्यशैलालशैखण्डजितः । सूकरसद्मापत्यस्य च्छात्रश्च शिलालिशिखण्डिनोरपत्ये च तान्वैदिकद्विजाजयति यस्तस्य । यद्वा किमत्र चित्रं यदस्य गुणेन साब्रह्मचारो जनस्तुतोष । यतो गुणेन कृत्वाश्मोप्यश्मविकारवदतिकठिनहृदयः खलादिरपीत्यर्थः । द्रवेदाहृदयी स्याद्यस्त्वनाश्मनो नाश्मविकारतुल्यः स्नेहाईचित्तः सजनमित्रादिः स कीहक्सनितरां द्रुत एचेत्यर्थः ।।
औक्षान् । इत्यत्र “उक्ष्णो लुक्" [५६] इत्यन्त्यस्वरादेर्लुक् ॥ ब्राह्म । इत्यत्र “ब्रह्मणः" [५७ ] इति लुक् ॥ ब्राह्मी । इत्यत्र "जातो" [५८ ] इति लुक् ॥ पूर्वेण सिद्धे जातावनपत्य एवेति नियमाथं वचनम् । तेनोत्तरसूत्रेणापत्ये लुग्न। ब्रह्मणोपत्यानि ब्राह्मणान् ॥
सो(सौ)षाम । इत्यत्र "अवर्मणो नो(मनो)पत्ये" [५९] इति लुक् । अवर्मण इति किम् । चाक्रवर्मणः ॥ हैतनामः हैतनामनः । अत्र “हितनाम्नो वा" [ ६० ] इति वा लुक् ।
मैधावः । अत्र "नोपदस्य" [६१ ] इत्यादिना लुक् ॥ अपद इति किम् । मेधाविरूप्यम् ॥
१ए°ष । सत्र. २ ए नाश्वानो. सी नास्सनेय ॥ अ.
१बी स्य ब्र. २ बी रिण्याम'. ३ सी द्वादः कि. ४ सी यी साध्यस्त्वनारमना ना. ५ बी त्रादि स. ६ए दिः की. सीक। अवर्मण इति कि.८ एत्य इति लुक्. ९बी सी धाव । अ.