Book Title: Dwayashray Mahakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani
Publisher: Wav Jain S M P Sangh

View full book text
Previous | Next

Page 644
________________ [ है. ७.४.९०.] विंशः सर्गः। ६३३ भक्तिस्ते मयि यद्वदर्हति विभौ शंभो तथा मेहति३. तद्वेश्माक्षतमात्थ तत्प्रवरमित्यात्थ३ तदामात्य भोः ॥१२॥ ९२. भो अमात्य यद्वत्ते मयि विभौ प्रभौ विषये भक्तिरर्हत्युचिता स्यात्तथा मे शंभौ विषये भक्तिरर्हति३ । तस्माद्विशीर्णकेदारभवनोद्धाराय कारूंश्च वर्धक्यादीञ् शिल्पिनो धनं च प्रहिणु३। तथा भृतकान्कर्मकरानेतुंस्तथा भृतकादिचिन्ताकारिणो नायकांश्चायुद्ध प्रयुङ । ततश्च तद्धाम केदारभवनं चान्द्रं वेश्मचिदस्तु चन्द्रप्रासाद इव भवतु चन्द्रभवनं ह्येकरात्रावेव निष्पद्यतेन्यथा पतेत्तद्वच्छीघ्रं निष्पद्येतामित्यर्थः । तथा गान्धिकपुटीचिन्नायता३म् । यथा गन्धपण्यस्य वणिज औषधपुटिका क्षणार्निष्पद्यत एवं निष्पद्यताम् । तथा भो अमात्य तदा तस्मिन्विवक्षित आवयोः प्रसिद्ध काले तद्वेश्म केदारभवनं त्वमक्षतमभग्नमस्तीत्यात्थावोचः । तदायोगे "स्मे च वर्तमाना" [५.२.१६ ] इत्यतीतेत्र वर्तमाना। तथा तद्वेश्म तदा प्रवरमनेकरूपकचित्रादिभिः प्रधानमस्तीति त्वमात्थाख्यः । तद्वेश्माक्षतं तत्प्रवरमित्युक्तवन्तममात्यं प्रणिधिभणितियुक्त्या स्वमतात्प्रच्याव्यैवमुपालम्भं चामात्यं प्रति राजोच इति संबन्धः ॥ दस्यो३ दस्यो। हतक हतक३ । अत्र "भर्सने पर्यायेणे" [१०] इति द्विरुक्तिः । तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तावन्त्यस्वरः प्लुतो वा ॥ पक्षे । पाप पाप। १ सीर्णकदा'. २ ए रानेतुं. ३ सी . त'. ४. सी तदासं के. ५.सी °द्यतां । तथा भो आमा'. ६ ए °निषद्य. ७, ए आचार्याः प्र. ८ सी सिद्धे'. ९ए°ण ति. १० ए स्याप्रवर'.

Loading...

Page Navigation
1 ... 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674