________________
[ है. ७.४.९०.] विंशः सर्गः।
६३३ भक्तिस्ते मयि यद्वदर्हति विभौ शंभो तथा मेहति३. तद्वेश्माक्षतमात्थ तत्प्रवरमित्यात्थ३ तदामात्य भोः ॥१२॥
९२. भो अमात्य यद्वत्ते मयि विभौ प्रभौ विषये भक्तिरर्हत्युचिता स्यात्तथा मे शंभौ विषये भक्तिरर्हति३ । तस्माद्विशीर्णकेदारभवनोद्धाराय कारूंश्च वर्धक्यादीञ् शिल्पिनो धनं च प्रहिणु३। तथा भृतकान्कर्मकरानेतुंस्तथा भृतकादिचिन्ताकारिणो नायकांश्चायुद्ध प्रयुङ । ततश्च तद्धाम केदारभवनं चान्द्रं वेश्मचिदस्तु चन्द्रप्रासाद इव भवतु चन्द्रभवनं ह्येकरात्रावेव निष्पद्यतेन्यथा पतेत्तद्वच्छीघ्रं निष्पद्येतामित्यर्थः । तथा गान्धिकपुटीचिन्नायता३म् । यथा गन्धपण्यस्य वणिज औषधपुटिका क्षणार्निष्पद्यत एवं निष्पद्यताम् । तथा भो अमात्य तदा तस्मिन्विवक्षित आवयोः प्रसिद्ध काले तद्वेश्म केदारभवनं त्वमक्षतमभग्नमस्तीत्यात्थावोचः । तदायोगे "स्मे च वर्तमाना" [५.२.१६ ] इत्यतीतेत्र वर्तमाना। तथा तद्वेश्म तदा प्रवरमनेकरूपकचित्रादिभिः प्रधानमस्तीति त्वमात्थाख्यः । तद्वेश्माक्षतं तत्प्रवरमित्युक्तवन्तममात्यं प्रणिधिभणितियुक्त्या स्वमतात्प्रच्याव्यैवमुपालम्भं चामात्यं प्रति राजोच इति संबन्धः ॥
दस्यो३ दस्यो। हतक हतक३ । अत्र "भर्सने पर्यायेणे" [१०] इति द्विरुक्तिः । तत्र पर्यायेण पूर्वस्यामुत्तरस्यां वोक्तावन्त्यस्वरः प्लुतो वा ॥ पक्षे ।
पाप पाप।
१ सीर्णकदा'. २ ए रानेतुं. ३ सी . त'. ४. सी तदासं के. ५.सी °द्यतां । तथा भो आमा'. ६ ए °निषद्य. ७, ए आचार्याः प्र. ८ सी सिद्धे'. ९ए°ण ति. १० ए स्याप्रवर'.