SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ [है० ५.४.१७.] त्रयोदशः सर्गः। १४३ क्षमे वा पुरा किं भवानेवमस्मासु ब्रूयाचेष्टिप्यतेथ वा । इत्यत्र "अश्रद्धा." [१५] इत्यादिना सप्तमीभविष्यन्त्यौ ॥ न श्रद्दधे न च सहे लवलीदर्शयिष्यति । हेमन्ते किंकिलेत्युक्तिदोर्जन्यव्यञ्जिका तव ॥ ६३॥ ६३. अहो कनकचूडेत्येवंविधा तवोक्तिदीजन्यव्यञ्जिका । के. त्याह । न श्रद्दधे न च सहे यदहो दमनक । किंकिलेति वाक्यालंकारे प्रसिद्धिद्योतने वा । पुष्पितत्वेन लोके प्रसिद्धाः पुष्पिता इत्यर्थः । लवलीहेमन्ते भवान्दर्शयिष्यति कालत्रये प्रयोगोयं न कदापि दर्शितवान्न च दर्शयिष्यति न च दर्शयतीत्यर्थ इति ॥ भार्या मेत्र पणो यन्न श्रद्दधे न क्षमेप्यहम् । अस्ति लोके स यो मां हि विवादेन विजेष्यते ॥ ६४ ॥ ६४. अत्र लवलीपुष्पादर्शने भार्या मे पणो यदि हेमन्ते पुष्पिता लवलीन दर्शयामि तदा भार्यां हारयामीत्यर्थः । यद्यस्माद्धेतोहि स्फुटं यो मां विवादेन विजेष्यते जितवाजेष्यति जयति वा स लोके जगत्यस्तीदमहं न श्रद्दधे नापि क्षमे न कोप्यस्तीत्यर्थः ॥ न श्रद्दधे न च सहे लवलीदर्शयिष्यति हेमन्ते किंकिल । न श्रद्दधे न क्षमेप्यहमस्ति लोके स यो मां विजेप्यते । अत्र "किंकिल." [१६] इत्यादिना भविष्यन्ती ॥ अथाहमबु(ब)वं चैवं न श्रद्दधे न च क्षमे । मिषेत्कोपि मया जातु गवी वा विवदेत यत् ॥ ६५ ॥ १ सी डी न क्ष. १ सी डी न किं. २ ए सी डी °ली हेम'. ३ डी भार्या हा. ४ वी °ति स. ५ सी डी मे नैको.
SR No.023412
Book TitleDwayashray Mahakavya Part 02
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1987
Total Pages674
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy