________________
१४२ व्याश्रयमहाकाव्ये
[ जयसिंहः ] भुजंगमः स को नाम योमान्द्विष्याद्धसिष्यति । न श्रद्दधे न क्षमे वास्मान्वि(वा वि?)रोत्स्यति मिषेच यः ॥६१॥
६१. नामेत्याक्षेपे । कः स भुजंगमो योस्मान्द्विष्यात्तथा योस्मान्हसिष्यति । तथा न श्रद्दधे न वा क्षमे यद्योस्मान्विरोत्स्यति विग्रहीष्यति । तथा योस्मान्मिप्रेच स्पर्धेत । कालत्रयेप्यमी प्रयोगाः । सर्वेपि भुजङ्गा अस्मत्तो हीना इति कीदृगेकस्त्वं य एवमस्मासु द्वेषोपहासविरोधस्पर्धाः करोषीत्यर्थः । स्पर्धमानः स कृष्णमित्यादाविवासान्मिदित्यत्र सकर्मकत्वम् ॥
न श्रद्दधे न क्षमे वा पुराहमपि दुर्मते ।
किं भवानेवमस्सासु ब्रूयाच्चेष्टिष्यतेथ वा ॥ ६२ ॥ ६२. हे दुर्मते कुटिलाशय किं भवानेवमुपहासादिप्रकारेणास्मासु विषये ब्रूयाद्भाषेत । अथ वैवमुपहासादि चेष्टिष्यते चक्षुर्भूविक्षेपविशेषादिना करिष्यति । कालत्रये प्रयोगाविमौ । इदमहं पुरा पूर्व न श्रद्दधेपि न क्षमेपि वा । "पुरायावतोर्वर्तमाना" [५. ३. ७.] इत्यतीते वर्तमाना । तव मायिनत्रिकालविषये एवं वचनचेष्टे परैरुक्ते अप्यहं सरलाशयत्वात्पुरा न संभावितवानपि न च सोढवानपीत्यर्थः ॥
भुजंगमः स को नाम योमान्दिष्यासिष्यति । इत्यत्र "किंवृत्ते." [१४] इत्यादिना सप्तमीभविष्यन्त्यौ ॥ न श्रद्दधे न क्षमे वा योसानिमद्विरोत्स्यति च ॥ किंवृत्तेपि । न श्रद्दधे न
१बी घ्यसि । न.
१ए सी डी प्यास्सा. २ सी. दुर्गते. ३ ए सी डी रिति. ४ सी डी घेषि वा. ५ डी प्यतेथ.