________________
[ है०५.४.११.] त्रयोदशः सर्गः।
१४१ प्रत्यष्ठास्यः कथं मिथ्यैतद्र्हामहे वयम् । अत्र "वोतानाक्" [1] इति वा क्रियातिपत्तिः ॥ वावचनाद्यथाप्राप्तं च । कथं प्रतीयात् । कथं श्रद्धत्ते गर्हामहे ।
सोपि मामब्रवीदेवं जातु त्वं दुर्जनायसे ।
अपि त्वं विब्रवीष्यमानहो गहोमहे वयम् ॥ ५९॥ ५९. स्पष्टः । किं तु जात्वपी क्षेपद्योतकौ ॥ अपि त्वं विब्रवीप्यमान् । जातु त्वं दुर्जनायसे । अत्र "क्षेपेपि." [१२] इत्यादिना कालत्रयेपि वर्तमाना ॥ निन्दसि । निन्देिष्यसि । निन्दितवान् । दुर्जनायसे । दुर्जनायिष्यसे । दुजर्नायितवान् । एवमन्यत्रापि भावना कार्या ॥
कथं हसेन्यकुरुषे मर्मास्पाक्षीरुपारुजः ।
परित्यक्ष्यसि साधुत्वं दौर्जन्यं श्रयितासि धिक् ॥ ६०॥ ६०. कथं किमिति त्वं हसेर्मामुपहसेस्तथा कथं त्वं न्यक्कुरुष उपहासेन मां पराभवसि । कालत्रये प्रयोगाविमौ । तथा कथं मर्मास्पाक्षीदृष्टस्त्वं कुहकस्यार्थीत्यादिना मम मर्मोदघट्टयस्तथा कथमुपा
जो मर्मोद्बट्टनेन मामपीडयोत एव कथं त्वं साधुत्वं शिष्टतां परित्यक्ष्यसि । अत एव च कथं दौर्जन्यं श्रयितासि । अत एव च त्वं धिग्धिक्कृतः ॥
कथं हसेः । कथं न्यकुरुषे धिक् । इत्यत्र “कथमि." [१३] इत्यादिना सर्वकालेषु सप्तमीवर्तमाने ॥ वावचनाद्यथाप्राप्तं च । मर्मास्पाक्षीः । उपारुजः। श्रयितासि । परित्यक्ष्यसि धिक् ॥
१ बी °देव जा. २ ए सी डी क्षीरपारुजा । प. १ डी त्माप्तं. २ ए सी डी °न्दित'. ३ ए सी डी यित°. ४ डी सेस्त°. ५ ए सी डी विधौ । त. ६ ए सी डी रुजा म.