________________
१४४
व्याश्रयमहाकाव्ये
[ जयसिंहः]
भवेयदि विवादी त्वं हारयेयमहं यदा ।
तदङ्गीकृत एवायं त्वत्पणेन पणो मया ॥६६॥ ६५, ६६. अथ दमनस्यैवंभणनानन्तरमहं चाहमप्येवमन्त्रु(ब)धम् । यथाहं न श्रद्दधे न क्षमे च यत्कोपि कश्चिदपि गर्वी गर्विष्ठः सञ्जातु कदाचिदपि मया सह मिषेद्विवदेत वा । परं यदि त्वं विवादी भवेस्तथा यदाहं हारयेयं हरन्तं पणं प्राप्नुवन्तं त्वामनुकूलाचरणेन प्रयुञ्जीय । कालत्रयेमी प्रयोगाः । तत्तदा त्वत्पणेन कृत्वायमेव भार्यालक्षण एव पणो मयाङ्गीकृतः । भवेहारयेयमित्यत्रापि न श्रद्दधे न च क्षम इति योज्यम् । यतोसौ दमनस्यापि वादित्वं खस्य हारकत्वं चाश्रद्दधानोक्षाम्यंश्वाह ॥
न श्रद्दधे न क्षमे मिषेत्कोपि मया जातु । गर्वी वा विवदेत यत् । हारयेयमहं यदा । भवेर्यदि विवादी स्वम् । इत्यत्र "जातु०" [१७] इत्यादिना सप्तमी॥
धिग्यत्रेत्याक्षिपेनस्त्वं तर्जेर्वा यच्च यत्र वा ।
प्रगल्भेथा जयेर्यच्च न क्षमे श्रद्दधे न तत् ॥ ६७ ॥ ६७. हे दमन यत्र निमित्तसप्तम्यर्थे तत्र पू(भू?)तोयमों येनासत्यलवलीपुष्पसमर्थनरूपेण निमित्तेन नोस्मानिति जातु त्वं दुर्जनायस इत्यादिप्रकारेणाक्षिपेनिन्देस्तथा यञ्च तर्जेर्वा । यच्चेति क्रियाविशेषणं भार्या मैत्र पण इति यद्दण्डमाविष्कुर्याश्च तद्धिग्निन्दामस्तथा यत्र वा यस्मिंश्च हैमनलवलीपुष्पदर्शनविषये त्वं प्रगल्भेया धार्श्व
१ ए सी डी हं चाह.
१ सी डी तत्वदा त्वत्पण्येन. २ ए थेत्रत्र. ३ सी डी मे प°. ४ सी डी न हे दमन ल'. ५ डी गल्भपा. ६ ए सी डी °था नक्षमे न अद्दधे तत् । इत्य'.