________________
[है० ५.४.२०.] त्रयोदशः सर्गः।
१४५ कुर्या यच्च जयेस्तन्न क्षमे न श्रद्दधे चालीकत्वात् । कालत्रयेमी प्रयोगाः ॥
धिग्यच्च तर्जेः । यत्रेत्याक्षिपेनस्त्वम् । यच्च जयेः । यत्र प्रगल्भेयाः । न क्षमे न श्रद्दधे तत् । इत्यत्र "क्षेपेपि(च!)." [ १८ ] इत्यादिना सप्तमी ॥
चित्रं यत्रैवं जल्पेस्त्वं कुप्येयचेतिवादिभिः ।
खैनिषिद्धौ कलेरावां प्रतिज्ञाय पणं स्थितौ ॥ ६८ ॥ ६८. आवां पणं भार्यापणं प्रतिज्ञाय स्थितौ वाकलहानिवृत्तौ । यतः खैः स्वजनैः कलेर्वाक्कलहानिषिद्धौ । किंभूतैः सद्भिः । इतिवादिमिः । यथा चित्रमाश्चर्यं यत्र देशे काले प्रयोजने वा त्वमप्येवं साध्वनुचितं जल्पेर्यञ्च त्वमपि कुप्येः । कालत्रये प्रयोगाविति ॥
चित्रं यच्चैवं कुप्येस्त्वम् । यत्रैवं जल्पेः । अत्र "चित्रे" [१९] इति सप्तमी ॥
चित्रमन्धोद्रिमारोक्ष्यत्ययं यदि जयेद्धि नः ।
एवमावां प्रजल्पन्तौ ततो निजगृहं गतौ ॥ ६९॥ ६९. ततोनन्तरमावां निजगृहं गतौ । किंभूतौ सन्तौ । हि स्फुटं चित्रमाश्चर्यं यद्ययं नोस्माञ्जयेत्तदा चित्रमन्धोद्रिमारोक्ष्यति । कालत्रये प्रयोगौ । एवं जल्पन्तौ ॥
चित्रमन्धोगिमारोक्ष्यति । इत्यत्र "शेषे." [ २० ] इत्यादिना भविष्यन्ती। अयदाविति किम् । चित्रमयं यदि जयेद्धि नः । अत्राश्रद्धाप्यस्तीति "जातुबबदायदौ सप्तमी" [१७] इति सप्तमी ॥
१ सी त्रैव ज.
१ सी डी स्वैः क. चवमा०.
२ ए सी डी ति ॥ य.
३ बी भूतो हि. .४ डी
१९