________________
१४६
व्याश्रयमहाकाव्ये
एषोपि हारयेनोत हारयेयं मृशन्निति । तेनाहूतोन्यदोद्याने लवलीर्द्रष्टुमभ्यगाम् ॥ ७० ॥
७०. अहमन्यदा हेमन्ते तेन दमनेनाहूत उद्याने लवलीर्द्रष्टुमभ्यगाम् । कीदृक्सन् । मृशंश्चिन्तयन् । किमित्याह । एष दमनोपि वाढं हारयेत्तथत बाढमहं न हारयेयं दमनोग्रेपि वाढं हारितवान् हारयत्यतोधुनापि हारयिष्यति । नाहं त्वेवमित्यर्थ इति ॥
[ जयसिंहः ]
उत हारयेयम् । अपि हारयेत् । इत्यत्र "सप्तमी ०" [२१] इत्यादिना सप्तमी ॥
लवल्याः प्रेक्ष्य पुष्पाणीत्यध्यायं हन्त माय्यसौ । प्रदर्शयेदपि फलान्यपि कल्पद्रुमानयेत् ॥ ७१ ॥ करिष्यत्यन्यदप्येष शक्तो दमनकश्छलम् । संभावयामि याचेत पेणं म्लानिं च दास्यति ॥ ७२ ॥
७१, ७२. लवल्याः पुष्पाणि प्रेक्ष्येत्यध्यायमचिन्तयं यथा मायी कुहक विद्यया दाम्भिकोसौ दमनोपि लबैलानि लवलीफलान्यपि दर्शयेत्तथापि कल्पद्रुमानयेत् । मायाबलेनासौ त्रिकालविपयेपि लवलानामपि दर्शने कल्पद्रोरप्यानयने शक्तः संभाव्यत इत्यर्थः । तथैष दर्मेनकोन्यदप्यत्यसंभाव्यमपरमपिच्छलं मायां करिष्यति । यत: शतश्छले समर्थीत एव संभावयामि पणमपि याचेत शक्तोयमधुना पण
१ डी 'वल्यो : प्रे'.
२ ए सी डी पणम्ला'.
* अनया व्याख्यया 'दर्श
१ ए बाढम'. २ ए प्रेत्य.. ३ ए दाभिको. येदपि लवलान्यपि कल्पद्रुमानयेत्' इति मूलेन भाव्यमिति भाति. ४ ए सी डी 'मनोन्य.
५ बी लेन स.