________________
५००
व्याश्रयमहाकाव्ये
[कुमारपालः]
क्षिणोत्तरासु दिक्षु देशेषु वा यातु स्वेच्छया विचरतु । तथा त्वत्सेवाद्यर्थ पूर्वपश्चिमादक्षिणोत्तराभ्यो दिग्भ्यो देशेभ्यो वा त्वत्पार्श्वमायातु । हि यस्मात्तच्चतुष्कं परस्तादवरस्ताद्दक्षिणत उत्तरतश्च ते वशं जितत्वादायत्तमस्ति ।
परतोवरतो यात उत्तराद्दक्षिणादथ ।
त्वत्सैन्यस्याग्रगोस्त्वान्नो वश्यं यद्यपि तत्तव ॥ १९ ॥ १९. आन्नस्त्वत्सैन्यस्याग्रगोस्तु। कीदृशस्य सतः । यद्यपि तत्परतोवरत उत्तरदक्षिणाच्च पूर्वपश्चिमादक्षिणोत्तरा दिशो देशा वा तव वश्यं तथापि कौतुकादेशश्रीदर्शनाद्यर्थ यातो विचरतः । क । परतः सकाशादवरतस्तथावरतः सकाशात्परतोथ तथोत्तरात्सकाशादक्षिणोत्तथा दक्षिणात्सकाशादुत्तरात् । चतुर्वपि दिक्षु देशेषु वेत्यर्थः ।।
यात ऐतोधरात्पश्चाद्रामरूपेण यः फैणी ।
यत्कीां तवयं रम्यं वेत्त्यानस्त्वां तमोजसा ॥ २० ॥ २०. यः फणी शेषाहिरधरादधरस्या दिशो देशोद्वा पातालाद्रामरूपेण बलभद्रमूर्येत आगतः । क । पश्चादपरस्यां पश्चिमायां दिशि देशे वा सुराष्ट्रासु । यो मर्त्यलोकेवतीर्ण इत्यर्थः । बलभद्रो हि शेषावतार इति रूढिः । तथा यश्च पश्चात्सुराष्ट्राभ्यो मर्त्यलोकत्सकाशादि
१ बी सी रादक्षि. २ बी दश्च । त्व. ३ सी एवाध'. ४ ए फणी: । य.
१बी वा तत्पा. २ए °स्ताई. ३ सी 'त्तश्च. ४बी दायात'. ५ सी वतर. ६ बी र उ. ७ बी सी रादक्षि. ८ए °श्चिमद. ९ बी शाद्वा त'. १० सी रतः स. ११ ए वतर. १२ सी णात्स. १३ ए त्तद. १४ बी शात्तथादु. १५ सी शात्पाता: १६ बी धः । तथा यत्की. १७ सी काशा. .