________________
४२६
व्याश्रयमहाकाव्ये
[कुमारपालः]
श्लाघात्याकारौ गार्गिकाकाठिकाभ्यां
भाषेतामात्यस्तथ्यपथ्यं तथापि ॥ १६ ॥ १६. स्वामी प्रभुरायुक्तानामधिकृतानां मत्रिणामहितमानितया चौरतां वेत्त्वैचौरत्वं वा हितमानितया साधुतां वा वेत्तु शैष्योपाध्यायिकां वा किंचिज्ज्ञमानित्वाच्छिष्यत्वं वा वेत्त्वति विज्ज्ञमानित्वादुपाध्यायतां वा वेत्तु । अथाथ वा गार्गिकाकाठिकाभ्यां गार्ग्यत्वेन कठत्वेन च श्लाघात्याकारौ कुर्यात् । सत्यवादित्वादिगुणोपेतस्य गर्गस्यरपत्यत्वेन सत्यवादित्वादिगुणोपेता एत इति । तथा हेयोपादेयार्थोक्तियुक्तस्य सर्वशास्त्रसारस्य कठप्रोक्तवेदस्य वेदित्रध्येतृत्वेन सर्वशास्त्ररहस्यज्ञा विधेयज्ञाश्चामी इति श्लाघां करोतु । पुलिन्दस्येव सदा वनेवासिनो गर्गर्षेरपत्यत्वेनाकिंचिज्ज्ञा एत इति । तथा कठवेदाभ्यासजडत्वेन न नीतिशास्त्रज्ञा नापि लोकव्यवहारमात्रस्याप्यभिज्ञा इति निन्दां वा करोतु स्वामीत्यर्थः । तथाप्यमात्यस्तथ्यपथ्यं स्वामिनः सत्यहितं वचो भाषेत वक्तुमर्हति । वैश्वदेवी छन्दः॥
तथ्यपंध्याभणनेमात्यस्य दोषमाह ॥ ब्रह्मत्वपोत्रीयधरोपि गार्गिकां सकाठिका क्ष्मावगतामवाप्य च । पापः स यो नावति शाकशाकटेक्षुशाकिने र्नु स्वनियोगमुद्यतः
॥१७॥ १७. यो नियुक्तो मन्त्र्युद्यतः सावधानः सन्स्वनियोगं स्वाम्यादिष्टं तथ्यपथ्यभाषणादिकं स्वव्यापारं नावति न रक्षति स पापो निन्द्यः १ बी नु स्वानि. १५ णाहि'. २ ए °यातचोर'. ३ ए त्वचोर. ४ बी रत्वाहि'. ५ सी °त्तु अथा'. ६ ए वाऽकिं. ७ बी 'विशमा. ८ बी °र्गिककाठि. ९ बी श्लाध्यात्या. १० बी सी दिगु. ११ बी स्रशार. १२ वी वेदन्यास'. १३ ५ °भ्यासान. १४ बी सी न नी. १५ एपम्योम.