________________
२६९
[है. ६.३.९.] षोडशः सर्गः।
अवेयकी प्रास्थित दीप्रकौक्षेयकः स गर्वादतिदाक्षिणात्यः । पौरस्त्यपाश्चात्यचमूनियुक्तवाहायनौर्दायनसैन्यपालः ॥१०॥
१०. स आनः प्रास्थित प्रस्थानं चक्रे । कीदृक्सन् । अवेयकी मङ्गल्याय ग्रीवालङ्कारवानुपलक्षणत्वात्परिहितसर्वालंकारस्तथा दीप उत्ते. जितः कौक्षेयकः कङ्ककुक्षिनिर्जीर्णेनायसा कृतोसियस्य स गृहीतासिरित्यर्थः । तथा गर्वादतिदाक्षिणात्यो दाक्षिणात्यं दक्षिणस्यां दिशि भवं रावणमतिकान्तस्तथा पौरस्त्यातनी पाश्चात्या च पश्चाद्भागभवा ये चम्वौ तयोश्छलकप्रतिद्विषदादिकृतोपद्रवाभावाय नियुक्तौ वाहायनो वहिपु देशे भवो राजौर्दायनश्चोदी क्रीडायां कुशल उ(ऊ?)र्दिदेशे भवो वा राजा सैन्यपालौ येन स तथा ॥
स कापिशायन्यरुणेक्षणः सपार्दायनः पश्चिमभूमिमिच्छन् । गर्जन्ययौ गौरिव रावो शङ्कवायणीं गां दुरमात्यवर्गः ॥११॥
११ से आनो ययौ पश्चिमभूमि प्रत्यचालीत् । कीदृक्सन् । सपार्दायनः । पर्दिदेशभवेन राज्ञा सहितस्तथा कुमन्त्रकृत्त्वाद्दुष्टोमात्यवर्गो यस्य स तथात एव पश्चिमभूमि गूर्जरत्रामिच्छन्नत एव च कापिश्यां नगर्या नद्यां वा भवा कापिशायनी द्राक्षा तद्वगुर्जरत्राधिपोपरि कोपाटोपेनारुणे ईक्षणे यस्य स तथा गर्जन सिंहनादं मुञ्चन् । यथा राङ्कयो रङ्कदेशे भवो गौवृषभो गर्जन वाट्कुर्वन्सन्राङ्कवायणीं गां घेर्नु कामातुरतया याति ॥
१ बी नौदाय'. २ बी राट्कवा'. १सी निजीणेना'. २ बी वादिति . ३ बी सी 'त्यो द. ४ बी रस्त्योग्रे०.५ बी त्या चा प. ६ सी लकः प्र. ७बी "नश्चादी. ८ ए श्चोदौ की. ९ ए सी पालो ये . १० बी स अनो. ११ बी देशे भ. १२ ए बी शायिनी. १३ सी भवा गौ . १४ सी र्जन्सन्राकवा'. १५ बी न् वाट्कुन्स'.