Book Title: Dvantrinshikadwayi Kirtikala
Author(s): Hemchandracharya,
Publisher: Bhailal Ambalal Shah
View full book text
________________
॥ अर्हम् ॥
श्री विजयनेमि विज्ञान- कस्तूर- सूरिसद्गुरुभ्यो नमः ।
॥ अयोगव्यवच्छेदद्वात्रिंशिकास्तुतिः ॥
अगम्यमध्यात्मविदामवाच्यं वचस्विनामक्षवतां परोक्षम् । श्रीवर्द्धमानाभिधमात्मरूपमहं स्तुतेर्गोचरमानयामि ॥ १ ॥ स्तुतावशक्तिस्तव योगिनां न किं, गुणानुरागस्तु ममापि निश्चलः । इदं विनिश्चित्य तव स्तवं वदन् न बालिशोऽप्येष जनोऽपराध्यति ॥ क सिद्धसेनस्तुतयो महार्थी ?, अशिक्षितालापकला क चैषा ? | तथापि यूथाधिपतेः पथस्थः स्खलद्गतिस्तस्य शिशुर्न वाच्यः ॥ ३ ॥ जिनेन्द्र ! वानेव विबाधसे स्म दुरन्तदोषान् विविधैरुपायैः । त एव चित्रं त्वदसूययेव कृताः कृतार्थीः परतीर्थनाथैः ॥ ४ ॥ यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृङ्गण्युपपादयद्भ्यो नमः परेभ्यो नवपण्डितेभ्यः ॥ ५॥ जगन्त्यनुध्यानबलेन शश्वत् कृतार्थयत्सु प्रसर्भ भवत्युं । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ? || स्वयं कुमार्गे लपतो नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्तमसूययाऽन्धा अवमन्वते च
Jain Education International
For Private & Personal Use Only
॥७॥
www.jainelibrary.org
Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72