Book Title: Dvantrinshikadwayi Kirtikala
Author(s): Hemchandracharya, 
Publisher: Bhailal Ambalal Shah

View full book text
Previous | Next

Page 13
________________ ११० अयोगव्यवच्छेदद्वात्रिंशिकास्तुतिः प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य शरण्य ! पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥ ९॥ हिंसाद्यसत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंसदुर्बुद्धिपरिग्रहाच्च ब्रूमस्त्वदन्यागममप्रमाणम् ॥१०॥ हितोपदेशात् सकलज्ञक्लप्तेर्नुमुक्षुसत्साधुपरिग्रहाच्च । पूर्वापरार्थेष्वविरोधसिद्धेस्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वाऽन्यैः सदृशीक्रियेत वा तवाछिपीठे लुठनं सुरेशितुः ।। इदं यथावस्थितवस्तुदेशनं परैः कथङ्कारमपाकरिष्यते ? ॥ १२ ॥ तद्दुःषमाकालखलापितं वा पचेलिमं कर्म भवानुकूलम् । उपेक्षते यत्तव शासनार्थमयं जनो विप्रतिपद्यते वा ॥ १३ ॥ परःसहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥१४॥ अनाप्तजाड्यादिविनिर्मितत्वसम्भावनासम्भविविप्रलम्भाः । परोपदेशाः परमाप्तक्लप्तपथोपदेशे किमु संरभन्ते ? यदार्जवादुक्तमयुक्तमन्यैस्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभूदहो ! अधृष्या तव शासनश्रीः ॥ १६ ॥ देहाद्ययोगेन सदाशिवत्वं, शरीरयोगादुपदेशकर्म । परस्परस्पर्धि कथं घटेत परोपक्लुप्तेष्वधिदैवतेषु ? ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72