Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1049
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१० चरक-संहिता। (पनरूपीयमिन्द्रियम् निचितं यस्य मांसन्तु त्वगस्थि ॐ चैव दृश्यते। क्षीणस्यान्यूनतस्तस्य मासमायुः परं भवेत् ॥ २५ ॥ विकृत्यैवातो विपर्यासे च प्रेतलक्षणम् । तद यथा-ठोफो भृशं निःसृतं वृषणो चात्यर्थमन्तःप्रविष्टौ इत्यर्थः। विकृत्येति वचनेन प्रकृत्या यस्य त्वेवं तन्न रिष्ठमिति ख्यापितम् ॥ २४ ॥ ___ गङ्गाधरः-निचितमित्यादि। यस्य मांसं शरीरे निचितं सम्पूणम् । खगस्थि च दृश्यते, यस्य क्षीणस्यान्यूनतः सम्पूणतः मांसहीनस्य खगस्थि च निचितं दृश्यते, तस्य मासं व्याप्य परमायुभेवेदित्यर्थः। सुश्रुतेऽपिश्यावा लोहितिका नीला पीतिका वापि मानवम्। अभिवन्ति यं छायाः स परासुरसंशयम् ॥ अभिद्रवन्ति अभिधावन्ति । हीश्रियो नश्यतो यस्य तेजओजःस्मृतिप्रभाः। अकस्माद् यं भजन्ते वा स परासुरसंशयम्। यस्याधरौष्ठः पतितः क्षिप्तश्बोद्ध तथोत्तरः। उभौ वा जाम्बवाभासौ दुर्लभं तस्य जीवितम् । आरक्ता दशना यस्य श्यावा वा स्युः पतन्ति वा। खञ्जनप्रतिमा वापि तं गतायुषमादिशेत् । कृष्णा स्तब्धावलिप्ता वा जिह्वा शूना च यस्य वै। कर्कशा वा भवेद् यस्य सोऽचिराविजहात्यमून् । कुटिला स्फुटिता वापि शुष्का वा यस्य नासिका। अवस्फूर्जति मग्ना वा न स जीवति मानवः । संक्षिप्ते विषमे स्तब्धे रक्ते स्तब्धे च लोचने। स्यातां वा प्रत्र ते यस्य स गतायुनरो ध्रुवम्। केशाः सीमन्तिनो यस्य संक्षिप्ते विनते ध्रुवौ। लुनन्ति चाक्षिपक्ष्माणि सोऽचिराद याति मृत्यवे। नाहरत्यन्नमास्यस्थं न धारयति यः शिरः। एकाग्रदृष्टिमू ढात्मा सद्यः प्राणान् जहाति सः। बलवान् दुबलो वापि संमोहं योऽधिगच्छति। उत्थाप्यमानो बहुशस्तं धीरः परिवर्जयेत् । उत्तानः सर्वदा शेते पादौ विकुरुत च यः। विप्रसारणशीलो वा न स जीवति मानवः । शीतपादकरोच्छास-श्छिन्नश्वासश्च यो भवेत् । काकोच्छासश्च स्वभावं विना। तेन स्वभावोत्सितशेफादि न रिष्टम् । किन्त्वनिमित्तं कादाचित्कं तदेव तावद अरिष्टम् । निचितमिति क्षीणं नि'शब्दस्य प्रतिषेधार्थत्वात् । एवञ्च तथा मांसं क्षीणं भवति । यथा __* स्वगस्थिष्वेव इति चक्रः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100