Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1047
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२०८ चरक-संहिता। (पनरूपीयमिन्द्रियम् उपरुद्धस्य योगेन कर्षितस्याल्पमश्नतः। बहु मूत्रपुरीषं स्याद् यस्य तं परिवर्जयेत् ॥ १५॥ दुर्बलो बहु भुङ्क्ते यः प्रागभुक्तादन्नमातुरः छ । अल्पमूत्रपुरीषश्च यथा प्रतस्तथैव सः ॥ १६ ॥ वर्धिष्णगुणसम्बरमन्नमनाति यो नरः। शश्वञ्च बलवर्णाभ्यां हीयते न स जीवति ॥ १७॥ प्रकूजति प्रश्वसिति शिथिलश्चातिसार्यते। बलहीनः पिपासातः शुष्कास्यो न स जीवति ॥१८॥ ह्रस्वञ्च यः प्रश्वसिति व्याविद्धं स्पन्दते च यः। मृतमेव तमात्रेयो व्याचचक्षे पुनर्वसुः ॥ १६ ॥ गङ्गाधरः-उपरुद्धस्येत्यादि।व्याधिना कर्षितस्य योगेनोपरुद्धस्याल्पमश्नतो यस्य मूत्रपुरीषं बहु स्यात् तं परिवज्जयेत् ॥१५॥ गङ्गाधरः-दुबैल इत्यादि। य आतुरः प्रागभुक्तात् अनातु-वस्थायां यावन्मितं भुक्तमासीत् तदभुक्ताद्वहुमानमन्नमातुरः सन आतुर्य्यावस्थायांभुङ्क्तऽथच दुब्बेलः अल्पमूत्रपुरीषश्च स्यात्, स यथा प्रेतो मृतो नरस्तथा,अर्थादासनगृत्युरित्यर्थः ॥१६॥ ___ गङ्गाधरः-वर्द्धिष्णुगुणेत्यादि। यो नरो वर्द्धिष्णुगुणसम्पन्नमन्नं न तु हीनगुणमन्नं वर्द्धिष्णु क्रमेण मानतोऽधिकमश्नाति शश्वञ्च दिने दिने च बलवर्णाभ्यां हीयते, स न जीवति ॥१७॥ गङ्गाधरः-प्रकूजतीत्यादि । यः प्रकूजति अव्यक्तशब्दं करोति प्रश्वसिति च शिथिलं द्रवं यथा स्यात् तथातिसार्य्यते वलहीनादिश्च भवति, स न जीवति ॥ १८॥ गङ्गाधरः-हस्वञ्चेत्यादि। यो हस्वमदीर्घ व्याविद्धं कुटिलम् ॥ १९ ॥ चक्रपाणिः-प्रागभुक्तति भदुर्बलः सन्नभुक्त त्यर्थः। पूर्वदिनेषु बहु भुक्ते इत्यर्थः । इष्टमिति इष्टरसम्। गुणसम्पन्नमिति पथ्यम् । शिथिलमिति पूर्वेण संबध्यते। तेन श्लथ इव प्रकूजति। प्रश्वसितीत्यन्तःश्वासं नयति । व्याविद्धमिति कुटिलम् ॥ १५-१९॥ * प्रागभुक्तानमाश्रितः इति वा पाठः । + इष्टञ्च इति चक्रः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060 1061 1062 1063 1064 1065 1066 1067 1068 1069 1070 1071 1072 1073 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100