Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1096
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२५८ चरक-संहिता। गोमय चूमिन्द्रियम् धनैश्वर्य्यसुखावातिरिष्टलाभः ॐ सुखेन च। द्रव्याणां तत्र योग्यानां योजना सिद्धिरेव च ॥३८॥ गृहप्रासादशैलानां नागानां वृषभस्य च । हयानां पुरुषाणाञ्च स्वप्ने समधिरोहणम् ॥ अर्णवानां प्रतरणं वृद्धिः सम्बाधनिःस्मृतिः। स्वप्ने देवः सपितृभिः प्रसन्नैश्चाभिभाषणम् ॥ सोमार्काग्निद्विजातीनां गवां नणां यशखिनाम् । दर्शनं शुक्लवस्त्राणां हृदस्य विमलस्य च ॥ मांसमस्यविषामध्य-च्छत्रादर्शप्रतिग्रहः । स्वप्ने सुमनसा चैव शुक्लाणां दर्शनं शुभम् ॥ अश्वगोरथयानश्च यानं पूर्वोत्तरेण च । रोदनं पतितोत्थानं द्विषताश्चाभिमर्दनम् ॥ ३६॥ कीयद्रव्यसम्पन्नः। धनाद्यवाप्तिर्व श्मिकजनानामातुरस्य च। इष्टलाभश्च मुखेन, न खनिष्टं किश्चिद्वर्त्तते। इति। चिकित्साप्रशस्तिमाहद्रव्याणामित्यादि। चिकित्सार्थ यद् द्रव्यं यादृशगुणेन सम्पन्नं तत्र योग्यं भवति, तस्य तदव्यस्य तत्रोपधपथ्यादौ योजना योजनार्थ लाभश्च । योजनायां सत्यां तक्रियायाः संशोधनादिरूपायाः सिद्धिश्चैवेत्यारोग्यलक्षणम् ॥ ३८ ॥ गङ्गाधरः-अथ प्रशस्तस्वमानाह-गृहेत्यादि। नागानां हस्तिनां स्वप्ने गृहायारोहणं प्रशस्तम्। अर्णवानां प्रतरणं सन्तरणेनोत्तीर्णत्वं, प्रसरणमिति पाठे विस्तीर्णवम्। वृद्धिरणवानां पूर्णवम् । सम्बाधनि मृतिः सङ्कटान्मुक्तिः। प्रसन्नदेवपितृभिः सह भाषणम्। सोमश्चन्द्रः । यशस्विनां नृणां विमलदस्य मांसमत्स्यानां विषाणां सविषप्राणिनां प्रतिग्रहः, अमेध्यानां विष्ठादीनां छत्रादशयोश्च प्रतिग्रहो ग्रहणम् । शुक्लानां सुमनसां पुष्पाणां स्वप्ने दर्शनम् । स्वप्नेऽश्वादियानं शुभम् । एवं पूच्चोत्तरेण च दिगभागेन यानं गमनं शुभं स्वप्ने रोदनं शुभम् । चक्रपाणिः-योजनायां सत्यां सिद्धिः योजनासिद्धिः। संबाधनिःसृतिः सङ्कटनिस्तरणम् । *ष्टारम्भः सरन च इति चक्रतः पाठः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1094 1095 1096 1097 1098 1099 1100