Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२श अध्यायः इन्द्रियस्थानम् ।
२२५७ जीवञ्जीवकसिद्धार्थ-सारसप्रियवादिनाम्। हंसानां शतपत्राणां चाषाणां शिखिनां तथा ॥ मत्स्याजद्विजशङ्खानां मांसस्य च छ घृतस्य च । रुचकादर्शसिद्धार्थ-रोचनानाञ्च दर्शनम् ॥ गन्धः सुगन्धो वर्णश्च सुशुक्लो मधुरो रसः। मृगपक्षिमनुष्याणां प्रशस्तानां गिरः शुभाः ॥ छत्रध्वजपताकानामुत्क्षेपणमभिप्लुतिः । भेरीमृदङ्गशलानां शब्दाः पुण्याहनिखनः ॥ वेदाध्ययनशब्दाश्च सुखो वायुः प्रदक्षिणः । पथि वेश्मप्रवेशे च विद्यादारोग्यलक्षणम् ॥ ३७॥ मङ्गलाचारसम्पन्नः सातुरो वैश्मिको जनः ।
श्रद्दधानोऽनुकूलश्च प्रभूतद्रव्यसंग्रहः ॥ स्त्रियाश्च सवत्सायाः । जीवञ्जीवकश्चकोरः । अनश्छागः। मांसस्य सद्यस्कस्य न तु पय्युषितस्य। रुचकं लवणविशेषः। आदर्शो दर्पणम् । सिद्धार्थः श्वेतसर्षपः । रोचना गोरोचना। सुगन्धो गन्धः। सुशुक्रश्च वर्णः । रसो मधुर इत्येव । प्रशस्तानां मृगाणां हरिणभृगालादीनां पक्षिणां जीवञ्जीवकादीनां मनुष्याणां पुण्यशीलसाधुदातृप्रभृतीनां शुमा गिरः । छत्रादीनामुत्क्षेपणमुड्डीनता। अभिप्लुतिरितस्ततो दोलनमाच्छादनश्च। पुण्याहनिस्वनः पुण्याहेतिशब्दो नादः । सुखो वायुः शैत्यमान्यसौगन्ध्यवहः। प्रदक्षिणो दाक्षिण्यगुणयुक्तः॥३७॥
गङ्गाधरः-पथि चातुरकुलप्रवेशे च शुभलक्षणमुक्त्वा अथातुरकुले प्रशस्तमाह-मङ्गलाचारेत्यादि। प्रभूतद्रव्यसंग्रहो नानाविधौषधस्वस्त्ययनादिइत्यर्थः। शकटस्य पूर्णस्य नृभिरिति सम्बन्धः। बड़वायाः स्त्रियाश्च सवत्साया इति योजना। जीवञ्जीवकः पक्षी प्रसिद्धः। प्रियवादी चातकः ॥३७॥
* प्रियङ्गणामित्यन्यः पाठः ।
For Private and Personal Use Only

Page Navigation
1 ... 1093 1094 1095 1096 1097 1098 1099 1100