Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1093
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः इन्द्रियस्थानम् । २२५५ खाचारं हृष्टमव्यङ्गं यशस्यं शुक्लवाससम् । अमुण्डजटिलं दूतं जातिवेशक्रियासमम् ॥ अनुष्ट्रखरयानस्थमसन्ध्यावग्रहेषु च। अदारुणेषु नक्षत्रेष्वनुयष्वध्रु वेषु च ॥ विना चतुर्थी नवमी विना रिक्तां चतुर्दशीम् मध्याह्नमर्द्धरात्रश्च भूकम्पं राहुदर्शनम् ॥ विना देशमशस्तञ्चाशस्तोत्पातिकलक्षणम् । दूतं प्रशस्तमव्यय निर्दिशेदागतं भिषक् ॥ ३६ ॥ गङ्गाधरः--ननु किं लक्षणं शुभमाग कारोग्यख्यापकमित्यतो दूतादिशुभलक्षणमाह-वाचारमित्यादि। अन्य सर्वाङ्गसम्पूर्णम् अमुण्डजटिलं मुण्डनजटाभ्यां रहितमातुरस्य जातिवेश क्रिया। . समम् उष्ट्रादियानानवस्थितम् असन्ध्यासु सन्ध्याकालातिरिक्तकालेष्वागतम् अग्रहेषु क्रूरग्रहभुक्तभिन्नेषु अदारुणेष भरण्यादिभिन्नेषु अनुग्रेषु उग्राः पूर्वमघान्तका इत्युग्रसंशकनक्षत्रभिन्नेषु अध्र वेषु च ध्र वसंज्ञकनक्षत्र भिन्नेष च नक्षत्रेषु आगतम् रिक्तां विना तिथिष्वागतं रिक्तां विवृणोति चतुर्थी नवमीं चतुर्दशी विना मध्याह्नादि विना अशस्तं देशं विना अशस्तोत्पातिकलक्षणं विना आगतमव्यग्रं व्यग्रताशुन्यं दूतं प्रशस्तमव्यङ्गं भिषगादिशेदिति । सुश्रुते चोक्तम् । शुक्लवासाः शुचिगौरः श्यामो वा प्रियदर्शनः। स्वस्यां जातौ स्वगोत्रो वा दूतः कार्यकरः स्मृतः। गोयानेनागतस्तुष्टः पादाभ्यां शुभचेष्टितः। धृतिमानपि कालज्ञः स्वतन्त्रः प्रतिपत्तिमान। अलङ्क तो मङ्गलवान् दृतः कार्यकरः स्मृतः । स्वस्थं प्राङ्मुख चक्रपाणिः--शुभलक्षणं स्वाचारमित्यादिना व्रते। अमुण्डमिति सशिख कृतवपनोऽभिप्रेतः । जात्यादिभिरातुरेण सह समो जातिवेशकियासमः । अग्रहेष्विति अपशस्तस्थानस्थितक्रूरग्रहानधिष्ठितेषु इत्यर्थः। अदारुणेषु नक्षत्रेषु अनुग्रेषु ध्रवेषु चेति, दारुणानीति तीक्ष्णानि। यदुवाच वराहः - "मूलाशिवाशकभुजगाधिपानि तीक्ष्णानि" इति शिवा आर्द्रा, शक्रो ज्येष्टा, भुजगाधिपमश्लेषा । उग्राणि च वराहोक्तानि यथा,-"उग्राणि पूर्वभरणीपित्रमाणि" इति । पूर्वाणि पूर्वाफाल्गनी, पूर्वाषाढा, पूर्वभाद्रपदम् । पित्रंय मघा। वराहोक्तदारुणादीनि नक्षत्राणि वर्जयित्वान्येषु मक्षत्रेषु दूता आगताः शुभा भवन्ति । रिक्तामिति चतुर्थ्यादिविशेषणम्, चतुर्थी नवमी चतुर्दशी * अक्षु इति वा पाठः। + शस्तोत्पातिकलशणम् इति चक्रः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100