Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1092
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२५४ ( गोमयचूर्णीयमिन्द्रियम् आतुरस्य भवेद् दुःखमथवान्यस्य कस्यचित् । अब्रुवंस्तस्य मरणं नैनमिच्छे चिकित्सितुम् ॥ ३४ ॥ लिङ्गेभ्यो मरणाख्येभ्यो विपरीतानि पश्यता । लिङ्गान्यारोग्यमागन्तु वक्तव्यं भिषजा ध्रुवम् ॥ दूतैरौःपातिकैर्भावैः पथ्यातुरकुलाश्रयैः । ऋतुराचारशीलैस्तु द्रव्यसम्पत्तिलक्षणैः ॥ ३५ ॥ चरक संहिता | - Acharya Shri Kailassagarsuri Gyanmandir स्वजनादिभिरजिज्ञासितेन मरणं प्रति उपस्थितं न वक्तव्यम् । यदि वा आतुरादिभिरस्मिन् रोगे जीवनं किं न वेति पृष्टेनापि भिषग्विदा तत्र यदुपधातुकं तदातुरामात्यादीनां हठादुपघातकरं तन्न वक्तव्यम् । कस्मादित्यत आह - आतुरस्येत्यादि । तस्य मरणमब्रुवन् न वदन् तमेनं चिकित्सितु नेच्छेत् ॥ ३४ ॥ :- किं ब्रूयादित्यत आह-लिङ्गेभ्य इत्यादि । भिषजा मरणाख्येभ्यो नियतमरणाख्येभ्यो लिङ्गेभ्यो विपरीतानि लिङ्गानि स्फुटारोग्यसूचकानि दूतादिलिङ्गानि पश्यता दर्शयता आगन्तु आरोग्यं ध्रुवं वक्तव्यमिति । ननु कानि लिङ्गानि दृष्ट्वागन्खारोग्यं वक्तव्यमित्यत आह- दूतैरित्यादि । दूतैः पथि चौतपातिक भावेरात रकुलाश्रयैर्भावै रातुराचारशीलैश्च द्रव्याणां सम्पत्तिलक्षणैः करणैर्नियतमरणाख्येभ्यो लिङ्गेभ्यो विपरीतानि तदातुराद्यनुपघातुकानि लिङ्गानि पश्यता आगन्तु आपातत आरोग्यं वक्तव्यमिति भावः ।। ३५ ।। • चक्रपाणिः - सम्प्रति ज्ञातस्य रिष्टस्य यथार्हप्रकाश्यत्वम् । तदाह- मरणायेत्यादि । आतुरस्य उपघातकमिति योज्यम् । भवेद् दुःखमन्यस्येति सम्बन्धः । हन्त मरणं चेदातुरस्य भावि नोच्यते, तत् किमारोग्यमपि भावि न वक्तव्यमेवेत्याह- लिङ्गेभ्य : इत्यादि । मरणमाख्यान्तीति मरणाख्याः, तेभ्यो विपरीतानि आरोग्यसूचकानि । आगन्त्विति पश्चात् कालभावि । बूलैरौत्पातिकैरिति औत्पातिकैर्भावैः शुभाशुभसूचनार्थमकस्मादुत्पन्नैर्भावैः । सामान्येन शुभा - शुभसूचकं यदकस्मादुद्भवति तदौत्पातिकमुच्यते । द्रव्यसम्पत्तिलक्षणैरित्यन्ते आरोग्यमागन्तु वक्तव्यमिति योजना ॥ ३४ ॥ ३५ ॥ * इतःपरं " यस्य पश्येद्विनाशाय लिङ्गानि कुशलो भिषक" इत्यधिकः क्वचन पश्यते । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100