Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra

View full book text
Previous | Next

Page 1076
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशोऽध्यायः। अथातो गोमयचीयमिन्द्रियं व्याख्यास्यामः, __इतिह स्माह भगवानात्रेयः ॥१॥ यस्य गोमयचूर्णाभं चूर्ण मूर्द्धनि जायते। सस्नेह छ भ्रश्यते चव मासान्तं तस्य जीवितम् ॥२॥ निर्धर्षन्निव यः पादौ च्युतांसः परिधावति । विकुत्या न स लोकेऽस्मिंश्चिरं वसति मानवः ॥३॥ यस्य स्नातानुलिप्तस्य पूवं शुष्यत्युरो भृशम् । आदषु सर्वगात्रेषु सोऽर्द्धमासं न जीवति ॥४॥ गङ्गाधरः-अथाणुज्योतीयेन्द्रियानन्तरं छायाधिकारात् पारिशेष्याच्च गोमयचूर्णीयं गोमयचूर्णाभमिति पदार्थमधिकृत्य कृतमिन्द्रियं व्याख्यास्याम इत्यर्थः ॥१॥ गङ्गाधरः यस्येत्यादि। यस्य नरस्य मूर्द्धनिः गोमयचूर्णाभं चूर्ण वर्णाकृतिभ्यां जायते सस्नेहे च तस्मिन् मूद्धनि तैलादिना सस्नेहे कृते च सति तद्गोमयचूर्णाभचूर्ण भ्रश्यते लीयते एव, तस्य मासान्तं जीवितम्। सुश्रतेऽप्युक्तं “गोमयचूर्णप्रकाशस्य वा रजसो दर्शनमुत्तमाङ्गे विलयनञ्च” इति ॥२॥ __ गङ्गाधरः-निर्घष निवेत्यादि। विकृत्या विकारवशात् न तु प्रकृत्या तेनाकस्माद यः पादौ निघर्षन्निव च्युतांसः सन्धिबन्धनान्मुक्तभुजोड़ देश इव च सन् परिधावति, स मानवस्वस्मिन् लोके चिरं न वसति। प्रकृत्या चेदैवम्, न तदाऽचिरान्म्रियते इत्यर्थः ॥३॥ गङ्गाधरः-यस्येत्यादि। स्नातः सन्ननुलिप्तोऽगुरुचन्दनादिना यस्तस्य यदि सव्र्वगात्रेषु आद्रेषु सत्सु पूर्वम् अङ्गान्तरस्थानुलेपनं न विशुष्य उरो वक्षःस्थलमेव भृशं शुष्यति, सोऽर्द्धमासं न जीवति ॥४॥ चक्रपाणिः-पारिशेष्याद् गोमयचूर्णीयमुच्यते। चूर्णमित्यस्य विशेषणं सस्नेहमिति । निकषन्निवेति घर्षन्निव। विकृत्येत्यनेन पादाद्यवघर्षणादि निषेधयति । 'पूर्वमुरः शुष्यति' इत्यभिधानादेव शेषगात्रार्द्रतायां लब्धायां पुनः 'आतेषु सर्वगात्रेषु' इति वचनात् विशेषेण अपरगात्राणामाईतां दर्शयति ॥ १-४॥ * सस्नेहे इत्यत्र सस्नेहं तथा निर्वपन्निवेत्यत्र निकपन्निव इति चक्रवतः पाठः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 1074 1075 1076 1077 1078 1079 1080 1081 1082 1083 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100