Book Title: Charak Samhita Part 02
Author(s): Muni Charak, Narendranath Sengupte, Balaichandra Sengupte
Publisher: Ranglal Mitra
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४८
चरक-संहिता। गोप्रयचूर्णीयमिन्द्रियम शयनं वसनं यानमन्यद्वापि परिच्छदम्। प्रतवद् यस्य कुर्वन्ति सुहृदः प्रेत एव सः॥ २६ ॥ अन्नं व्यापद्यतेऽत्यर्थं ज्योतिश्चैव प्रशाः यति । निवाते सेन्धनं यस्य नास्ति तस्य चिकित्सितम् ॥ २७॥
आतुरस्य गृहे यस्य भिन्ते वा पतन्ति वा। अतिमात्रममत्राणि दुर्लभं तस्य जीवितम् ॥ २८ ॥ गङ्गाधरः--शयनमित्यादि। यस्यातुरस्य सुहृदः प्रेतवच्छयनवसनादिकं कुचन्ति, स प्रेतो मृत एव ।। ६६ ॥
गङ्गाधरः-अन्नमित्यादि। आतुरस्य यस्य भोजनाय पच्चमानमन्नमत्यर्थं व्यापद्यते निष्पन्न न भवति। निवाते स्थाने सेन्धनं सकाष्ठं ज्योतिरग्निः प्रशाम्यति तस्य चिकित्सितं नास्ति ॥२७॥ ___ गङ्गाधरः-आतुरस्येत्यादि। यस्यातुरस्य गृहे वासगृहे अमत्राणि पात्राणि अतिमात्रं चूर्णचूर्णीभूय भिद्यन्तेऽतिशब्देन वा पतन्ति तस्य जीवितं दुर्लभं, कविजीवति । सुश्रुतेऽप्युक्तं प्रवेशेऽप्येतदुद्देशादवेक्ष्यश्च तथातुरे। प्रति द्वारं गृहे वास्य पुनरेतन्न गण्यते। केशभस्मास्थिकाष्ठाश्म-तुषकास. कण्टकाः। खट्रोद्ध पादा मद्यापो वसा तैलं तिलास्तृणम्। नपुसकव्यङ्गभग्न-नग्नमुण्डासिताम्बराः। प्रस्थाने वा प्रवेशे वा नेष्यन्ते दर्शनं गताः। भाण्डानां सङ्करस्थानात् स्थानात सञ्चरणं तथा। निखातोपाटनं भङ्गः पतनं निगमस्तथा। वैद्यासनावसादो वा रोगी वा स्यादधोमुखः। वदा सम्भाषमाणोऽङ्ग कुड्यमास्तरणानि वा। प्रमृद्याद्वा धुनीयाद्वा करी पृष्ठं शिरस्तथा। हस्तश्चाकृष्य वैद्यस्य न्यसेच्छिरसि वोरसि। यो वैद्यमुन्मुखः पृच्छे दुन्माष्टि स्वाङ्गमातरः। न स सिध्यति वंद्यो वा गृह यस्य न पूज्यते। भवन पूज्यते वापि यस्य वैद्यः स सिध्यति। शुभं शुभेषु दृतादिष्वशुभं ह्यशुभेषु च । आतुरस्य ध्रुवं तस्माद् दृतादीन लक्षयद्भिपम्।। इति ।।२८ ॥ वैश्मिका जना इति गृहप्रतिष्ठिता जनाः। प्रेतवत् मृतस्य यथा क्रियते तथा। 'सुहृदः' इति वचनेनासुहृदिई पादमङ्गलाथै कृतं प्रेतवत् शयनादि निषेधयति । ज्योतिरग्निः निवाते सेन्धनश्च सन् यदि निर्धाति, ततो रिष्टम् । अमत्राणीति शरावस्थाल्यादीनि ॥ २३-२८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 1084 1085 1086 1087 1088 1089 1090 1091 1092 1093 1094 1095 1096 1097 1098 1099 1100